This page has not been fully proofread.

२०७
 
चन्द्रापीडस्य शुकनाससाक्षात्कार: ]
 
पूर्वभागः ।
 
समस्ताभिरुपेतो विद्याभिरालोकितो ऽस्येवमचिरेणैव
 
कालेनानुरूपाभिर्बंधूभिरुपेतमालोकयि-
ष्यामि' इत्येवमभिधाय जास्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृत कर्णपल्लवा-
वतंस इव कपोले पर्यचुम्बनम् । एवं च तत्रापि नातिचिरमेव स्थित्वा क्रमेण सर्वान्तः पु
राणि दर्शनानन्दयामास ।
 
निर्गय च राजकुलद्वारा बहिः स्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्य-
मान: शुकनासं द्रष्टुमयासीत् । यामावस्थित विविधैगजघटासंकटम्, अनेकतुरङ्गसहस्रसंबा-
धम्, अपरिमितजनसमूह सहस्रसंमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निवद्धचक्रवारने.
ककार्यागतैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनोन्मीलितप्रतिभैरवरच्छझना विनयानुरा-
,
 
एवं पूर्वोक्त प्रकारेणाचिरेणैव कालेन स्तोककालेनानुरूपाभियग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय
एवं कुमारं पर्यचुम्बचुम्बनं कृतवती । कीदृशम् लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्पर
भागे । कीदृशे ।'आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखय कमलसाम्यादाह - विकवेति । विक-
चैर्विकस्वरैः कर्मलैः कृतो विहितः कर्णपल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः
समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाटया सर्वान्तःपुराणि समग्राण्य
वरोधानि दर्शनेनानन्दयामास प्रमोदयामास ।
 
राजकुलद्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थितमिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वो
क्तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं मन्त्रिगं द्रष्टुं विलोकयितुमयासीदिव्यन्वयः । 'या प्रापणे' लुडि
रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं निवेशेयन्वयः । अथ गृहद्वारं विशेषयन्नाह - यामेति ।
यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूहस्तया संकटं संबाधं प्रवेष्टुसशक्यम् । अनेके ये
तुरङ्गास्तुरङ्गमास्तेषां सहस्रं तेन सवाधं बाधासहितम् । अपरीति । अपरिमिता असंख्या ये जना मनुष्यास्तेषां
समूहा भिन्नभिन्नजातीयनरगणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम् । एकदेश एकान्त उप-
विष्टैः स्थितैः सहस्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थ आगतैः प्राप्तैः । दर्शनार्थ-
मत्रलोकनार्थ मुत्सु कैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाजनं नेत्रौषधं
तेनोन्मीलितानि विकास प्रापितानि प्रतिभानि चक्षूंषि येषां तैः । अवरेति अवरच्छमनी सेवक-
टिप्प० - 1 विकस्वरेण कमलेन, इत्येकवचनमेवोचितम् । प्रतिबिम्बस्य ( उपमानकोटिस्थस्य, मुख-
प्रतिबिम्बस्य ) एकत्वात् । 2 अवरोधान्, पुंस्त्वात् । 3 'राजकुलद्वारावस्थितम्' इत्येव ग्रन्थशैल्यनुकूलः
पाठः । 4 संकीर्णम् । 'संकटं ना तु संबाध: कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे' इत्यमरः ।
5 पुनरज्ञानं टीकाकृतः । उन्मीलितानि बुद्धिरूपलोचनानि येषामिति पाठे सोयमर्थः शोभते । शास्त्रव
जनत्वारोपो हि प्रतिभासु लोचनत्वारोपमपेक्षते । 6 अत्रापि ग्रन्थस्य सर्वथा अंशः कृतः । 'चीवरच्छ-
झना' इत्येव पाठः । तथा च - चीवराणि बौद्ध भिक्षु प्रावरणानि तेषां व्याजेन - विनये धर्मशिक्षायामनु-
राग ५व अनुरागः ( रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव
बौद्धाचारसिद्धवसन विशेषैरिव (येषु पटेषु धर्मशासनान्युलिख्य शिष्येभ्यः प्रदश्यन्ते ) अवगुण्ठितै:
बौद्धशासनमार्गनिपुणैः (बौद्ध
भिक्षुभिः) । अयं भावः - बौद्ध भिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु
धर्मपटत्वमुत्प्रेक्ष्यते । अर्थात् चीवराणां तु व्याजो वर्तते, वास्तवे तु धर्मपटैरेव ते आच्छादिताः । अनुराग
इति श्लिष्टम्, ततश्च श्लेषोत्थापिता सापह्नवोत्प्रेक्षाऽलङ्कारः ।
 
-
 
पाठा० -१ अवलोकसे एवम्. २ नातिचिरं स्थित्वा . ३ नन्दयामास ४ द्वारावस्थितम् ५ गन्धगण, ६ समूह
संमर्द. ७ उन्मीलितबुद्धिलोचनैश्चीवर. ८ रक्ताम्बरच्छमना गुरुविनयानुरागिभिः,