कादम्बरी /237
This page has not been fully proofread.
२०४
कादम्बरी ।
[ कथायाम्-.
1
पुलकतया सीव्यन्निवैकी कुर्वन्निव पिबन्निव तं पिता विनयावनतमालिलिङ्ग । आलिङ्गितो-
मुक्तश्च पिशुश्चरणपीठसमीपे पिण्डीकृतमुत्तरीयमौत्मीयं ताम्बूलर्केरहवाहिन्या सत्वरमास-
नीकृतमपनयेति शनैर्वदन्न प्रचरणेन समुत्सार्य चन्द्रापीड: क्षितितल एव निषसाद । अनन्तरं
निहिते चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो म्यषीदत्। मुहूर्तमिव विस्मृत-
चामत्क्षेप
निञ्चलानां वारविलासिनीनां साभिलापैर निलचलित कुवँलयदा मदीर्थैरा जिझर्तर-
लतारसारैरवलुप्यमान इव दृष्टिपातैः स्थित्वा 'गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य
दर्शनलालसां यथाक्रमं सर्वा जननीदर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमु-
स्थाय निवारितपरिजनो वैशम्पायन द्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमा-
नवर्त्मान्तःपुरमाययौ ।
तत्र धवलकञ्चुकावच्छन्नशरीरैरनेकशत संख्यैः श्रियमिव क्षीरोदकल्लोलैः समन्तात्परिवृतां
१२
पुलको रोमाञ्चस्तस्य भावस्तत्ता तया सीव्यन्निव सीवनं कुर्वंन्निवैफीकुर्वन्निव तन्मयीकुर्वन्निव पिबन्निवात्यादरेण
पानं कुर्वन्निव । पितुर्निकटे विनयातिशयं व्यञ्जयन्नाह - विनयेति । विनयाद्वैनयिकगुणेनावनतं नम्रीभूतं पिता
तारापीड स्तं चन्द्रापीडमालिलिङ्ग परिषस्वजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितुस्तार पीडस्य चर
णयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरीयं सत्वरं
शीघ्रमासनीकृतं विष्टरीकृतम् अपनय दूरीकुर्विति शनैः शनैर्वदन्ब्रुवन्नग्रचरणेन तत्समुत्सार्य दूरीकृत्य चन्द्रापीड:
क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्विशेषं यथा
स्यात्तथोपगूढ आलिङ्गितो वैशम्पायनो निहिते स्थापितेऽस्यासने चन्द्रापीडासने न्यषीददुपाविशत् ।
विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलानां वारविलासिनीनां वाराङ्गनानां दृष्टिपातैर्नेत्रप्रान्तैरवलुप्यमान इवाच्छा-
द्यमान इव । दृष्टिपातं विशेषयन्नाह - सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः । सहस्य सादेशः ।
अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम कमलमाला तद्वद्दीघैरायतैराजिह्माकुटिला तरला चञ्चला तारा
कनीनिका सैव सारं प्रधानं येषु तैः । मुहूर्तमिद कियत्कालं तत्र राजसमीपे स्थित्वा स्थानं कृत्वा । हे वत्स हे
पुत्र, गच्छ व्रज । पुत्रवत्सलां पुत्रहितां मातरं जननीं दर्शनलालसां त्वद्दर्शनोत्कण्ठितामभिवाद्य पादग्रहणं
कृत्वा यथाक्रमं यथानुक्रमं सर्वा जननीरुपमातृर्दर्शनेनानन्दय प्रमोदय । इति हेत्वर्थे । पित्रा तारापीडेन विस-
र्जितो विसृष्टः सविनयं यथा स्यात्तथोत्थायोत्थानं कृत्वा निवारितस्तत्रैव रक्षितः परिजनः परिच्छदो येनैवंभूतो
वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवर्त्मान्तःपुरमाययौ समागमत् ।
-
तत्रेति । तत्र अन्तःपुरे मातरं जननीं प्रणनाम नमश्चक इति दूरेणान्वयः । अथ मातुर्विशेषणानि - धवल-
कञ्चुकैरवच्छन्नान्याच्छादितानि शरीराणि येषों तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तर्वंशिकैः शुद्धोऽन्तर्वंश-
श्चान्तःपुरं तत्र नियुक्ता आन्तर्वशिकाः कबुक्यादयस्तैः समन्तात्सर्वतः परिवृतां परिवेष्टिताम् । कैः कामिव ।
टिप्प० - 1 इदमनुचितम् । किन्तु – अस्य ( चन्द्रापीडस्य ) अनन्तरं ( पश्चात् ) निहिते भासने,
इत्यर्थः । ब्राह्मणत्वेन वैशम्पायनायासनदानं नानुचितम् । 2 'आजिह्मतरलतरतारैः' इत्येव पाठः ।
तरलतराः ताराः येष्विव्यर्थः । सारैरिति पाठेऽपि तालव्यादिः 'शारैः' इति पाठः । आजिह्माः तरलतराश्च
यास्ताराः ताभिः शारैश्चितैः । इति तदर्थः ।
पाठा० १ पुल ककण्टकतया.
६ अनन्तरनिहिते; अनन्तरविनिहिते,
११ परिजनेन. १२ नैकशत.
-
२ एकीकुर्वन्निव तम्. ३ आत्मीयम्. ४ करण्ड.
७ कुवलयदल. ८ जिक्षित, ९ तरलतरतार•
५ समुत्सार्य क्षितितले.
१० दर्शनलालसाः,