कादम्बरी /238
This page has not been fully proofread.
चन्द्रापीडस्य मातापितृदर्शनम् ] पूर्वभागः ।
२०५
शुद्धान्तर्वशिकैः, अतिप्रशान्ता काराभिग्य कषायरक्ताम्बरधारिणीभिः संध्याभिरिव सकल-
लोकवन्द्याभिः प्रलम्बश्रवणपाशाभिर्विदिताने क केथावृत्तान्ताभिर्भूतपूर्वाः पुण्याः कथाः कथ-
यन्तीभिरितिहासान्वाचयन्तीभिः पुस्तकान्दधतीभिर्धर्मोपदेशान्निवेदयन्तीभिः जरत्प्रनजिता-
भिर्विनोद्यमानाम् उपरचितस्त्रीवेषभषेण गृहीत विकटप्रसाधनेन वर्षवरजनेनोपसेव्यमा-
नाम्, अनवरतीभिधूयमानवालव्यजनकलापाम्, अङ्गनाजनेन च वसनाभरणकुसुमपटवा-
संताम्बूलतालवृन्ताङ्गरागभृङ्गारधारिणा मण्डलोपविष्टेनोपास्यमानाम्, पयोधरौवलम्बिमुक्ता-
गुणाम् अँचलमध्यसबद्गङ्गाप्रवाहामिव मेदिनीम्, आसन्नदर्पणपतितमुखप्रतिबिम्बाम् अर्क
i
."
c
क्षीरोदकल्लोलैः क्षीरसमुद्रतरः परिवृतां श्रियमिव लक्ष्मीमिव । पुनः कीदृशीम् । जरत्प्रव्रजिताभिर्वृद्धतापसी-
भिर्विनोद्यमानां विनोदविषयी क्रियमाणाम् । अथ च तापसीनां विशेषण नि--अतिप्रशान्तोऽतिशान्त आकारो
यासां ताभिः । कषायेण रक्तं यदम्बरं वस्त्रं तद्धारयन्तीत्येवंशीलास्ताभिः । सकलाः समग्रा ये लोकास्तैर्वन्द्या-
भिर्वन्दनीयाभिः । रक्ताम्बर साम्यादाह - संध्याभिरिव । प्रलम्बा लम्बायमानाः श्रवणपाशाः कर्णपाल्यो
यासां ताभिः । विदिता ज्ञाता अनेकाः कथाः प्रबन्धास्तासां वृत्तान्तो वार्ता याभिस्तास्ताभिः । पूर्व भूता
भूतपूर्वा एवंविधाः पुण्याः पवित्राः कथाः संबन्धान्कथयन्तीभिः प्रतिपादयन्तीभिः । इतिहासान्पूर्वं-
घृत्तान्तान्वाचयन्तीभिः पठन्तीभिः । पुस्तकाञ्छास्त्रान्दधतीभिर्धारयन्तीभिः । धर्मोपदेशान्निवेदयन्तीभिर्ज्ञापय-
न्तीभिः । पुनस्तामेव विशेषयन्नाह – उपरचितेति । उपरचितो विहितः स्त्रीणां वेषो नेपथ्यं भाषा च येन
स तथा तेन । गृहीतमात्तं विकटं विपुलं प्रसाधनं प्रतिकर्म येनैवंविधेन वर्षवरजनेन षण्ढजनेनोपसेव्यमानां
पर्युपास्यमानाम् । कामन्दक्यां तेषां लक्षणं यथा – 'ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः ।
जाया न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः' इति । अनवरतं निरन्तरमभिधूयमानो वीज्यमानो वालव्यजन-
कलापश्चामरसमूहो यस्याः सा ताम् । अङ्गनाजनेन स्त्रीजनेन चोपास्यमानां सेव्यमानाम् । अङ्गनाञ्जनं विशेषय-
नाह – वसनेति । वसनानि वस्त्राणि; आभरणानि भूषणानि; कुसुमानि पुष्पाणि, पटवासः पिष्टातः, ताम्बूलं
नागवल्लीदलानि, तालवृन्तं व्यजनम् अङ्गरागो विलेपनम्, भृङ्गारः कनकालुका, एतान्धरतीति धारी तेन
धारिणा । कीदृशेन । मण्डल्योपविष्टेन स्थितेन । अन्वयस्तु प्रागेवोक्तः । पुनरपि विशेषतस्तामेव विशेषयन्नाह -
पयोधरेति । पयोधरयोः कुचयोरवलम्बी मुक्तागुणो हारो यस्यास्ताम् । स्तनानामत्युचत्वेन मुक्तानां
चात्युज्वलत्वेनोपमान्तरं प्रदर्शयन्नाह - अचलेति । अचलयोः पर्वतयोर्मध्येऽन्तरे स्रवन् वहमानो
गङ्गाप्रवाहो यस्यामेवंभूता मेदिनीमिव वसुंधरामिव । सर्वंसहत्वात्तस्याः पृथिव्या उपमानम् । आसन्नेति ।
आसन्नः समीपवर्ती यो दर्पण आदर्शस्तत्र पतितो मुखप्रतिबिम्बो यस्यास्ताम् । अत्रार्थ उपमानान्तरं
दर्शयन्नाह – अर्केति । अर्कबिम्बे सूर्यमण्डले प्रविष्टुं शशिमण्डलं यस्यामेवंभूतां दिवमिवाकाशमिव ।
तस्यामेव शशिबिम्बस्यार्कबिम्बे प्रवेशात् । अत्रादर्शस्य सूर्यबिम्बोपमानम् । मुखस्य शशिभ्रण्डलोपमानम् ।
>
G
♥
टिप्प० – 1 अतिप्रशान्ताकाराभिरित्यादि विशेषणत्रयं प्रव्रजितासु सन्ध्यासु च योज्यते । अतिप्रशा-
न्ताकाराभिः सकललोकवन्द्याभिरिति तुभयन्त्र समानं स्पष्टं च । सन्ध्यापक्षे - कषायेण रक्तमिव यदम्ब•
रम् ( आकाशम् ) तद् धारयन्तीभिरित्यर्थो बोध्येः । 2 पुस्तक - शास्त्रयोः क्लीबत्वमेवोचितम् ।
.
पाठा० - १ शुद्धान्तान्तर्वशिकै: • २ कथालाप. ३ श्रुतपूर्वा:. ४ कथा:. ५ वाचयन्तीभिरितिहासपुस्तकानि दद-
तीभिः; इतिहासान्वाचयन्तीभिः पुस्तकानि दंधतीभिः ६ निवेदयन्तीभिः पुण्याः कथा जरत्. ७ भारेण. ८ वर्षधर.
९ संसेव्यमानाम् १० विधूयमानाम्. ११ ताम्बूलवृन्त १२ अवलम्बित; अन्तरावलम्बित १३ अचलद्वयप्रवृत्तगङ्गा;
अचलद्वयमध्यप्रवृत्त गङ्गा.