कादम्बरी /246
This page has not been fully proofread.
सन्ध्यावर्णनम् ]
पूर्वभागः ।
रशाखावलम्बिपञ्जरेषु विगतालापेषु शुकसारिकानिवहेषु, संगीतेविरामविश्रान्तरवासूत्सा-
र्यमाणासु वीणासु, युवतिनूपुरशब्दोपशमनिभृतेषु भवनकलहंसेषु, अपनीयमानकर्णशङ्खचा-
मरनक्षत्रमालामण्डनेषु मधुकरकुलशून्यकपोलभित्तिषु मत्तवारणेषु प्रदीप्यमानेषु राजवल्ल
भतुरङ्गममन्दुराप्रदीपेषु, प्रविशन्तीषु प्रथमयामकुञ्जरघटासु, कृतस्वस्त्ययनेषु निष्क्रामत्सु
पुरोहितेषु, विसर्जितराज लोकविरलपरिजनेषु विस्तारितेष्विव राजकुल कक्षान्तरेषु, प्रज्वलित-
दीपिका सहस्र प्रतिबिम्ब चुम्बितेषु कृतविकच चम्पकदलो पहारेष्विव मणिभूमिकुट्टिमेषु, निपति
तदीपालोकासु रविविरहार्तनलिनी विनोदनागतबालातपास्विव भवनदीर्घिकासु, निद्रालसेषु
पञ्जरकेसरिषु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकरकेतौ, अव-
तंसपल्लवेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, सूर्यकान्तमणिभ्य इव संक्रान्ता-
59
२१३
तेषु । शुकः कीरः, सारिका पीतपादा, तयोर्निवहेषु सत्सु । संगीतेति । संगीतस्य यो विरामोऽवसानं तेन
विश्रान्तः स्थितो रवः शब्दो यासां तासूत्सार्यमाणासु दूरीक्रियमाणासु वीणासु वल्लकीषु सतीषु । युवतीति । युव
तीनां यानि नूपुराणि पादकटकानि तेषां यः शब्दस्तस्योपशमो निवृत्तिस्तेन निभृतेषु निश्चलेषु भवनकलहंसेषु गृह-
राजहंसेषु सत्सु । नूपुरशब्दोपशमस्य सजातीयरवशङ्काकारित्वाभावेन तेंऽपि सुखेन सुप्ता इति भावः । अपनीति ।
अपनीयमानानि दूरीक्रियमाणानि दृष्टिदोषशमार्थं कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला
नक्षत्रसंख्यमौक्तिकरचिताभरणविशेषः, एवंविधानि मण्डनानि भूषणानि येषु । मधुकरेति । मधुकरा भ्रमरा-
स्तेषां कुलं समूहस्तेन शून्या रिक्ता कपोलभित्तिर्येषां तेषु एवंविधेषु मत्तवारणेपु मत्तगजेषु सत्सु । प्रदीति ।
प्रदीप्यमानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरङ्गमा अश्वास्तेषां मन्दुरा शाला तस्यां प्रदीपेषु
स्नेहप्रियेषु । प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीषु प्रथमयामसक्ता याः कुञ्जरघटास्तासु । कृतेति । कृतं
विहितं स्वस्त्ययनं विघ्नोपशमन विधिर्यैरेवभूतेषु पुरोहितेषु पुरोधस्सु निष्क्रामत्सु बहिर्गच्छत्सु । पुनः केषु
सत्सु । मणिभूमिकुट्टिमेषु स्फटिकमणिना बद्धानि यानि भूमौ कुट्टिमानि तेषु सत्सु । तानि विशेषयन्नाह
- विस-
र्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येषु । अत एव विस्तारितेष्विव
विस्तारं प्राप्तेष्विव । स्तोकजनापेक्षया स्थानं महद्दृश्यते रजन्यामिति भावः । राजेति । राजकुलस्य यानि
कक्षान्तराणि प्रकोष्ठान्तराणि तेषु । प्रज्वलितं यद्दीपिकासहस्रं तस्य प्रतिबिम्बानि प्रतिच्छायास्तैश्चुम्बितेषु
सहितेषु । दीपकप्रतिबिम्बानां पीतत्वादुपमानान्तरं दर्शयन्नाह — कृतेति । कृतो विहितो विकचचम्पकदलै-
रुपहारः पूजा येष्वेवंविधेष्विव । चम्पकदलानां पीतत्वादेव तदुपमानमिति भावः । निपतितेति । निपतितः
पतितो दीपालोको गृहमणिप्रकाशो यासु । रवीति । रविविरहेण सूर्यविरहेणार्ता या नैलिन्यस्तासां विनोदनं
क्रीडनं तदर्थंमागतो बालातपो यास्वे॒वंविधाखिव भवनदीर्घिकासु गृहवापीषु तीषु पञ्जरस्थकेसरिषु
सिंहेषु निद्रया प्रमीलयालसेषु मन्थरेषु सत्सु । समारोपितेति । समारोपितमधिज्यं कृतं कार्मुकं येन स
तस्मिन् । गृहीताः सायका बाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तःपुरप्रविष्टे मकरकेतौ कंदर्पे
सति । सुरतेति । सुरते मैथुने यानि दूतीवचनानि तेषु कर्णे श्रोत्रे क्रियमाणेषु श्रूयमाणेषु सत्सु । सरागेषु
अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंसपल्लवेष्विव । मानि-
पाठा० - १ अवलम्बित २ संगीतक. ३ मण्डलपिण्डेषु; मण्डलेषु.
७ सूर्यमणिभ्यः.
टिप्प० - 1 हंसरवानुकारी नूपुरशब्दः । ततश्च नूपुरशब्दे जाते हंसा: सजातीयस्य विरावभ्रमेण
शब्दायन्ते, किन्तु नूपुरशब्दोपरामेण रात्रौ तेपि निभृताः स्थिता इति ग्रन्थकर्तुराशयः । 2 दीपालोको
दीपकानां प्रकाशः । 3 पुं स्त्रीलिङ्गाभ्यां रवि नलिन्योर्नायकनायिका व्यवहारसूचनात् समासोक्तिः ।
G
४ तुरङ्ग. ५ आराज. ६ विकच.