2024-01-03 15:49:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सुधा [^१]वदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनास- भवनं विवेश । प्रविश्य चानेकनरेन्द्रसहस्रमध्यो [^२]पस्थितम- परमिव पितरमुपदर्शित विनयो दूरावनतेन मौलिना शुकनासं ववन्दे ।
 
शुक्रनामस्तं स [^3]संभ्रमं [^४]समुत्थाया [^५]नुपूर्वेणोणोत्थितराज -राज [^६]लोक: सादरमभिमुखदत्ताविरल पदः
[^७]प्रहर्षविस्फा- रितविलो [^८]चनागतानन्दजलकणः [^९]समं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग । आलि-
ङ्गितोन्मुक्तञ्श्च सादरोपनीतमपहाय रत्नासन- मवनावेव राजपुत्रः समुपाविशत्, तदनु च
वैशम्पायनः। [^१०]उप- विष्टे च राजपुत्रे शुकनासवर्जमन्यद खिलमनिपालचक्र मुज्झित नि-जासन-
मवनितलमभजत । स्थित्वा च तूष्णीं क्षै[^११]क्षणमिव शुक- नासः समुद्रतप्रीतिपुलकैरङ्गैरावेद्यमान-
हे
[^१२]हर्षप्रकर्षस्तमब्रवीत् – [^१३]'तात, अद्य खलु देवस्य तारापीडस्य समाप्त विद्यमुपारूढ- यौवनमा-
लोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अथ समृद्धाः सर्वा गुरुजनाशिपः ।
ष:। अद्य फलितमनेकजन्मान्तरोपा-
त्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः । [^१४]न ह्यपुण्यभाजां
भवादृशा [^१५]स्त्रिभुवन विस्मयविस्मय [^१६]जनकाः पुत्रतां प्रतिपद्यन्ते । केक्वेदं वयः । केक्वेयममानुषी शक्तिः ।
 
क्व
 
[ टि ]--
अनेकेति । अनेकेषां नरेन्द्राणां यत्सहस्रं तन्मध्य उपस्थित- मपरमिवान्यमिव पितरं जनकम् । उपेति । उप-
दर्शितो विनयो येन स तथा दूराविष्ठादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चक्रे ।
 
शुक्रनास्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गोपगूहनं चक्रे । ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा
वैशम्पायनेन स्वसुतेन समं सार्धम् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह - आन्विति । आनु-
पूर्व्यानुक्रमेणोत्थितो राजलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुखं दत्तान्य-
विरला- न्यनवच्छिन्नानि पदानि येन स तथा । प्रहर्षेति । प्रहर्षेण प्रमोदेन विस्फारिते विस्तारिते ये विलोचने
तयोरागता आनन्दजलकणा यस्य स तथा । पूर्वमालिङ्गितः पश्चादुन्मुक्तश्च सादरं उपनीतमानीतं रत्नासनं
सिंहासनमपहाय त्यक्त्वानावेव पृथिव्यामेव राजपुत्र- श्चन्द्रापीड : समुपाविशदुपाविशत् : तदनु पश्चाद्वैशम्पायन
उपा- विशत् । उपविष्टे च राजपुत्रे शुकनासवर्जमेकं शुकनासं विहाया- खिलं समग्रमन्य दवनिपालचक्रं राजसमूह-
मुज्झितं त्यक्तं निजासन- मात्मीयासनं येन तत् । अवनितलं पृथ्वीतलमभजदशियित । क्षण- मिति । क्षणमिव
क्षणमात्रं तूष्णीं मौनं स्थित्वा च शुकनासः समुद्गतः प्रादुर्भूतः प्रीत्या स्नेहेन पुलको रोमाञ्चो येष्वेवंविधै-
रङ्गैरावेद्यमानो हर्षप्रकर्ष उत्कर्ष [^1]प्रमोदो यस्य स तथा तं चन्द्रापीडमब्रवीत् । हे तात हे पुत्र । 'तातस्तु'
पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अद्यास्मिन्दिने देवस्य तारापीडँ [^2]डस्य समाप्त विद्यं परिपूर्णीकृता विद्या
येनैवंविधमुपारूढयौवनं संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराच्चिरकालेन भुवनराज्य फलप्राप्तिस्त्रिभुवनाधि-
पत्यफलोप- लब्धिरुपजाता प्रादुर्भूता । अद्य गुरुजनानां पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संपत्ति -
भाजो बभूवुः । अद्यानेकजन्मा- न्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलितं फलवज्जज्ञे । अद्य कुलदेवताः
कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः । न हि अपुण्य- भाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्ट-
पस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । केक्वेति महदन्तरे । इयं वयोवस्था
 
टिप्प० - [^1]F. प्रमोदोत्कर्ष इति वाच्यम् ।
[^
2]F. 'समाप्तविद्यं भवन्तमालोक्य देवस्य तारापीडस्य भुवन-
राज्यफलप्राप्तिरुपजाता' इत्यन्वयो वाच्यः ।
 
पाठा० -[^]G प्रासादमहस्र .
[^
]G. उपविष्टम् .
[^
]G. ससंभ्रम .
[^
]G. उत्थाय .
[^
]G. अनुपूर्वेण.
[^
]G. लोकैः.
[^
]G. संघर्ष.
[^]G. लोचन.
[^
]G. सह.
[^
१०]G. समुपविष्टे.
[^
११]G. क्षणमपि.
[^
१२]G. हृदयहर्ष, .
[^
१३]G. तात चन्द्रापीड.
[^
१४]G. तत्पुण्यभाजाम्
.
[^
१५]G. सकलत्रिभुवन .
[^
१६]G. हेतवः.

२७ का०