2024-01-01 13:46:17 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२०७
 
चन्द्रापीडस्य शुकनाससाक्षात्कार: ]
 
पूर्वभागः ।
 
त्समस्ताभिरुपेतो विद्याभि [^१]रालोकितो ऽस्येवमचिरेणैव
 
काले- नानुरूपाभिर्बंधूभिरुपेतमालोकयि-
ष्यामि' इत्येवमभिधाय लज्जा-
स्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृत कर्णपल्लवा-

वतंस इव कपोले पर्यचुम्बदेनम् । एवं च तत्रापि [^२]नातिचिरमेव स्थित्वा क्रमेण सर्वान्तः पु
राणि दर्शने [^३]नानन्दयामास ।
 

 
निर्गत्य च राजकुल [^४]द्वारा बहिः स्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्य-
मान: शुकनासं द्रष्टुमयासीत् । यामाव- स्थित विविधैविवि [^५]धगजघटासंकटम्, अनेकतुरङ्गसहस्रसंबा-
धम्, अपरिमितजन [^६]समूह सहस्रसंमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निद्धचक्रवालैरने.
ककार्यागतैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनो [^७]न्मीलितप्रतिभैरवरच्छद्मना विनयानुरा-
,
 

 
[ टि ]--
एवं पूर्वोक्त प्रकारेणाचिरेणैव कालेन स्तोककालेनानु- रूपाभियोग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय

एवं कुमारं पर्यचुम्बच्चुम्बनं कृतवती । कीदृशम् लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्पर
भागे । कीदृशे ।'आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह - विकवेचेति । विक-
चैर्विकस्वरैः कर्[^1]कमलैः कृतो विहितः कर्ण- पल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः

समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्य
वरो [^2]धानि दर्शनेनानन्द- यामास प्रमोदयामास ।
 

 
राजकुल [^3]द्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थित- मिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वो
क्तेन राजपुत्र- लोकेनानुगम्यमानः शुकनासं मन्त्रिगंणं द्रष्टुं विलोकयितुमयासीदिव्- त्यन्वयः । 'या प्रापणे' लुडि
ङि रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं निवेशेत्यन्वयः । अथ गृहद्वारं विशेषयन्नाह - यामेति ।
यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूह- स्तया संकटं संबाधं प्रवेष्टुसशक्यम् । अनेके ये
तुरङ्गास्तुरङ्गमा- स्तेषां सहस्रं तेन सवा[^4]सबाधं बाधासहितम् । अपरीति । अपरि- मिता असंख्या ये जना मनुष्यास्तेषां
समूहा भिन्नभिन्नजातीयनर- गणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम् । एक- देश एकान्त उप-
विष्टैः स्थितैः सहस्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तैः । दर्शनार्थ-
मत्र
मवलोक- नार्थ मुत्सु कैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाजनं नेत्रौषधं
तेनोन्मीलितानि विकासं प्रापितानि प्रति [^5]भानि चक्षूंषि येषां तैः । अवरेति अवरच्छमनी [^6]द्मना सेवक-
टिप्प० -

 
[^
1]F. विकस्वरेण कमलेन, इत्येकवचनमेवोचितम् । प्रतिबिम्बस्य ( उपमानकोटिस्थस्य, मुख-
प्रतिबिम्बस्य ) एकत्वात् ।
[^
2]F. अवरोधान्, पुंस्त्वात् ।
[^
3]F. 'राजकुलद्वारावस्थितम्' इत्येव ग्रन्थशैल्यनुकूलः
पाठः ।
[^
4]F. संकीर्णम् । 'संकटं ना तु संबाध: कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे' इत्यमरः ।

[^
5]F. पुनरज्ञानं टीकाकृतः । उन्मीलितानि बुद्धिरूपलोचनानि येषामिति पाठे सोयमर्थः शोभते । शास्त्रव
रेष्वञ्जनत्वारोपो हि प्रति- भासु लोचनत्वारोपमपेक्षते ।
[^
6]F. अत्रापि ग्रन्थस्य सर्वथा अंशः कृतः । 'चीवरच्छ-
द्मना' इत्येव पाठः । तथा च - चीवराणि बौद्ध भिक्षु प्रावरणानि तेषां व्याजेन - विनये धर्मशिक्षायामनु-
राग व अनुरागः ( रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव

बौद्धाचारसिद्धवसन विशेषैरिव (येषु पटेषु धर्मशासनान्युलिख्य शिष्येभ्यः प्रदश्यन्ते ) अवगुण्ठितै:

बौद्धशासनमार्गनिपुणैः (बौद्ध

भिक्षुभिः) । अयं भावः - बौद्ध भिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु

धर्मपटत्वमुत्प्रेक्ष्यते । अर्थात् चीवराणां तु व्याजो वर्तते, वास्तवे तु धर्मपटैरेव ते आच्छादिताः । अनुराग

इति श्लिष्टम्, ततश्च श्लेषोत्थापिता सापह्नवोत्प्रेक्षाऽलङ्कारः ।
 
-
 

 
-
 
पाठा० -१ अवलोकसे एवम्. २ नातिचिरं स्थित्वा . ३ नन्दयामास ४ द्वारावस्थितम् ५ गन्धगण, ६ समूह

संमर्द. ७ उन्मीलितबुद्धिलोचनैश्चीवर. ८ रक्ताम्बरच्छमना गुरुविनयानुरागिभिः,