2024-01-04 06:29:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२१०
 
कादम्बरी :
 
[ कथायाम्-
चेदमशेष विद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजा यासां भरत- भगीरथप्रतिमो भवानुत्पन्न -
पालयिता । किं खलु कृतमवदातं कर्म वसुंधरचाया ययासि भर्ता समासादितः । हरिवक्षस्थः
लनिवासासद्गृ- ह [^१]व्यसनितया हता खलु लक्ष्मीः, या विग्रहवती भवन्तं नोप- सर्पति । सर्वथा
कल्पकोटीमहावराह इव [^२]दंष्ट्रावलयेन वह बाहुना सुंधराभारं ह पित्रा' इत्यभिधाय च
स्वयमाभरणवसन- कुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार । विसर्जितश्चोत्थायान्तः- पुरं
प्रवि
प्रविश्य [^३]दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितम्,
प्रतिच्छन्दकमिव राजकुलस्य द्वारावस्थितसितपूर्णकलशम्, आबद्धरित [^४]चन्दनमालम्,
उल्लसितसितपताकासहस्रम्, अभ्याहतमङ्गलतूर्यरवपरिपूरित- दिगन्तरम्, उपरचितविकच-
कमलकुसुमप्रकरम्, अचिरकृताग्नि- कार्यम्, उज्ज्वलविविक्तपरिजनम्, उपपादिताशेषग्रहा-
वेशमङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुप- विश्य सह
 
,
 

 

 
[ टि ]--
क्व । इयं परिदृश्यमानाऽमानुषी मनुष्येष्वसंभाव्यमानैता- दृशी शक्तिः पराक्रमः क्व । इदमशेषविद्याग्रहणसामर्थ्
यं क् । अहो इत्याश्चर्ये । धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः,
ताभ्यां प्रतिमः सदृशो भवांस्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्ने । खलु निश्चयेन । वसुंधरया पृथिव्या-
वदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समा- सादितः प्राप्तः अमि सि। हरिवक्षस्थले विष्णुभुजान्तरे यो
निवासोऽव- स्थितिस्तलक्षणो योऽसङ्ग्रहो हठस्तब्द्व्यसनितया तदासक्ततया । खलु निश्चयेन लक्ष्मीः श्रीर्हता । दैवेनेति
शेषः । या श्रीर्भवन्तं त्वां विग्रहवती शरीरधारिणी नोपसर्पति नाभ्युपैति । अमूर्तरूपेण यद्याम्य- प्यनुसरति तथापि न
मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटीर्यावद्वाबाहुना भुजेन वसुंधराभारं पित्रा सह

जनकेन समं वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महांवराह इव । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा । चकारः
समुच्चयार्थः । स्वय- मात्मनैव । आभरणेति । आभरणानि भूषणानि वसनानि वस्त्राणि कुसुमानि पुष्पाणि,
अं
ङ्गरागो विलेपनम्, एतत्प्रभृतिभिर्वस्तुभिरभ्य- र्च्यार्चयित्वा विसर्जयांचकार विसर्जितवान् । विसर्जितो गृहायानुज्ञा
- त उत्थायोत्थानं कृत्वान्तःपुरमवरोधं प्रविश्य मध्ये गत्वा मनोरमा- भिधानां मनोरमेति नाम्नीं वैशम्पायनमातरं दृष्ट्वा
विलोक्य तदनन्तरं बहिर्निर्गत्येन्द्रायुधं समारुह्यारोहणं कृत्वा कुमारो भवनं जंगामे- त्यन्वयः । अथ भवनं विशेष-
यन्नाह – पित्रेति । पित्रा जनकेन पूर्व पूर्वस्मिन्काले कल्पितम् । कारितमित्यर्थः । राजकुलस्य राजसमूहस्य
- हस्य प्रतिच्छन्दकमिव प्रतिबिम्बमिव । द्वारेऽवस्थिताः सिताः श्वेताः पूर्णाः कलशाः कुम्भा यस्मिन् । आबद्धाः संदानिता
हरिता नीला- [^1]श्चन्दनमाला यस्मिन् । उल्लसितमुच्छ्रितं सितपताकानां श्वेतवैजय- न्तीनां सहस्रं यस्मिन् । अभ्याहतानि
वादितानि यानि मङ्गलतूर्याणि कल्याणहेतुकातोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो
निर्मितो विकचानां विकस्वराणां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् । अचिरं कृतमग्निकार्यं होमादिकं यस्मिन् ।
उज्ज्वलो निर्मलो विविक्तो भिन्नभिन्न स्वरूपः परिजनः परिवारोंरो यस्मिन् । उपपादितं विहितमशेषं समग्रं गृह- प्रवेश -
मङ्गलं धात्वालेख्यादि यस्मिन् । अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप
आस्थानमण्डपस्तत्राव- स्थिते स्थापिते शयने शय्यायां मुहूर्तं नाडिकाद्वयमात्रमुपविश्या- वस्थानं कृत्वा तेन राज-
टिप्प० -

 
[^
1]F. 'वन्दनमाला' इत्येव पाठः, टीकाकारस्य तु पदे पदे बुद्धिरेवालौकिकी ।
 
पाठा०-

 
[^
]G. व्यसनिनी.
[^
दशम]G. दंष्ट्राबलेन.
[^
वृद्दा]G. दृष्ट्वा च.
[^
]G. हरिचन्दन.