कादम्बरी /24
This page has not been fully proofread.
कादम्बरीसारः ।
मानं तुरगवरमारुह्य विद्यागृहाद्राजधानीमाययौ । जनकजनन्योः संदर्शनेनानन्दितः, मृगयां
विधाय नगरमुपागतो जनन्या प्रेषितां पत्रलेखामबाप्य मुदितः शुकनासोपदेशेन प्रगुणीकृतः,
तारापीडेन यौवराज्येभिषिक्तोसौ दिग्विजयाय प्रातिष्ठत । त्रिभिः संवत्सरैः सर्वा दिशो विदिशश्च
विजित्य, हेमकूटवासिकिरातानामावासं सुवर्णपुरमधितिष्ठन्नेकाकी चन्द्रापीडः कदाचिदिन्द्रायुध-
मारुह्य मृगयार्थनटन् किंनरयुगलानुसरणप्रसङ्गेन पञ्चदशयोजनानि ययौ । किंनरमिथुने
गिरिशिखरमारूढे, भृशमनुतप्तः श्रमेण तृषातुरो जलमन्विष्यन् विशाल-मनोरममच्छोदाख्यं सरः
प्राप्तवान् । जलावगाहन-पानोत्तरं तत्तटे विश्राम्यन्, वीणाकणसहितं गानमाकर्ण्य तदनुसरन्,
अतिगौरमनोरमामेकां कन्यकां शिवालयगतां ददर्श । अथ प्राप्तातिथिसत्कारेण तेन पृष्टा सा
निजतपोवृत्तमेवमाह स्म -
"अरिष्टातनयो गन्धर्वराजो हंसः सोममयूखसंभवकुलजातां गौरीं परिणीतवान् । तयो
स्तनया महाश्वेतानाम्यहमतिक्रान्तशैशवा कदाचिदस्मिन् सरसि स्नातुमागल कुतोप्यलौकिकं
सौरभमाजिघ्रती तदनुसरणं च विदधती केनचिदन्येन कुमारेण सहितं मूर्तिमन्तमिव मन्मथं मुनि-
कुमारमेकमवलोक्य 'कोयं युवा, किंनामकस्य तरोरियं सुरभिता मञ्जरी' इति तत्सहचरं कुमार -
मप्राक्षम् । स प्रत्युवाच–'महर्षेः श्वेतकेतोः सौन्दर्य मोहितायां – लक्ष्मीदेव्यामुत्पन्नः पुण्डरीकमध्ये
जाततया पुण्डरीकनामा सोयं कुमारः । नन्दनवनदेवतया सादरमुपहृता सेयं पारिजातस्य
मञ्जरी ।' निर्जितमारः स तु कुमार : - 'कुतूहलिनि ! किं वा प्रश्नायासेन । यदि रुचिता तर्हि
गृह्यतामियम्' इत्यभिधाय मञ्जरीं तां मे कर्णे कुर्वन् हस्तान्निपतितामक्षमालामपि न ज्ञातवान् ।
अहं तु मालामिमामगृह्णाम् । मन्मथविकारमिममालोक्य कुपितेन द्वितीयेन कुमारेण तिरस्क्रियमाणः
कुमारोसौ ( पुंडरीक: ) मामुपेत्य मालामयाचत् । अहं तु मुक्तामयं निजहारमेव कण्ठादुन्मुच्य
तस्मै समर्प्य, तां च स्फटिकमय जपमालां कण्ठे वहन्ती जनन्या सह कृतस्त्राना गृहमुपाग-
च्छम् । ततो मत्परिचारिका तरलिका तेन कुमारेण कृतं मत्परिचयादिप्रश्नवृत्तं मह्यमांवेद्य पत्र-
मेकमर्पितवती यत्र चेयमार्याऽऽसील्लिखिता-
-
'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥'
"
सायं तु तत्सहचरः कुमारः ( कपिञ्जल: ) कामविह्वलां मां तस्य कुमारस्य मन्मथव्यथां
यावदावेदयति तावदेव समागच्छन्तीं मज्जननीं ज्ञात्वा स त्वरितं परावर्तत । प्रतिगतायां
जनन्याम्, उपस्थितायां च रजन्याम् समुदिते चन्द्रमसि, उत्कण्ठिताहं तरलिकाद्वितीया
निभृतं गृहान्निर्गत्य तमभिसरन्ती दुरात्क पिञ्जलविलापमाकर्ण्य द्रुततरमभिपतन्ती मन्दभाग्या
महाभाग्यं तं कुमारमुपरतमद्राक्षम् । शोकात्कृतमरणव्यवसायां माम्- 'वत्से महाश्वेते ! न त्वया
त्याज्याः प्राणाः, पुनरपि ते भविष्यत्यनेन सह समागमः' इति चन्द्रमण्डलादवतीर्णः कश्चिन्म-
हापुरुषोऽभिधाय तं कुमारदेहं कराभ्यामुत्क्षिपन् नभसि न्यलीयत । ''क मे सुहृदमपहरसि'
इति रोषाद्वद्धपरिकरः कपिञ्जलोऽपि तमन्बसरत् । विस्मयविषादाभ्यां गृहीताऽहं तु संसारात्रि-
विण्णा व्रतमेतदवालम्बिषि" । इति