कादम्बरी /244
This page has not been fully proofread.
चन्द्रापीडस्य शुकनास-तस्पतीसाक्षात्कारः ] पूर्वभागः ।
२११
तेन राजपुत्रलोकेनाभिषेका दिमशनावसान मकरोदिवस विधिम् । अभ्यन्तरे च शेयनीयगृह
एवेन्द्रायुधस्थावस्थान मकल्पयत् ।
एवंप्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ । गगनतलादवतरन्त्या दिवसश्रियः
पद्मरागनूपुर मिव स्वप्रभापिहितरन्धं रविमण्डलमुन्मुक्तपादं पपात । जलप्रवाह इव रथच-.
क्रमार्गानुसारेण दिवसकरस्य वाससलोकः प्रतीचीं ककुभमेगात् । अभिनवपल्लत्रलोहिततलेन
करेणेवाधोमुखप्रसृतेन रँविबिम्बेन वासरः कमलरागमशेषं ममार्ज । कमलिनीपरिमलपरि-
चयागतालिमालाकुलितकण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृष्यमाणं विजघटे । करपुढैरा-
दिवसान्तमापीतमरविन्दमधुरसमिव रक्तातपच्छलेन गगनगमनखेदादिव दिवसकर
बिम्बं
ववाम । क्रमेण च प्रतीची कर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, स-
पुत्रलोकेन सह सार्धमभिषेकः स्नानमादिर्यस्य तम् । अशनं भोजनमवसानेऽन्ते यस्यैवंभूतं दिवस-
विधिं दिवसकर्माकरोदकार्षीत् । अभ्यन्तरे मध्ये यच्छयनीयगृहं सुषुप्तिगृहं तस्मिन्नेवेन्द्रायुधस्य स्वकीयाश्वस्याव-
स्थानमकल्पयदन्वतिष्ठत् ।
एवमिति । अस्य राज्ञ एवंप्रायेणोदन्तेन वृत्तान्तेन तदहस्तद्दिनम् । परिणतिस्त्रयोदशमुहूर्त पर्यन्तदिव-
सावस्था परिणतिस्तामुपययावगमत् । रविमण्डलं सूर्यबिम्बमुदूर्ध्वं मुक्ताः पादाः किरणा येनैवंभूतं पपात
सस्तम् । अन्योऽप्युपरिप्रदेशाद्यः पतति स ऊर्ध्वपाद एव स्यात् । स्वभाववर्णवर्तुलत्वसाम्यादुपमानान्तरं
दर्शयन्नाह – गगनेति । गगनतलादाकाशतलादवतरन्त्या आगच्छन्त्या दिवसश्रियो दिनलक्ष्म्याः पद्मरागनू-
पुरमिव लोहितकपादकटकमिव । नूपुरं प्रायेण सच्छिद्रम् । छिद्रोपलब्धय आह – स्वेति । स्वस्य या प्रभा
कान्तिस्तया पिहितान्याच्छादितानि रन्ध्राणि छिद्राणि यस्य तत् । दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण
वासरालोको दिवसप्रकाशः प्रतीचीं पश्चिमां ककुभं दिशमगात्प्रययौ । क इव । जलप्रवाह इव पानीयपूर इव ।
सोऽपि रथमार्गानुगामी स्यादिति भावः । वासरो दिवसोऽधोमुखं प्रसृतेन विस्तृतेन रविबिम्बेन सूर्यबिम्बेना-
भिनवाः प्रत्यग्रा ये पल्लवास्तद्वल्लो हितं रक्तं तलं यस्यैवंभूतेन करेणेव करतलेनेव कमलरागमशेषं सम
ममार्ज दूरीचकारेत्यन्वयः । अत्र वर्तुलत्वरक्तत्वसाम्या द्रविबिम्बस्य हस्ततलोपमानम् । कमलानां संकोच.
त्वादेव रागनिवृत्तिरिति । कमलिनीति । कमलिन्या नलिन्या यः परिमलस्तस्य परिचयात्संबन्धादागता
प्राप्तालिमाला भ्रमर श्रेणिस्तयाकुलितो व्याप्तः कण्ठो यस्य । अत एव हेतुनाह — कालेति । कालपाशः कृष्णः
बन्धनैराकृष्यमाणमिव चक्रवाकमिथुनं द्वन्द्वचरमिथुनं विजघटे विघटयांचकार । दिवसकरेति । दिवसकर
बिम्बं सूर्यबिम्बं गगनगमनखेदादिव व्योमसंचरणप्रयासादिव करपुढैः किरणसंपुटैरा दिवसान्तमा दिनपर्यन्त
मापीतो योऽरविन्दमधुरसस्तमिव रक्तातपच्छलेन लोहितप्रकाशमिषेण ववामोद्गिरयांचकार । अस्तावस्थामाह -
प्रतीचीति । प्रतीची पश्चिमा तस्याः कर्णपूरं तदेव रक्तोत्पलं तद्रूपे लोकान्तरं क्षेत्रान्तरमुपगते प्राप्ते
भगवति माहात्म्यवति गभस्तिमालिनि श्रीसूर्ये सति । अथ च संध्यायां समुल्लसितायामुल्लासं प्राप्तायाम् ।
टिप्प० – 1 संकोचादेवेति तात्पर्यम् । 2 रात्रौ चक्रद्वन्द्वस्य तथा विघटनमभूद् यथा काल ( मृत्यु ).
षाशैराकृष्टस्य मुमूर्षो: प्रियजनसकाशाद्वियोगो भवतीति शब्दशक्त्या ध्वन्यते । मृत्युवद्दुःखसूचनेन प्रेमा.
तिवायश्वरमं व्यङ्ग्यम् । 3 वियुक्तं बभूवेति व्याख्यानमुचितम् । 4 उजगारेत्यर्थः । मार्गगमनखेदाति.
शयाद् यथा श्रान्तस्य निपीतपदार्थस्य वमनं भवति तथाऽत्र सूर्यस्य वमनमित्याशयः ।
पाठा० - १ अभिषेकादिकम् २ स्वशयनीय ३ सलिलप्रवाह: ४ दिशम् ५ अगमत्. ६ पहबदललोहितकरेण,
● दिवसकर. ८ करपुटैदिवसान्तम्.