2024-01-07 03:25:15 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सन्ध्यावर्णनम् ]
 
पूर्वभागः ।
 
रशाखा [^१]वलम्बिपञ्जरेषु विगतालापेषु शुकसारिकानिवहेषु, संगीते [^२]तविरामविश्रान्तरवासूत्सा-
र्यमाणासु वीणासु, युवतिनूपुर- शब्दोपशमनिभृतेषु भवनकलहंसेषु, अपनीयमानकर्णशङ्खचा-

मरनक्षत्रमाला [^३]मण्डनेषु मधुकरकुलशून्यकपोलभित्तिषु मत्त- वारणेषु, प्रदीप्यमानेषु राजवल्ल
भतुर [^४]ङ्गममन्दुराप्रदीपेषु, प्रविशन्तीषु प्रथमयामकुञ्जरघटासु, [^५]कृतस्वस्त्ययनेषु निष्क्रामत्सु
- मत्सु पुरोहितेषु, विसर्जितराज लोकविरलपरिजनेषु विस्तारितेष्विव राजकुल कक्षान्तरेषु, प्रज्वलित-
दीपिका सहस्र प्रतिबिम्ब चुम्बितेषु [^६]कृतविकच चम्पकदलो पहारेष्विव मणिभूमिकुट्टिमेषु, निपति
-
तदीपालोकासु रविविरहार्तनलिनी विनोदनागतबालातपास्विव भवनदीर्घिकासु, निद्रालसेषु
पञ्जरकेसरिषु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकरकेतौ, अव-
तंसपल्ल- वेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, [^७]सूर्यका- न्तमणिभ्य इव संक्रान्ता-
59
 
२१३
 

 
[ टि ]--
तेषु । शुकः कीरः, सारिका पीतपादा, तयोर्निवहेषु सत्सु । संगीतेति । संगीतस्य यो विरामोऽवसानं तेन
विश्रान्तः स्थितो रवः शब्दो यासां तासूत्सार्यमाणासु दूरीक्रियमाणासु वीणासु वल्लकीषु सतीषु । युवतीति । युव
तीनां यानि नूपुराणि पादकटकानि तेषां यः शब्दस्तस्योपशमो निवृत्तिस्तेन निभृतेषु निश्चलेषु भवनकलहंसेषु गृह-
राजहंसेषु सत्सु । नूपुरशब्दोपशमस्य सजातीयरव [^1]शङ्का- कारित्वाभावेन तेंतेऽपि सुखेन सुप्ता इति भावः । अपनीति ।
अप- नीयमानानि दूरीक्रियमाणानि दृष्टिदोषशमार्थं कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला
नक्षत्रसंख्यमौक्तिकरचि- ताभरणविशेषः, एवंविधानि मण्डनानि भूषणानि येषु । मधुकरेति । मधुकरा भ्रमरा-
स्तेषां कुलं समूहस्तेन शून्या रिक्ता कपोलभित्ति- र्येषां तेषु एवंविधेषु मत्तवारणेपु मत्तगजेषु सत्सु । प्रदीति ।
प्रदीप्य- मानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरङ्गमा अश्वास्तेषां मन्दुरा शाला तस्यां प्रदीपेषु
स्नेहप्रियेषु । प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीषु प्रथमयामसक्ता याः कुञ्जरघटास्तासु । कृतेति । कृतं
विहितं स्वस्त्ययनं विघ्नोपशमन विधिर्यैरेवंभूतेषु पुरो- हितेषु पुरोधस्सु निष्क्रामत्सु बहिर्गच्छत्सु । पुनः केषु
सत्सु । मणि- भूमिकुट्टिमेषु स्फटिकमणिना बद्धानि यानि भूमौ कुट्टिमानि तेषु सत्सु । तानि विशेषयन्नाह
- विस-
-- विसर्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येषु । अत एव विस्तारिते- ष्विव
विस्तारं प्राप्तेष्विव । स्तोकजनापेक्षया स्थानं महद्दृश्यते रजन्यामिति भावः । राजेति । राजकुलस्य यानि
कक्षान्तराणि प्रकोष्ठान्तराणि तेषु । प्रज्वलितं यद्दीपिकासहस्रं तस्य प्रतिबिम्बा-
नि प्रतिच्छायास्तैश्चुम्बितेषु
सहितेषु । दीपकप्रतिबिम्बानां पीतत्वा- दुपमानान्तरं दर्शयन्नाह — कृतेति । कृतो विहितो विकचचम्पक- दलै-
रुपहारः पूजा येष्वेवंविधेष्विव । चम्पकदलानां पीतत्वादेव तदुपमानमिति भावः । निपतितेति । निपतितः
पतितो दीपालोको गृहमणि [^2]प्रकाशो यासु । रवीति । रविविरहेण सूर्यविरहेणार्ता या नैलिन्यस्तासां विनोदनं
क्रीडनं तदर्थंमागतो बालातपो यास्वे॒वेवं- विधाखिस्विव भवनदीर्घिकासु गृहवापीषु तीषु पञ्जरस्थकेसरिषु
सिंहेषु निद्रया प्रमीलयालसेषु मन्थरेषु सत्सु । समारोपितेति । समारोपित-
मधिज्यं कृतं कार्मुकं येन स
तस्मिन् । गृहीताः सायका बाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तःपुरप्रविष्टे मकरकेतौ कंदर्पे
सति । सुरतेति । सुरते मैथुने यानि दूतीवचनानि तेषु कर्णे श्रोत्रे क्रियमाणेषु श्रूयमाणेषु सत्सु । सरागेषु
अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंस- पल्लवेष्विव । मानि-

 
[^1]F. हंसरवानुकारी नूपुरशब्दः । ततश्च नूपुरशब्दे जाते हंसा: सजातीयस्य विरावभ्रमेण शब्दायन्ते, किन्तु नूपुरशब्दोपरामेण रात्रौ तेपि निभृताः स्थिता इति ग्रन्थकर्तुराशयः ।
[^2]F. दी
पाठा० - लोको दीपकानां प्रकाशः ।
[^3]F. पुं- स्त्रीलिङ्गाभ्यां रविनलिन्योर्नायकनायिकाव्यवहारसूच- नात् समासोक्तिः ।
 
 
[^
]G. अवलम्बित .
[^
]G. संगीतक.
[^
]G. मण्डलपिण्डेषु; मण्डलेषु.

[^४]G. तुरङ्ग.
[^५]G. कृतराज.
[^६]G. विकच.
[^
]G. सूर्यमणिभ्यः.
 
टिप्प० - 1 हंसरवानुकारी नूपुरशब्दः । ततश्च नूपुरशब्दे जाते हंसा: सजातीयस्य विरावभ्रमेण
शब्दायन्ते, किन्तु नूपुरशब्दोपरामेण रात्रौ तेपि निभृताः स्थिता इति ग्रन्थकर्तुराशयः । 2 दीपालोको
दीपकानां प्रकाशः । 3 पुं स्त्रीलिङ्गाभ्यां रवि नलिन्योर्नायकनायिका व्यवहारसूचनात् समासोक्तिः ।
 
G
 
४ तुरङ्ग. ५ आराज. ६ विकच.