This page has not been fully proofread.

२१०
 
कादम्बरी :
 
[ कथायाम्-
चेदमशेष विद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजा यासां भरतभगीरथप्रतिमो भवानुत्पन्न -
पालयिता । किं खलु कृतमवदातं कर्म वसुंधरचा ययासि भर्ता समासादितः । हरिवक्षस्थः
लनिवासासद्हव्यसनितया हता खलु लक्ष्मीः, या विहवती भवन्तं नोपसर्पति । सर्वथा
कल्पकोटीमहावराह इव दंष्ट्रावलयेन वह बाहुना बसुंधराभारं पह पित्रा' इत्यभिधाय च
स्वयमाभरणवसन कुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार । विसर्जितश्चोत्थायान्तःपुरं
प्रविष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितम्,
प्रतिच्छन्दकमिव राजकुलस्य द्वारावस्थितसितपूर्णकलशम् आबद्धरितचन्दनमालम्,
उल्लसितसितपताकासहस्रम्, अभ्याहतमङ्गलतूर्यरवपरिपूरितदिगन्तरम्, उपरचितविकच-
कमलकुसुमप्रकरम्, अचिरकृताग्निकार्यम्, उज्वलविविक्तपरिजनम् उपपादिताशेषग्रहा-
वेशमङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुपविश्य सह
 
,
 

 
क्व । इयं परिदृश्यमानाऽमानुषी मनुष्येष्वसंभाव्यमानैतादृशी शक्तिः पराक्रमः क्व । इदमशेषविद्याग्रहणसामर्थ्य
चक्क । अहो इत्याश्चर्ये । धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः,
ताभ्यां प्रतिमः सदृशो भवांस्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्ने । खलु निश्चयेन । वसुंधरया पृथिव्या-
वदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समासादितः प्राप्तः अमि । हरिवक्षस्थले विष्णुभुजान्तरे यो
निवासोऽवस्थितिस्तलक्षणो योऽसङ्ग्रहो हठस्तब्यसनितया तदासक्ततया । खलु निश्चयेन लक्ष्मीः श्रीर्हता । दैवेनेति
शेषः । या श्रीर्भवन्तं त्वां विग्रहवती शरीरधारिणी नोपसर्पति नाभ्युपैति । अमूर्तरूपेण यद्याम्यनुसरति तथापि न
मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटीर्यावद्वाहुना भुजेन वसुंधराभारं पित्रा सह
जनकेन समं वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महांवराह इव । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा । चकारः
समुच्चयार्थः । स्वयमात्मनैव । आभरणेति । आभरणानि भूषणानि वसनानि वस्त्राणि कुसुमानि पुष्पाणि,
अंङ्गरागो विलेपनम्, एतत्प्रभृतिभिर्वस्तुभिरभ्यर्च्यार्चयित्वा विसर्जयांचकार विसर्जितवान् । विसर्जितो गृहायानुज्ञात
उत्थायोत्थानं कृत्वान्तःपुरमवरोधं प्रविश्य मध्ये गत्वा मनोरमाभिधानां मनोरमेति नाम्नीं वैशम्पायनमातरं दृष्ट्वा
विलोक्य तदनन्तरं बहिर्निर्गत्येन्द्रायुधं समारुह्यारोहणं कृत्वा कुमारो भवनं जंगामेत्यन्वयः । अथ भवनं विशेष-
यन्नाह – पित्रेति । पित्रा जनकेन पूर्व पूर्वस्मिन्काले कल्पितम् । कारितमित्यर्थः । राजकुलस्य राजसमूहस्य
प्रतिच्छन्दकमिव प्रतिबिम्बमिव । द्वारेऽवस्थिताः सिताः श्वेताः पूर्णाः कलशाः कुम्भा यस्मिन् । आबद्धाः संदानिता
हरिता नीलाश्चन्दनमाला यस्मिन् । उल्लसितमुच्छ्रितं सितपताकानां श्वेतवैजयन्तीनां सहस्रं यस्मिन् । अभ्याहतानि
वादितानि यानि मङ्गलतूर्याणि कल्याणहेतुकातोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो
निर्मितो विकचानां विकस्वराणां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् । अचिरं कृतमग्निकार्य होमादिकं यस्मिन् ।
उज्वलो निर्मलो विविक्तो भिन्नभिन्न स्वरूपः परिजनः परिवारों यस्मिन् । उपपादितं विहितमशेषं समग्रं गृहप्रवेश -
मलं धात्वालेख्यादि यस्मिन् । अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप
आस्थानमण्डपस्तत्रावस्थिते स्थापिते शयने शय्यायां मुहूर्तं नाडिकाद्वयमात्रमुपविश्यावस्थानं कृत्वा तेन राज-
टिप्प० -1 'वन्दनमाला' इत्येव पाठः, टीकाकारस्य तु पदे पदे बुद्धिरेवालौकिकी ।
 
पाठा०-१ व्यसनिनी. २ दशमलेन. ३ वृद्दा च. ४ हरिचन्दन.