कादम्बरी /240
This page has been fully proofread once and needs a second look.
त्समस्ताभिरुपेतो विद्याभि [^१]रालोकितोऽस्येवमचिरेणैव काले- नानुरूपाभिर्वधूभिरुपेतमालोकयिष्यामि' इत्येवमभिधाय लज्जा-
स्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवा-
वतंस इव कपोले पर्यचुम्बदेनम् । एवं च तत्रापि [^२]नातिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शने [^३]नानन्दयामास ।
निर्गत्य च राजकुल [^४]द्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमान: शुकनासं द्रष्टुमयासीत् । यामाव- स्थितविवि [^५]धगजघटासंकटम्, अनेकतुरङ्गसहस्रसंबाधम्, अपरिमितजन [^६]समूहसहस्रसंमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निबद्धचक्रवालैरनेककार्यागतैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनो [^७]न्मीलितप्रतिभैरवरच्छद्मना विनयानुरा-
[ टि ]-- एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानु- रूपाभियोग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय
एवं कुमारं पर्यचुम्बच्चुम्बनं कृतवती । कीदृशम् लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्परभागे । कीदृशे ।'आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह - विकचेति । विकचैर्विकस्वरैः [^1]कमलैः कृतो विहितः कर्ण- पल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः
समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्यवरो [^2]धानि दर्शनेनानन्द- यामास प्रमोदयामास ।
राजकुल [^3]द्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थित- मिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्र- लोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्रष्टुं विलोकयितुमयासीदि- त्यन्वयः । 'या प्रापणे' लुङि रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं निवेशेत्यन्वयः। अथ गृहद्वारं विशेषयन्नाह - यामेति । यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूह- स्तया संकटं संबाधं प्रवेष्टुसशक्यम् । अनेके ये तुरङ्गास्तुरङ्गमा- स्तेषां सहस्रं तेन [^4]सबाधं बाधासहितम् । अपरीति । अपरि- मिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजातीयनर- गणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम्। एक- देश एकान्त उपविष्टैः स्थितैः सहस्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तैः । दर्शनार्थमवलोक- नार्थमुत्सुकैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाजनं नेत्रौषधं तेनोन्मीलितानि विकासं प्रापितानि प्रति [^5]भानि चक्षूंषि येषां तैः । अवरेति अवरच्छ [^6]द्मना सेवक-
[^1]F. विकस्वरेण कमलेन, इत्येकवचनमेवोचितम् । प्रतिबिम्बस्य ( उपमानकोटिस्थस्य, मुखप्रतिबिम्बस्य ) एकत्वात् ।
[^2]F. अवरोधान्, पुंस्त्वात् ।
[^3]F. 'राजकुलद्वारावस्थितम्' इत्येव ग्रन्थशैल्यनुकूलः पाठः ।
[^4]F. संकीर्णम् । 'संकटं ना तु संबाध: कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे' इत्यमरः ।
[^5]F. पुनरज्ञानं टीकाकृतः । उन्मीलितानि बुद्धिरूपलोचनानि येषामिति पाठे सोयमर्थः शोभते । शास्त्रेष्वञ्जनत्वारोपो हि प्रति- भासु लोचनत्वारोपमपेक्षते ।
[^6]F. अत्रापि ग्रन्थस्य सर्वथा अंशः कृतः । 'चीवरच्छद्मना' इत्येव पाठः । तथा च - चीवराणि बौद्धभिक्षुप्रावरणानि तेषां व्याजेन - विनये धर्मशिक्षायामनुराग एव अनुरागः ( रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव
बौद्धाचारसिद्धवसन विशेषैरिव (येषु पटेषु धर्मशासनान्युलिख्य शिष्येभ्यः प्रदश्यन्ते ) अवगुण्ठितै:
बौद्धशासनमार्गनिपुणैः (बौद्ध-
भिक्षुभिः) । अयं भावः - बौद्ध भिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु
धर्मपटत्वमुत्प्रेक्ष्यते । अर्थात् चीवराणां तु व्याजो वर्तते, वास्तवे तु धर्मपटैरेव ते आच्छादिताः । अनुराग
इति श्लिष्टम्, ततश्च श्लेषोत्थापिता सापह्नवोत्प्रेक्षाऽलङ्कारः ।
-
पाठा० -[^१]G. अवलोकसे एवम्.
[^२]G. नातिचिरं स्थित्वा .
[^३]G. नन्दयामास .
[^४]G. द्वारावस्थितम् .
[^५]G. गन्धगण, .
[^६]G. समूह
संमर्ददं.
[^७]G. उन्मीलितबुद्धिलोचनैश्चीवर.
[^८]G. रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः,
.
स्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवा-
वतंस इव कपोले पर्यचुम्बदेनम् । एवं च तत्रापि [^२]नातिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शने [^३]नानन्दयामास ।
निर्गत्य च राजकुल [^४]द्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमान: शुकनासं द्रष्टुमयासीत् । यामाव- स्थितविवि [^५]धगजघटासंकटम्, अनेकतुरङ्गसहस्रसंबाधम्, अपरिमितजन [^६]समूहसहस्रसंमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निबद्धचक्रवालैरनेककार्यागतैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनो [^७]न्मीलितप्रतिभैरवरच्छद्मना विनयानुरा-
[ टि ]-- एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानु- रूपाभियोग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय
एवं कुमारं पर्यचुम्बच्चुम्बनं कृतवती । कीदृशम् लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्परभागे । कीदृशे ।'आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह - विकचेति । विकचैर्विकस्वरैः [^1]कमलैः कृतो विहितः कर्ण- पल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः
समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्यवरो [^2]धानि दर्शनेनानन्द- यामास प्रमोदयामास ।
राजकुल [^3]द्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थित- मिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्र- लोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्रष्टुं विलोकयितुमयासीदि- त्यन्वयः । 'या प्रापणे' लुङि रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं निवेशेत्यन्वयः। अथ गृहद्वारं विशेषयन्नाह - यामेति । यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूह- स्तया संकटं संबाधं प्रवेष्टुसशक्यम् । अनेके ये तुरङ्गास्तुरङ्गमा- स्तेषां सहस्रं तेन [^4]सबाधं बाधासहितम् । अपरीति । अपरि- मिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजातीयनर- गणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम्। एक- देश एकान्त उपविष्टैः स्थितैः सहस्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तैः । दर्शनार्थमवलोक- नार्थमुत्सुकैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाजनं नेत्रौषधं तेनोन्मीलितानि विकासं प्रापितानि प्रति [^5]भानि चक्षूंषि येषां तैः । अवरेति अवरच्छ [^6]द्मना सेवक-
[^1]F. विकस्वरेण कमलेन, इत्येकवचनमेवोचितम् । प्रतिबिम्बस्य ( उपमानकोटिस्थस्य, मुखप्रतिबिम्बस्य ) एकत्वात् ।
[^2]F. अवरोधान्, पुंस्त्वात् ।
[^3]F. 'राजकुलद्वारावस्थितम्' इत्येव ग्रन्थशैल्यनुकूलः पाठः ।
[^4]F. संकीर्णम् । 'संकटं ना तु संबाध: कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे' इत्यमरः ।
[^5]F. पुनरज्ञानं टीकाकृतः । उन्मीलितानि बुद्धिरूपलोचनानि येषामिति पाठे सोयमर्थः शोभते । शास्त्रेष्वञ्जनत्वारोपो हि प्रति- भासु लोचनत्वारोपमपेक्षते ।
[^6]F. अत्रापि ग्रन्थस्य सर्वथा अंशः कृतः । 'चीवरच्छद्मना' इत्येव पाठः । तथा च - चीवराणि बौद्धभिक्षुप्रावरणानि तेषां व्याजेन - विनये धर्मशिक्षायामनुराग एव अनुरागः ( रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव
बौद्धाचारसिद्धवसन विशेषैरिव (येषु पटेषु धर्मशासनान्युलिख्य शिष्येभ्यः प्रदश्यन्ते ) अवगुण्ठितै:
भिक्षुभिः) । अयं भावः - बौद्ध
पाठा० -
[^२]G. नातिचिरं स्थित्वा
[^३]G. नन्दयामास
[^४]G. द्वारावस्थितम्
[^५]G. गन्धगण
[^६]G. समूह
[^७]G. उन्मीलितबुद्धिलोचनैश्चीवर.
[^८]G. रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः