कादम्बरी /242
This page has not been fully proofread.
शुकनाससाक्षात्कार: ]
पूर्वभागः ।
२०९
सुधावदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश । प्रविश्य चानेकनरे-
न्द्र सहस्रमध्योपैस्थितम परमिव पितरमुपदर्शित विनयो दूरावनतेन मौलिना शुकनासं ववन्दे ।
शुक्रनामस्तं सँसंभ्रमं समुत्थायानुपूर्येणोत्थितराजलोक: सादरमभिमुखदत्ताविरल पदः
प्रहर्षविस्फारितविलोचनागतानन्दजलकणः समं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग । आलि-
ङ्गितोन्मुक्तञ्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपाविशत्, तदनु च
वैशम्पायनः । उपविष्टे च राजपुत्रे शुकनासवर्जमन्यद खिलम व निपालचक्र मुज्झित निजासन-
मवनितलमभजत । स्थित्वा च तूष्णीं क्षैणमिव शुकनासः समुद्रतप्रीतिपुलकैरङ्गैरावेद्यमान-
हेर्षप्रकर्षस्तमब्रवीत् – 'तात, अद्य खलु देवस्य तारापीडस्य समाप्त विद्यमुपारूढयौवनमा-
लोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अथ समृद्धाः सर्वा गुरुजनाशिपः ।
अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः । न ह्यपुण्यभाजां
भवादृशास्त्रिभुवन विस्मयजनकाः पुत्रतां प्रतिपद्यन्ते । केदं वयः । केयममानुषी शक्तिः । क
अनेकेति । अनेकेषां नरेन्द्राणां यत्सहस्रं तन्मध्य उपस्थितमपरमिवान्यमिव पितरं जनकम् । उपेति । उप-
दर्शितो विनयो येन स तथा दूराइविष्ठादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चक्रे ।
शुक्रनामस्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गोपगूहनं चक्रे । ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा
वैशम्पायनेन स्वसुतेन समं सार्धम् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह - आन्विति । आनु-
पूर्व्यानुक्रमेणोत्थितो राजलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुखं दत्तान्य-
विरलान्यनवच्छिन्नानि पदानि येन स तथा । प्रहर्षेति । प्रहर्षेण प्रमोदेन विस्फारिते विस्तारिते ये विलोचने
तयोरागता आनन्दजलकणा यस्य स तथा । पूर्वमालिङ्गितः पश्चादुन्मुक्तश्च सादरं उपनीतमानीतं रत्नासनं
सिंहासनमपहाय त्यक्त्वाबनावेव पृथिव्यामेव राजपुत्रश्चन्द्रापीड : समुपाविशदुपाविशत् : तदनु पश्चाद्वैशम्पायन
उपाविशत् । उपविष्टे च राजपुत्रे शुकनासवर्जमेकं शुकनासं विहायाखिलं समग्रमन्य दवनिपालचक्रं राजसमूह-
मुज्झितं त्यक्तं निजासनमात्मीयासनं येन तत् । अवनितलं पृथ्वीतलमभजदशियित । क्षणमिति । क्षणमिव
क्षणमात्रं तूष्णीं मौनं स्थित्वा च शुकनासः समुद्गतः प्रादुर्भूतः प्रीत्या स्नेहेन पुलको रोमाञ्चो येष्वेवंविधै-
रङ्गैरावेद्यमानो हर्षप्रकर्ष उत्कर्ष प्रमोदो यस्य स तथा तं चन्द्रापीडमब्रवीत् । हे तात हे पुत्र । 'तातस्तु'
पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अद्यास्मिन्दिने देवस्य तारापीडँस्य समाप्त विद्यं परिपूर्णीकृता विद्या
येनैवंविधमुपारूढयौवनं संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराच्चिरकालेन भुवनराज्य फलप्राप्तिस्त्रिभुवनाधि-
पत्यफलोपलब्धिरुपजाता प्रादुर्भूता । अद्य गुरुजनानां पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संपत्ति -
भाजो बभूवुः । अयानेकजन्मान्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलितं फलवज्जज्ञे । अद्य कुलदेवताः
कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः । न हि अपुण्यभाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्ट-
पस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । केति महदन्तरे । इयं वयोवस्था
टिप्प० - 1 प्रमोदोत्कर्ष इति वाच्यम् । 2 'समाप्तविद्यं भवन्तमालोक्य देवस्य तारापीडस्य भुवन-
राज्यफलप्राप्तिरुपजाता' इत्यन्वयो वाच्यः ।
पाठा० -१ प्रासादमहस्र २ उपविष्टम् ३ ससंभ्रम ४ उत्थाय ५ अनुपूर्वेण. ६ लोकैः. ७ संघर्ष.
८ लोचन. ९ सह. १० समुपविष्टे. ११ क्षणमपि. १२ हृदयहर्ष, १३ तात चन्द्रापीड. १४ तत्पुण्यभाजाम्
१५ सकलत्रिभुवन १६ हेतवः.
२७ का०