कादम्बरी /241
This page has been fully proofread once and needs a second look.
गिभिर्धर्मपरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरैयै [^१]रक्तपटैः पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानां च सा- मन्तानां जघनो[^२]पविष्टपुरुषो [^३]त्सङ्गावस्थितद्वि [^४]गुण-
कुथाभिरतिचिरावस्थाननिर्वेदप्रसुप्ताधो [^५]रणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायिताभिः शतसहस्रशः करिणी- भिराकीर्णं शुकनासगृहद्वारमासाद्य सत्वरप्रधावितैर्द्वारदेशावस्थितै: प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो [^६]बाह्या- ङ्गण एव [^७]तुरगादवतसार द्वारदेशा [^८]वस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारितपरिजनै [^९]स्तत्प्र- तीहारमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिर्नरेन्द्र- वृन्दैः सेवासमुपस्थितैरुत्थायोत्थाय प्रणम्यमान [^१०]स्तथैव च प्रचण्डप्रतीहारहुंकारभयमूकीभवत्परिजनानि प्रचलितवेत्रल-
[^११]ताचकितसामन्तचक्रचरणशतचलितवसुंधराणि कक्षान्तराणि निरीक्षमाण [^१२]स्तथैव च नवनव-
[ टि ]-- मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूतैरित्यर्थः । धर्मपटैरिवावगुण्ठि-
तैराच्छादितैः शाक्यमुनीनामर्कबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गस्तत्र धौरेयैर्धुरंधरैस्तथा
रक्तपढैटै: रक्ताम्बरैः पाशुपतैः शैवै- द्विजैर्वाब्राह्मणैश्च दिवानिशमहर्निशमा सेव्यमानमुपास्यमानम् । अभ्यन्तरप्र-
- न्तरप्रविष्टानां मध्यगतानां सामन्तानां स्वदेशपार्श्ववर्तिराज्ञां च शत- सहस्रशः करिणीभिर्धेनुकाभिराकीर्णं व्याप्तम् ।
अथ करिणी विशे- षगाणानि - जघनेति । कट्या अग्रिमो भागो जघनं तत्रोपविष्टाः स्थिता ये सामन्तीयाः पुरु
षास्तेषामुत्सङ्गाः क्रोडास्तेष्ववस्थिता [^1]द्विगु- णाः कुथा वर्णपरिस्तोमा यासु ताभिः । अतीति । अतिचिरं बहुकालं
अयदवस्थानं तस्माद्यो निर्वेदः स्वावमाननं तेन प्रसुप्ता निद्रां प्राप्ता आधोरणा हस्तिपका यासु ताभिः । सह
पर्याणेन पल्ययनेन वर्त- मानास्ताभिर्निश्चलं चेष्टारहितं यदवस्थानं तेन प्रचलायिताभिः संजातै- त [^2]निद्राभिरेतादृशं
शुक्कनासगृहद्वारमासाद्य प्राप्य सत्वरं सवेगं प्रभावितैरतित्वराकृतगमनैर्द्वारदेशावस्थितैः प्रतीहारपुरुषैर्द्वारपाल -
- कैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इव बाह्याङ्गण एव राजपुत्रस्तुरगादश्वादवततारोत्तीर्णवान् ।
द्वारेति । द्वारदेशे प्रतोल्या- मवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलम्ब्यालम्ब्य पुरः प्रधावि- तैरग्रतः
शीघ्रप्रचलितैः । समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् । प्रतीहारमण्डलैरुपदिश्यमान उपदेश-
विषयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् । चलिताः कम्पिता मुकु- टानां कोटयो येषां तैः
नरेन्द्रवृन्दै राजसमूहैः सेवार्थथं सपर्यार्थथं समु- पस्थितैरागतैरुत्थायोत्थायेति । उत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्य- मानो
नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्ड़ाडा ये प्रतीहारा द्वार- पालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भीतिस्
भूतेन मूकीभवन्मौ- नतां समाश्रयन्परिजनो येषु तानि । प्रचलितेति । प्रचलिता इतस्ततो विक्षिप्ता या वेत्रलता
वेतसयष्टयस्ताभिश्चकितं शङ्कितं यत्सामन्त- चक्रं तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा
पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृह [^3]प्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काव्यां मध्येभबन्धने' इति
विश्वः । निरीक्षमाणो विलोकमानः । नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्ज्वला ये
प्रासादास्तैर्निरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुक्कनासभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा ।
टिप्प० - [^1]F. सामन्तानां शुकनाससविधे गमनोत्तरं तद्भुभृत्याः करिणीनां कटिदेशे उपविष्टाः सन्ति
तेषामनेङ्के च द्विगुणीकृताः (अपसार्य द्विगुणभागे संकोचिताः 'तहकिए' ) कुथाः स्थिताः सन्तीत्याशयः ।
[^2]F. निद्रावेशेन घूर्णिताभिरित्यर्थो बोध्य: 'घूर्णितं प्रचलायितम्' अमरः ।
[^3]F. गृहप्रदेशान्, इत्यर्थः ।
पाठा० -[^१]G. रक्तपादै:.
[^२]G. स्थानोपविष्टपुरुषावस्थित .
[^३]G. सङ्गस्थित .
[^४]G. द्विगुणित .
[^५]G. धोरणाभिः सपर्याणाभिः
.
[^६]G. बाह्याने ङ्गे.
[^७]G. तुरङ्गात् .
[^८]G. अवस्थित .
[^९]G. तथैव प्रतीकार; तथैव च प्रतीहार.
[^१०]G. तथैव प्रचण्ड .
[^११]G. त्रासनचकित.
[^१२]G. तथैव नव.
●
कुथाभिरतिचिरावस्थाननिर्वेदप्रसुप्ताधो [^५]रणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायिताभिः शतसहस्रशः करिणी- भिराकीर्णं शुकनासगृहद्वारमासाद्य सत्वरप्रधावितैर्द्वारदेशावस्थितै: प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो [^६]बाह्या- ङ्गण एव [^७]तुरगादवतसार द्वारदेशा [^८]वस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारितपरिजनै [^९]स्तत्प्र- तीहारमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिर्नरेन्द्र- वृन्दैः सेवासमुपस्थितैरुत्थायोत्थाय प्रणम्यमान [^१०]स्तथैव च प्रचण्डप्रतीहारहुंकारभयमूकीभवत्परिजनानि प्रचलितवेत्रल-
[^११]ताचकितसामन्तचक्रचरणशतचलितवसुंधराणि कक्षान्तराणि निरीक्षमाण [^१२]स्तथैव च नवनव-
[ टि ]-- मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूतैरित्यर्थः । धर्मपटैरिवावगुण्ठि
भू
प्रासादास्तैर्निरन्तरं व्याप्तं द्वितीयमिव राजकुलं शु
[^2]F. निद्रावेशेन घूर्णिताभिरित्यर्थो बोध्य: 'घूर्णितं प्रचलायितम्' अमरः ।
[^3]F. गृहप्रदेशान्, इत्यर्थः ।
[^२]G. स्थानोपविष्टपुरुषावस्थित
[^३]G. सङ्गस्थित
[^४]G. द्विगुणित
[^५]G. धोरणाभिः सपर्याणाभिः
[^६]G. बाह्या
[^७]G. तुरङ्गात्
[^८]G. अवस्थित
[^९]G. तथैव प्रतीकार; तथैव च प्रतीहार.
[^१०]G. तथैव प्रचण्ड
[^११]G. त्रासनचकित.
[^१२]G. तथैव नव.