2024-01-01 08:27:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]पुलकतया सीव्यन्निवैकी [^२]कुर्वन्निव पिबन्निव तं पिता विन- यावनतमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृतमुत्तरीय [^३]मात्मीयं ताम्बूल [^४]करङ्कवाहिन्या सत्व- रमासनीकृतमपनयेति शनैर्वदन्नग्रचरणेन [^५]समुत्सार्य चन्द्रा- पीड: क्षितितल एव निषसाद । [^६]अनन्तरं निहिते चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत्। मुहूर्तमिव विस्मृ- तचामत्क्षेपनिश्चलानां वारविलासिनीनां साभिलाषैरनिलचलित [^७]कुवलयदामदीर्घै [^८]राजिह्म [^९]तरलतारसारैरवलुप्यमा- न इव दृष्टिपातैः स्थित्वा 'गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य
[^१०]दर्शनलालसां यथाक्रमं सर्वा जननीर्दर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमुत्थाय निवारितपरिजनो वैशम्पायन द्वितीयोऽन्तःपुरप्रवेशयोग्येन [^११]राजपरिजनेनोपदिश्यमा-
न- वर्त्मान्तःपुर माययौ ।
 
तत्र धवलकञ्चुकावच्छन्नशरीरै [^१२]रनेकशत संख्यैः श्रियमिव क्षीरोदकल्लोलैः समन्तात्परिवृतां
 
१२
 

[ टि ]--
पुलको रोमाञ्चस्तस्य भावस्तत्ता तया सीव्यन्निव सीवनं कुर्वंन्निवैफीकीकुर्वन्निव तन्मयीकुर्वन्निव पिबन्निवात्यादरेण
पानं कुर्व- न्निव । पितुर्निकटे विनयातिशयं व्यञ्जयन्नाह - विनयेति । विनया- द्वैनयिकगुणेनावनतं नम्रीभूतं पिता
तारापीड स्तं चन्द्रापीडमालि- लिङ्ग परिषस्वजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितु- स्तार पीडस्य चर
णयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरीयं सत्वरं
शीघ्रमासनीकृतं विष्टरीकृतम् अपनय दूरीकुर्विति शनैः शनैर्वद- न्ब्रुवन्नग्रचरणेन तत्समुत्सार्य दूरीकृत्य चन्द्रापीड:
क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्विशेषं यथा
स्यात्तथोपगूढ आलिङ्गितो वैशम्पा- यनो निहिते स्थापितेऽस्यासने [^1]चन्द्रापीडासने न्यषीददुपाविशत् ।
- शत् । विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलानां वारविलासिनीनां वारा- ङ्गनानां दृष्टिपातैर्नेत्रप्रान्तैरवलुप्यमान इवाच्छा-
द्यमान इव । दृष्टिपातं विशेषयन्नाह - सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः । सहस्य सादेशः ।
अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम कमल- माला तद्वद्दीर्घैरायतैराजिह्माकुटिला तरला चञ्चला तारा
कनीनिका सैव [^2]सारं प्रधानं येषु तैः । मुहूर्तमिदं कियत्कालं तत्र राजसमीपे स्थित्वा स्थानं कृत्वा । हे वत्स हे
पुत्र, गच्छ व्रज । पुत्रवत्सलां पुत्र- हितां मातरं जननीं दर्शनलालसां त्वद्दर्शनोत्कण्ठितामभिवाद्य पाद- ग्रहणं
कृत्वा यथाक्रमं यथानुक्रमं सर्वा जननीरुपमातृतॄ र्दर्शनेनान-
न्दय प्रमोदय । इति हेत्वर्थे । पित्रा तारापीडेन विस-
र्जितो विसृष्टः सविनयं यथा स्यात्तथोत्थायोत्थानं कृत्वा निवारितस्तत्रैव रक्षितः परिजनः परिच्छदो येनैवंभूतो
वैशम्पायनद्वितीयोऽन्तःपुरप्रवेश- योग्येन राजपरिजनेनोपदिश्यमानवर्त्मान्तःपुरमाययौ समागमत् ।
 
-
 
तत्रेति । तत्र अन्तःपुरे मातरं जननीं प्रणनाम नमश्चक्र इति दूरे- णान्वयः । अथ मातुर्विशेषणानि - धवल-
कञ्चुकैरवच्छन्नान्याच्छा-
दितानि शरीराणि येषों तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तर्वंशि- कैः शुद्धोऽन्तर्वंश-
श्चान्तःपुरं तत्र नियुक्ता आन्तर्वंशिकाः कबुञ्चुक्या- दयस्तैः समन्तात्सर्वतः परिवृतां परिवेष्टिताम् । कैः कामिव ।
 
टिप्प० -
[^
1]F. इदमनुचितम् । किन्तु – अस्य ( चन्द्रापीडस्य ) अनन्तरं
( पश्चात् ) निहिते भासने,
इत्यर्थः । ब्राह्मणत्वेन वैशम्पायनायासन- दानं नानुचितम् ।
[^
2]F. 'आजिह्मतरलतरतारैः' इत्येव पाठः ।
तरलतराः ताराः येष्विव्त्यर्थः । सारैरिति पाठेऽपि तालव्यादिः 'शारैः' इति पाठः । आजिह्माः तरलतराश्च
यास्ताराः ताभिः शारैश्चित्रितैः । इति तदर्थः ।
 
पाठा० [^]G. पुल ककण्टकतया.
[^२]G. एकीकुर्वन्निव तम्.
[^३]G. आत्मीयम्.
[^४]G. करण्ड.
[^५]G. समुत्सार्य क्षितितले.
[^
]G. अनन्तरनिहिते; अनन्तरविनिहिते,
.
[^७]G. कुवलयदल.
[^८]G. जिह्मित.
[^९]G. तरलतरतार.
[^१०]G. दर्शनलालसाः.
[^
११]G. परिजनेन.
[^
१२]G. नैकशत.
 
-
 
२ एकीकुर्वन्निव तम्. ३ आत्मीयम्. ४ करण्ड.
७ कुवलयदल. ८ जिक्षित, ९ तरलतरतार•
 
५ समुत्सार्य क्षितितले.
१० दर्शनलालसाः,