2024-01-01 13:15:12 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

बिम्बप्रविष्टशशिमण्डलामिव [^१]दिवं समुपसृत्य मातरं [^२]प्रण- नाम । सा [^३]तु तं ससंभ्रममुत्थाप्य सत्यप्याज्ञासंपादनदक्षे पार्श्व- परिवर्तिनि परिजने स्वयमेव [^४]कृतावतरणका [^५]प्रस्नुतपयो- धरक्षरत्पयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन नि [^६]र्गच्छतेव हृदयेनान्तःशुभ [^७]शतानीव ध्यायन्ती मूर्धन्युपाघ्राय तं सुचिर- माशिश्लेष । अनन्तरं च तथैव कृतयथोचितसमुपचारमाविष्टवैश- म्पायना स्वयमुपविश्य विनयादवनितले [^८]समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गमारोपितवती। [^९]ससंभ्रम- परिजनोपनीतायामासन्द्यामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनः पुनरालिङ्ग्य ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत् – 'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरी [^१०]दृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमि- यन्तं कालं लम्भिता । [^११]कथमसि सोढवानतिदीर्घामिमां [^१२]गुरुजनयत्रणाम् । अहो, बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो, वि [^१३]गलितशिशुजनक्रीडाकौतुकला-
घव [^१४]मर्भके ते हृदयम् । अहो, गुरुजनस्योपरि भक्ति- [^१५]रसाधारणा सर्वा । यथा पितुःप्रसादा.
 
[ टि ]-- राज्ञ्या अमावास्योपमानमिति भावः । समुपसृत्य पार्श्वे
समागत्य । अन्वयस्तु प्रागेवोक्तः । तु पुनरर्थे । सा
विलासवत तं तं संभ्रमं सवेगं पादपतितमुत्थाप्य पार्श्व परिवर्तिनी निकटस्थायिनि परिजने परिच्छद आज्ञा-
संपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्साहै [^1]हकर्मविशेषो यया सा । हृदयेन
चेतसान्तर्मध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती । अथ हृदयविशेषणानि - प्रस्रु ( प्रस्नु ) -
तेति । प्रस्नुतौ पयःपूर्णौ यौ पयोधरौ ताभ्यां क्षरन्तो ये पयोबिन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय
निर्गच्छतेव बहिःप्रसर्पतेव स्नेह आभ्यन्तर- प्रीतिस्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वा तं
सुचिरं चिरकालमाशिलेषालिलिङ्ग । अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् ।
कृतमिति । कृतो यथोचितो यथायोग्यः समुपचारः प्रियवाग्व्यापारो यथा स्यात्तथाश्लिष्ट आलि- ङ्गितो
वैशम्पायनो यया सा स्वयमुपविश्य विनयादव नितले समु- पविशन्तमासेदिवांसमाकृष्य बलादाकर्षणं कृत्वानि -
च्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्सङ्गं कोक्रोडमारोपितवत्यारोपया- मास । ससंभ्रमं सवेगं परिजनेन
परिच्छदेनोपनीतायामानीताया- मामासन्सन्द्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनः पुनर्वारंवारमा-
लिङ्ग्योपगूहनं विधाय ललाटदेशेऽलिकप्रदेशे क्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुर्वारंवारं करतलेन
स्वपाणितलेन परामृशन्ती परामर्शनं कुर्वती विलासवती तमवादी- दवोचत् । किमुवाचेत्याह-वत्सेति
हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीयमाकृतिराकार- स्त्रिभुवने लाल-
नीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्त- मेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा
चिरकाल- मिमां गुरुजनयन्त्रणां पूज्यजननियन्त्रणां कथं सोढवानसि । अहो इत्याश्चर्ये । ते तव बालस्यापि ततः
कठोरस्यैव महद्धैर्यम् । अहो इति पूर्ववत् । [^2]अर्भके बालके त्वयि विगलितं दूरीभूतं शिशु- जना बालजनास्तेषां
क्रीडाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत् । गुरुजनस्योपर्यसाधार [^3]णा सर्वा भक्तिः ।
यथा पितुर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्या- भिरुपेतः सहित आलोकितोऽसि वीक्षितोऽसि ।
 
टिप्प० -[^1 ]F.यानावतरणकालिकं धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणम्
[^
2 ]F.'अर्भकस्यापि ते हृदयम्'
इत्येव ग्रन्थकारानुमतः पाठः ।
[^
3]F. 'असाधारणी भक्तिः सर्वथा' इत्येव पाठः । 'सर्वा' इति विशेषणस्याऽ-
समर्पकत्वात् ।
 
पाठा०-
-
[^]G. दिवसमुपसृत्य; दिवसश्रियं समुपसृत्य .
[^
]G. ननाम.
[^
]G. तु ससंभ्रममुत्थाय .
[^
]G. कृतावतरणकापसुतप-
स्नुतपयोधर; कृतावतरणकमङ्गला प्रस्तुनु- तपयोधर .
[^
]G. प्रस्तुत .
[^
]G. निर्गतेन.
[^
]G. शतान्यभिध्यायन्ती; शतानीवाभिध्यायन्ती.
[^]G. समुपाविशन्तम् ; उपविशन्तम् .
[^
]G. ससंभ्रमम् .
[^
१०]G. ईदृश.
[^
११]G. कथमपि.
[^
१२]G. गुरुयन्त्रणाम. म्.
[^
१३]G. विगत.
[^१४]G. अर्भकत्वे त्वयि; अर्कस्यापि ते; अर्भके ते.
[^
१५]G. असाधारणी सर्वथा.