कादम्बरी /24
This page has been fully proofread twice.
मानं तुरगवरमारुह्य विद्यागृहाद्राजधानीमाययौ । जनकजनन्योः संदर्शनेनानन्दितः, मृगयां विधाय नगरमुपागतो जनन्या प्रेषितां पत्रलेखामवाप्य मुदितः शुकनासोपदेशेन प्रगुणीकृतः,
तारापीडेन यौवराज्येभिषिक्तोसौ दिग्विजयाय प्रातिष्ठत । त्रिभिः संवत्सरैः सर्वा दिशो विदिशश्च विजित्य, हेमकूटवासिकिराताना- मावासं सुवर्णपुरमधितिष्ठन्नेकाकी चन्द्रापीडः कदाचिदिन्द्रायुध-
मारुह्य मृगयार्थनटन् किंनरयुगलानुसरणप्रसङ्गेन पञ्चदशयोजनानि ययौ । किंनरमिथुने गिरिशिखरमारूढे, भृशमनुतप्तः श्रमेण तृषातुरो जलमन्विष्यन् विशालमनोरम- मच्छोदाख्यं सरः प्राप्तवान् । जलावगाहन-पानोत्तरं तत्तटे विश्राम्यन्, वीणाकणसहितं गानमाकर्ण्य तदनुसरन्,
अतिगौरमनोरमामेकां कन्यकां शिवालयगतां ददर्श । अथ प्राप्तातिथिसत्कारेण तेन पृष्टा सा निजतपोवृत्तमेवमाह स्म -
"अरिष्टातनयो गन्धर्वराजो हंसः सोममयूखसंभवकुलजातां गौरीं परिणीतवान् । तयोस्तनया महाश्वेतानाम्न्यहमतिक्रान्तशैशवा कदाचिदस्मिन् सरसि स्नातुमागत्य कुतोप्यलौकिकं सौरभमाजिघ्रती तदनुसरणं च विदधती केनचिदन्येन कुमारेण सहितं मूर्तिमन्तमिव मन्मथं मुनिकुमारमेकमवलोक्य 'कोयं युवा, किंनामकस्य तरोरियं सुरभिता मञ्जरी' इति तत्सहचरं कुमारमप्राक्षम् । स प्रत्युवाच–'महर्षेः श्वेतकेतोः सौन्दर्यमोहितायां – लक्ष्मीदेव्यामुत्पन्नः पुण्डरीकमध्ये जाततया पुण्डरीकनामा सोयं कुमारः । नन्दनवनदेवतया सादरमुपहृता सेयं पारिजातस्य
मञ्जरी ।' निर्जितमारः स तु कुमार : -'कुतूहलिनि ! किं वा प्रश्नायासेन । यदि रुचिता तर्हि गृह्यतामियम्' इत्यभिधाय मञ्जरीं तां मे कर्णे कुर्वन् हस्तान्निपतितामक्षमालामपि न ज्ञातवान् । अहं तु मालामिमामगृह्णाम् । मन्मथविकारमिममालोक्य कुपितेन द्वितीयेन कुमारेण तिरस्क्रियमाणः कुमारोऽसौ ( पुंडरीक: ) मामुपेत्य मालामयाचत् । अहं तु मुक्तामयं निजहारमेव कण्ठादुन्मुच्य
तस्मै समर्प्य, तां च स्फटिकमयीं जपमालां कण्ठे वहन्ती जनन्या सह कृतस्त्राना गृहमुपागच्छम् । ततो मत्परिचारिका तरलिका तेन कुमारेण कृतं मत्परिचयादिप्रश्नवृत्तं मह्यमावेद्य पत्रमेकमर्पितवती यत्र चेयमार्याऽऽसील्लिखिता-
'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥'
सायं तु तत्सहचरः कुमारः ( कपिञ्जल: ) कामविह्वलां मां तस्य कुमारस्य मन्मथव्यथां यावदावेदयति तावदेव समागच्छन्तीं मज्जननीं ज्ञात्वा स त्वरितं परावर्तत । प्रतिगतायां जनन्याम्, उपस्थितायां च रजन्याम् समुदिते चन्द्रमसि, उत्कण्ठिताहं तरलिकाद्वितीया निभृतं गृहान्निर्गत्य तमभिसरन्ती दूरात्कपिञ्जलविलापमाकर्ण्य द्रुततरमभिपतन्ती मन्दभाग्या
महाभाग्यं तं कुमारमुपरतमद्राक्षम् । शोकात्कृतमरणव्यवसायां माम्- 'वत्से महाश्वेते ! न त्वया त्याज्याः प्राणाः, पुनरपि ते भविष्यत्यनेन सह समागमः' इति चन्द्रमण्डलादवतीर्णः कश्चिन्म-
हापुरुषोऽभिधाय तं कुमारदेहं कराभ्यामुत्क्षिपन् नभसि न्यलीयत । ''क्व मे सुहृदमपहरसि' इति रोषाद्बद्धपरिकरः कपिञ्जलोऽपि तमन्वसरत् । विस्मयविषादाभ्यां गृहीताऽहं तु संसारान्निर्विण्णा व्रतमेतदवालम्बिषि" । इति