कादम्बरी /248
This page has not been fully proofread.
चन्द्रापीडस्य मृगया ]
पूर्वभागः ।
२१५
बहुगजतुरगपदातिपरिवृतो वैनं ययौ । तत्र चाकर्णान्ताकृष्टमुक्तैर्विकचकुवलग पलाशकान्ति-
भिर्भल्लैर्मदकलकलभकुम्भभित्तिभिदुरैश्च नाराचै चापटङ्कार भयचकित वनदेवतार्धाक्षवीक्षितो
बनवैराहान्केसरिणः शरभांश्रीमराननेकुरङ्गकांश्च सहस्रशो जघान । अन्यांश्च जीवत एव
महाप्राणतया स्फुरतो जग्राह । समारूढे च मध्यमहः सवितरि वनात्स्त्रांनोत्थितेनेव श्रमस-
लिलबिन्दुवर्षमनवरतमुज्झता मुहर्मुहुर्दशन विघट्टनेः खणखणायितखरखलीनेन श्रमशिथिल-
मुख विर्ग लि त फेनिल रुधिरलवेन पर्याणपट्टकांनुसरणोत्थितफेनराजिना कर्णावतंसी कृतमुत्फुल्ल-
कुसुमशबलम लिपटलेझङ्काररवमुखरं वनगमनचिह्नं पल्लवस्तबक मुद्रहतेन्द्रायुवेनोद्यमानः,
समुद्रत स्वेदतयान्तैराकृतमण्डलेन मृगरुधिरलवशतशबलेन वारवाणेन द्विगुणतरमुपजात-
।
प्रभाषद्धिः शीघ्रं गच्छद्भिः । तत्रेति । तत्र तस्मिन्वने सहस्रशोऽनेकशो वनवराहानरण्यक्रोडान्, केसरिणः
सिंहान्, शरभानष्टापदान, चामराश्चमरीः अनेक कुरङ्गकान संख्यमृगांश्च जघान हतवानित्यन्वयः । कैः ।
नाराचैलौहनिर्मितैर्बाणैः । 'सर्वलोहो नाराच एषणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्ते-
ति । आकर्णान्तमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति । मदेन कला मनोहराः ।
अनेन कलभस्य त्रिंशदब्दकत्वान्मदावस्था सूचिता । अत एव कलभशब्दप्रयोगः । एवंविधा ये कलभा हरित-
शावकारतेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिरकैः । पुनः कैः । भलैः कुन्तैः ।
तानेव विशिनष्टि — विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां पलाशानि पत्राणि
तद्वत्कान्तिदीप्तिर्येषां तैः । उत्तेजितानां भल्लानामपि तदुपमान्म् । यापेति । चापस्य धनुषो यष्टकारष्टङ्कार-
रखोऽनुकरणशब्दस्तस्माद्यद्भयं तेन चकिता त्रस्ता या वनदेवता वनाधिष्ठात्र्यस्ताभिरर्धाक्षेण वीक्षितः ।
अन्यांश्चेति । अन्यानेतद्भिन्नाजीवत एव प्राणान्दधत एव स्फुरतो दीप्यमानान्महाप्राणतया महासाहस-
तथा जग्राह गृहीतवान् । समेति । अहो दिवसस्य मध्यं समारूढे प्राप्ते सवितरि सूर्ये सति वनादरण्या-
तकुमारः स्वभवनं स्वगृहमाजगामाययावित्यन्वयः । अथ कुमारं विशिष्टि-इन्द्रेति । इन्द्रायुधेनाश्वेनोह्यमानः
वहेमानः । अश्वं तुरंगमं विशेषयन्नाह - स्लानेति । अनवरतं श्रमसलिलानां स्वेदोत्थजलानां ये बिन्दवः
पृषतास्तेषां वर्षं वृष्टिमुज्झता त्यजता । अत एवाह - स्नानोत्थितेनेवाप्लवानन्तरमेव कृताभ्युत्थानेनेव । मुहु-
रिति । मुहुर्मुहुर्वारंवारं दशनविघट्टनैर्दन्तघर्षणैः खणखणायितं खणखणेत्याचरितं खरं कठिनं खलीनं
मुखयन्त्रणं येन । श्रमेति । श्रमेण खेदेन शिथिलं श्लथं यन्मुखं तस्माद्विगलिताः स्रस्ताः फेनिलंयुक्ताः
कफसहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याणं पल्ययनं तस्य पट्टकः काष्ठपीठं तद्यावदनुसरणं
यस्या एवंविधोत्थिता फेनराजिः कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं कृतम् ।
उत्फुल्लानि विक्रचानि यानि कुसुमानि तैः शबलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्कारो
झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्नं लक्ष्मैवंविधं पलवस्तबक किसलयगुच्छकमु-
द्वहता धारयता । पुनः कीदृशः । समुद्रतः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तराद्रीकृतं मण्डलं यस्य स
तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्तांशास्तेषां शतं तेन शबलेन कर्वुरेणैवंभूतेन वारबाणेन
कचुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारबाणेन महती दीप्तिर्भवत्येवेति विश्वविदितम् ।
।
टिप्प० -1 अशुद्धमिदम् । पृष्ठे स्थाप्यमान इत्युचितम् । 2 इलघूप्रत्ययः स्वयं मत्वर्थे । अत एव
फेनयुक्ता इस्युचितम् ।
पाठा -१ पादातिभिः. २ धनं वनम् ३ अवकृष्ट ४ टक्कर. ५ वनवराह केसरिण: ६ चामराननेक-
विधः. ७ ज्ञानोस्थितेन. ८ खररवाभीतेन. ९ गलित. १० अनुसारोत्थितः• ११ झङ्कारमुखरम् १२ अन्तरा
न्तरा. १३ उपजनित.