2024-01-04 07:03:08 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
२मुल्लसिता [^१२
काद]यामम्बरी ।
[ कथारत [^२]टाकविकचकमलिन्यां संध्यायाम्-
,
,
मुल्लसिताया मम्बरतटोकविकचकमलिन्यां संभ्यायाम् कृष्णागुरुपङ्कपत्रलताखिस्विव तिमिरले-
खासु स्फुरन्तीषु दिशा [^३]मु खेषु, [^४]अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे ति- मिरेणो [^५]त्सा-
र्यमाणे संध्यारागे, कमलिनीनिपीतमातपमुन्मूलयि- तुमन्ध [^६]कारपल्लवेष्विव [^७]प्रविशत्सु रक्तकम-
लोदराणि मधुकरकुलेषु, शनैः शनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे,
[^८]दिक्षु विक्षिप्तेषु संध्यादेवतार्चनबलिपिण्डेषु, शिख- रदेशलग्नतिमिरास्वना रूढ मयूरास्वपि मयूरा-
धिष्ठितास्विव मयूर- यष्टिषु, गवाक्षविवरनिलीनेषु प्रासाप्तादलक्ष्मीकै [^१०]कर्णोत्पलेषु पारावतेषु, विगत-
विलासिनीसंवाहननिश्चले [^११]लकाञ्चन [^१२]पी- ठासु मूकीभूतघण्टास्वरास्वन्तः पुरदोलासु, भवनसहका-
[ टि ]-- अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह – अम्बरेति । अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात्,
तदेव तटाकः सरस्त- स्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्याति- शयो व्यङ्ग्यः । पुनः
केषु सत्सु । दिशामुखेषु दिग्वदनेषु तिमिर- [^1]लेखासु भूच्छायराजिषु स्फुरन्तीषु देदीप्यमानासु । कृष्णत्वसा
म्यादाह — कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पङ्कः कर्दम- स्तस्य पत्रलतास्थिविव पत्रभङ्गेष्विव । दिशां [^2]मुखं
तन्मुखमेव । अत एव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्ध- कारेण संध्याराग उत्सार्यमाणे
दूरीक्रियमाणे संसति । केनेश्व । अलिकुलं भ्रमरसमूह [^3]स्तेनैन मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्म-
समूहे । तथा च रागतिमिरयोः कुमुदक-
मलयोर्विरुद्धातिशयवत्वेनैतदुपमानम् । कमलिनीति । कम-
लिन्या पद्मिन्या निपीतमास्त्रावादितमातपं सूर्यालोकमुन्मूलयितुं मूलतोऽपि दूरीकर्तुतुं रक्तकमलोदराणि मधुकर-
कुलेषु शनैः शनैः प्रविशत्सु प्रवेशं कुर्वत्सु । कृष्णत्वसाम्यादाह – अन्धेति । अन्धकारप [^4]प- ल्लवेष्विव तमो-
भागेष्विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशशैव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं
तस्या तस्या- वतंसपल्लवे शेखरकिसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संध्यादेवतार्चनार्थं बलिपि-
ण्डेषु विक्षिप्तेषु विकीर्णेषु सत्सु । अर्धजलाञ्जलिभिरित्यपि बोध्यम् । तमसो नीलत्वात्तदेव मयूरसा- म्यमित्याश-
येनाह– मयूरेति । शिखरदेशे प्रान्तप्रदेशे लग्नं तिमिरं तमो या स्वेवंविधास्वनारूढमयूरास्त्रवप्यनाश्रितनीलक-
ण्ठास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु सतीषु । पारावतानां रात्रौ विवरे निवासः प्रसिद्ध इति तदाह -
गवाक्षेति । गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु । कृष्णत्वसाम्यादाह-
प्रासादेति । प्रासादस्य राजसदनस्य या लक्ष्मीस्तस्याः कर्णोत्पलेषु पारावतेषु कपोतेषु सत्सु । पुनः कासु ।
अन्तःपुरदोलास्ववरोध- प्रेङ्खासु सतीषु । ता विशेषयन्नाह - विगतेति । विगतं दूरीभूतं विलासिनीनां संवाह -
नमुद्वहनं तेन निश्चलानि स्थिराणि काञ्चन- पीठानि सुवर्णफलकानि यासु । मूकीति । मूकीभूता दोलासंबन्धि-
घण्टास्ताभिरस्वरासु शब्दरहितासु । आन्दोलनाभावादिति भावः । तदभावस्तु कस्यचिदारोहणाभावात् । भव-
नेति । भवनस्य गृहस्य यः सहकारश्वचूतस्तस्य शाखावलम्बीनि पञ्जराणि येषां तेषु विगता- लापेषु संलापवर्जि-
[^1
-
टिप्प० - 1]F. अन्धकारपरम्परास्वित्यर्थः ।
[^2]F. दिशां यः प्राग्भागः स एव मुखखं ( वदनम् ), अत एव
तिमिरलेखास्तत्र कृष्णागुरुपत्रभङ्गायिता इति टीकाकर्तुस्तात्पर्यम् । । [^3]F. भ्रमरसमूहाच्छादिततया मलि-
नेन कुवलय ( नीलोत्पल )- वनेन रक्तपद्मसरोवरे हइव तिमिरेण सन्ध्यारागे उत्सार्यमाणे ( सति ) इत्यन्वयो
बोध्यः ।
[^4]F. अत्रापि टीकाकारस्याज्ञानम्, नहि अन्धकारो वृक्षो यसस्य पल्लवाः । अत एव 'अन्धकारकरण-
पल्लवेष्विव' इत्येव पाठः । अन्तः प्रविष्टपदार्थस्य निःसारणाय हस्तः प्रवेश्यते, अत एव मधुक- रेषु अन्धकार-
करपल्लवत्वोत्प्रेक्षेत्यर्थः । एवं 'तमोभागेष्विव' 'अति- शयत्वम्' इति लेखोऽप्यज्ञानम् ।
पाठा० -
[^१]G. अम्बरतल, .
[^२]G. तडाग .
[^३]G. दिशां मुखेषु.
[^४]G. अलिकुलेन मलिनेषु.
[^५]G. तिमिरनिकरेण.
[^६]G. अन्धकारकर-
पछपल्लवेषु.
[^७]G. विशत्सु.
[^८]G. दिक्षु दिक्षु.
[^९]G. अर्चना.
[^१०]G. कर्णोत्पलेष्विव .
[^११]G. निश्चलासु.
[^१२]G. पीठिकासु.
[^१३]G. घण्टार-
वासु,; घण्टासु.