This page has not been fully proofread.

२०८
 
कादम्बरी ।
 
[ कथायाम्-
गिभिर्धर्म परिवावगुण्ठितैः शाक्यमुनिशासनपथधौरैयै रक्तपटैः पाशुपतैर्द्विजैश्च दिवानिश-
मासेव्यमानम्, अभ्यन्तरप्रविष्टानां च सामन्तानां जघनोपविष्टपुरुषोत्सँङ्गावस्थितद्विर्गुणकु-
थाभिरतिचिरावस्थाननिर्वेदप्रसुप्ताधोरैणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रच-
लायिताभिः शतसहस्रशः करिणीभिराकीर्ण शुकनासगृहद्वारमासाद्य सत्वरप्रधावितैरिदेशा-
वस्थितः प्रतीहारपुरुैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गण एव तुंरगादवत-
सार द्वारदेशावस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारितपरिजनैस्त-
प्रतीहारमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिर्नरेन्द्र वृन्दैः सेवासमुपस्थितैरु-
स्थायोत्थाय प्रणम्यमानस्तथैव च प्रचण्डप्रतीहारहुंकारभयमूकीभवत्परिजनानि प्रचलितवेत्रल-
तौच कितसामन्तचक्रचरणशतचलितवसुंधराणि कक्षान्तराणि निरीक्षमाणस्तथैव च नवनव-
49
 
मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूतैरित्यर्थः । धर्मपटैरिवावगुण्ठि-
तैराच्छादितैः शाक्यमुनीनामर्कबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गस्तत्र धौरेयैर्धुरंधरैस्तथा
रक्तपढै रक्ताम्बरैः पाशुपतैः शैवैद्विजैर्वाह्मणैश्च दिवानिशमहर्निशमा सेव्यमानमुपास्यमानम् । अभ्यन्तरप्र-
विष्टानां मध्यगतानां सामन्तानां स्वदेशपार्श्ववर्तिराज्ञां च शतसहस्रशः करिणीभिर्धेनुकाभिराकीर्णं व्याप्तम् ।
अथ करिणी विशेषगानि - जघनेति । कट्या अग्रिमो भागो जघनं तत्रोपविष्टाः स्थिता ये सामन्तीयाः पुरु
षास्तेषामुत्सङ्गाः क्रोडास्तेष्ववस्थिता द्विगुणाः कुथा वर्णपरिस्तोमा यासु ताभिः । अतीति । अतिचिरं बहुकालं
अदवस्थानं तस्माद्यो निर्वेदः स्वावमाननं तेन प्रसुप्ता निद्रां प्राप्ता आधोरणा हस्तिपका यासु ताभिः । सह
पर्याणेन पल्ययनेन वर्तमानास्ताभिर्निश्चलं चेष्टारहितं यदवस्थानं तेन प्रचलायिताभिः संजातैनिद्राभिरेतादृशं
शुक्नासगृहद्वारमासाद्य प्राप्य सत्वरं सवेगं प्रभावितैरतित्वराकृतगमनैर्द्वारदेशावस्थितैः प्रतीहारपुरुषैर्द्वारपाल -
कैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इव बाह्याङ्गण एव राजपुत्रस्तुरगादश्वादवततारोत्तीर्णवान् ।
द्वारेति । द्वारदेशे प्रतोल्यामवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलम्ब्यालम्ब्य पुरः प्रधावितैरग्रतः
शीघ्रप्रचलितैः । समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् । प्रतीहारमण्डलैरुपदिश्यमान उपदेश-
विषयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् । चलिताः कम्पिता मुकुटानां कोटयो येषां तैः
नरेन्द्रवृन्दै राजसमूहैः सेवार्थ सपर्यार्थ समुपस्थितैरागतैरुत्थायोत्थायेति । उत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्यमानो
नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्ड़ा ये प्रतीहारा द्वारपालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भीतिस्
भूकीभवन्मौनतां समाश्रयन्परिजनो येषु तानि । प्रचलितेति । प्रचलिता इतस्ततो विक्षिप्ता या वेत्रलता
वेतसयष्टयस्ताभिचकितं शङ्कितं यत्सामन्तचक्रं तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा
पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृहप्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काव्यां मध्येभबन्धने' इति
विश्वः । निरीक्षमाणो विलोकमानः । नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्वला ये
प्रासादास्तैर्निरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुक्नासभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा ।
 
टिप्प० - 1 सामन्तानां शुकनाससविधे गमनोत्तरं तद्भुत्याः करिणीनां कटिदेशे उपविष्टाः सन्ति
तेषामने च द्विगुणीकृताः (अपसार्य द्विगुणभागे संकोचिताः 'तहकिए' ) कुथाः स्थिताः सन्तीत्याशयः ।
2 निद्रावेशेन घूर्णिताभिरित्यर्थो बोध्य: 'घूर्णितं प्रचलायितम्' अमरः । 3 गृहप्रदेशान्, इत्यर्थः ।
 
पाठा० -१ रक्तपादै:. २ स्थानोपविष्टपुरुषावस्थित ३ सङ्गस्थित ४ द्विगुणित ५ धोरणाभिः सपर्याणाभिः
६ बाह्याने ७ तुरङ्गात् ८ अवस्थित ९ तथैव प्रतीकार; तथैव च प्रतीहार. १० तथैव प्रचण्ड ११ त्रासनचकित.
१२ तथैव नव.