This page has not been fully proofread.

२१२
 
कादम्बरी ।
 
[ कथायाम्-
,
 
,
 
मुल्लसिताया मम्बरतटोकविकचकमलिन्यां संभ्यायाम् कृष्णागुरुपङ्कपत्रलताखिव तिमिरले-
खासु स्फुरन्तीषु दिशा मुखेषु, अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरेणोत्सा-
र्यमाणे संध्यारागे, कमलिनीनिपीतमातपमुन्मूलयितुमन्धकारपल्लवेष्विव प्रविशत्सु रक्तकम-
लोदराणि मधुकरकुलेषु, शनैः शनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे,
दिक्षु विक्षिप्तेषु संध्यादेवतार्चनबलिपिण्डेषु, शिखरदेशलग्नतिमिरास्वना रूढ मयूरास्वपि मयूरा-
धिष्ठितास्विव मयूरयष्टिषु, गवाक्षविवरनिलीनेषु प्रासादलक्ष्मीकैर्णोत्पलेषु पारावतेषु, विगत-
विलासिनीसंवाहननिश्चलेकाञ्चनपीठासु मूकीभूतघण्टास्वरास्वन्तः पुरदोलासु, भवनसहका-
अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह – अम्बरेति । अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात्,
तदेव तटाकः सरस्तस्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्यातिशयो व्यङ्ग्यः । पुनः
केषु सत्सु । दिशामुखेषु दिग्वदनेषु तिमिरलेखासु भूच्छायराजिषु स्फुरन्तीषु देदीप्यमानासु । कृष्णत्वसा
म्यादाह — कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पङ्कः कर्दमस्तस्य पत्रलतास्थिव पत्रभङ्गेष्विव । दिशां मुखं
तन्मुखमेव । अत एव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्धकारेण संध्याराग उत्सार्यमाणे
दूरीक्रियमाणे संति । केनेश् । अलिकुलं भ्रमरसमूहस्तेनै मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्म-
समूहे । तथा च रागतिमिरयोः कुमुदकमलयोर्विरुद्धातिशयवत्वेनैतदुपमानम् । कमलिनीति । कम-
लिन्या पद्मिन्या निपीतमास्त्रादितमातपं सूर्यालोकमुन्मूलयितुं मूलतोऽपि दूरीकर्तु रक्तकमलोदराणि मधुकर-
कुलेषु शनैः शनैः प्रविशत्सु प्रवेशं कुर्वत्सु । कृष्णत्वसाम्यादाह – अन्धेति । अन्धकारपल्लवेष्विव तमो-
भागेष्विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं
तस्यावतंसपलवे शेखरकिसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संध्यादेवतार्चनार्थं बलिपि-
ण्डेषु विक्षिप्तेषु विकीर्णेषु सत्सु । अर्धजलाञ्जलिभिरित्यपि बोध्यम् । तमसो नीलत्वात्तदेव मयूरसाम्यमित्याश-
येनाह– मयूरेति । शिखरदेशे प्रान्तप्रदेशे लग्नं तिमिरं तमो या स्वेवंविधास्वनारूढमयूरास्त्रप्यनाश्रितनीलक-
ण्ठास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु सतीषु । पारावतानां रात्रौ विवरे निवासः प्रसिद्ध इति तदाह -
गवाक्षेति । गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु । कृष्णत्वसाम्यादाह-
प्रासादेति । प्रासादस्य राजसदनस्य या लक्ष्मीस्तस्याः कर्णोत्पलेषु पारावतेषु कपोतेषु सत्सु । पुनः कासु ।
अन्तःपुरदोलास्ववरोधप्रेङ्खासु सतीषु । ता विशेषयन्नाह - विगतेति । विगतं दूरीभूतं विलासिनीनां संवाह -
नमुद्वहनं तेन निश्चलानि स्थिराणि काञ्चनपीठानि सुवर्णफलकानि यासु । मूकीति । मूकीभूता दोलासंबन्धि-
घण्टास्ताभिरस्वरासु शब्दरहितासु । आन्दोलनाभावादिति भावः । तदभावस्तु कस्यचिदारोहणाभावात् । भव-
नेति । भवनस्य गृहस्य यः सहकारश्वतस्तस्य शाखावलम्बीनि पञ्जराणि येषां तेषु विगतालापेषु संलापवर्जि-
1
 
-
 
टिप्प० - 1 अन्धकारपरम्परास्वित्यर्थः । 2 दिशां यः प्राग्भागः स एव मुख ( वदनम् ), अत एव
तिमिरलेखास्तत्र कृष्णागुरुपत्रभङ्गायिता इति टीकाकर्तुस्तात्पर्यम् । 3 भ्रमरसमूहाच्छादिततया मलि-
नेन कुवलय ( नीलोत्पल ) वनेन रक्तपद्मसरोवरे हव तिमिरेण सन्ध्यारागे उत्सार्यमाणे ( सति ) इत्यन्वयो
बोध्यः । 4 अत्रापि टीकाकारस्याज्ञानम्, नहि अन्धकारो वृक्षो यस पल्लवाः । अत एव 'अन्धकारकरण-
लवेष्विव' इत्येव पाठः । अन्तः प्रविष्टपदार्थस्य निःसारणाय हस्तः प्रवेश्यते, अत एव मधुकरेषु अन्धकार-
करपल्लवत्वोत्प्रेक्षेत्यर्थः । एवं 'तमोभागेष्विव' 'अतिशयत्वम्' इति लेखोऽप्यज्ञानम् ।
 
पाठा० -१ अम्बरतल, २ तडाग ३ दिशां मुखेषु. ४ अलिकुलेन मलिनेषु. ५ तिमिरनिकरेण. ६ अन्धकारकर-
पछवेषु. ७ विशत्सु. ८ दिक्षु दिक्षु. ९ अर्चना. १० कर्णोत्पलेष्विव ११ निश्चलासु. १२ पीठिकासु. १३ घण्टार-
वासु, घण्टासु.