This page has not been fully proofread.

S
 
२०६
 
कादम्बरी ।
 
[ कथायाम् -
 
बिम्ब प्रविष्टशशिमण्डलामिव 'दिवं समुपसृत्य मातरं प्रेणनाम । सा तु तं ससंभ्रममुत्थाप्य
सत्यप्याज्ञासंपादनदक्षे पार्श्व परिवर्तिनि परिजने स्वयमेव कृतावतरणका प्रेस्नुतपयोधरक्षर-
उपयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन निर्गच्छतेव हृदयेनान्तःशुभशैतानीव ध्यायन्ती मूर्ध-
न्युपाघ्राय तं सुचिरमाशिलेष । अनन्तरं च तथैव कृतयथोचितसमुपचारमाविष्टवैशम्पा-
यना स्वयमुपविश्य विनयादवनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमु
त्सङ्गमारोपितवती । संसंभ्रमपरिजनोपनीतायामासन्धामुपविष्टे च वैशम्पायने चन्द्रापीड
पुनः पुनरालिङ्गय ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परांमृशन्ती विला-
सवती तमवादीत् – 'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरीहैशी त्रिभुवनलालनीया
क्लेशमतिमहान्तमियन्तं कालं लम्भिता । कैथमसि सोढवानतिदीर्घामिमां गुरुजनयत्रणाम् ।
अहो, बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो, विगैलितशिशुजनक्रीडाकौतुकला-
घव ते हृदयम् । अहो, गुरुजनस्योपरि भक्तिरसाधारणा सर्वा । यथा पितुःप्रसादा.
 
-
 
राज्ञ्या अमावास्योपमानमिति भावः । समुपसृत्य पार्श्वे समागत्य । अन्वयस्तु प्रागेवोक्तः । तु पुनरर्थे । सा
विलासवत तं तं संभ्रमं सवेगं पादपतितमुत्थाप्य पार्श्व परिवर्तिनी निकटस्थायिनि परिजने परिच्छद आज्ञा-
संपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्साहैकर्मविशेषो यया सा । हृदयेन
चेतसान्तर्मध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती । अथ हृदयविशेषणानि - प्र ( प्र ) -
तेति । प्रनुतौ पयःपूर्णौ यौ पयोधरौ ताभ्यां क्षरन्तो ये पयोबिन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय
निर्गच्छतेव बहिःप्रसर्पतेव स्नेह आभ्यन्तरप्रीतिस्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वा तं
सुचिरं चिरकालमाशिलेषालिलिङ्ग । अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् ।
कृतमिति । कृतो यथोचितो यथायोग्यः समुपचारः प्रियवाग्व्यापारो यथा स्यात्तथाश्लिष्ट आलिङ्गितो
वैशम्पायनो यया सा स्वयमुपविश्य विनयादव नितले समुपविशन्तमासेदिवांसमाकृष्य बलादाकर्षणं कृत्वानि -
च्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्सङ्गं कोडमारोपितवत्यारोपयामास । ससंभ्रमं सवेगं परिजनेन
परिच्छदेनोपनीतायामानीतामामासन्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनः पुनर्वारंवारमा-
लिङ्गयोपगूहनं विधाय ललाटदेशेऽलिकप्रदेशे नक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुर्वारंवार करतलेन
स्वपाणितलेन परामृशन्ती परामर्शनं कुर्वती विलासवती तमवादीदवोचत् । किमुवाचेत्याह-वत्सेति ।
हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीयमाकृतिराकार स्त्रिभुवने लाल-
नीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्तमेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा
चिरकालमिमां गुरुजनयन्त्रणां पूज्यजननियन्त्रणां कथं सोढवानसि । अहो इत्याश्चर्ये । ते तव बालस्यापि ततः
कठोरस्यैव महद्धैर्यम् । अहो इति पूर्ववत् । अर्भके बालके त्वयि विगलितं दूरीभूतं शिशुजना बालजनास्तेषां
क्रीडाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत् । गुरुजनस्योपर्यसाधारणा सर्वा भक्तिः ।
यथा पितुर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्याभिरुपेतः सहित आलोकितोऽसि वीक्षितोऽसि ।
 
टिप्प० -1 यानावतरणकालिकं धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणम् । 2 'अर्भकस्यापि ते हृदयम्'
इत्येव ग्रन्थकारानुमतः पाठः । 3 'असाधारणी भक्तिः सर्वथा' इत्येव पाठः । 'सर्वा' इति विशेषणस्याऽ-
समर्पकत्वात् ।
 
पाठा०-
- १ दिवसमुपसृत्य; दिवसश्रियं समुपसृत्य २ ननाम. ३ तु ससंभ्रममुत्थाय ४ कृतावतरणकापसुतप-
योधर; कृतावतरणकमङ्गला प्रस्तुतपयोधर ५ प्रस्तुत ६ निर्गतेन. ७ शतान्यभिध्यायन्ती; शतानीवाभिध्यायन्ती.
८ समुपाविशन्तम् ; उपविशन्तम् ९ ससंभ्रमम् १० ईदृश. ११ कथमपि. १२ गुरुयन्त्रणाम. १३ विगत.
१४ अर्भकत्वे त्वयि; अर्मकस्यापि ते; अर्भके ते. १५ असाधारणी सर्वथा.