This page has not been fully proofread.

चन्द्रापीडस्य मातापित्रोर्दर्शनम् ]
 
पूर्वभागः ।
 
२०३
 
पूर्वकृतावस्थानेन दूरपर्यस्त
मौलिशिथिलितंचूडामणिमरीचिचुम्बितवसुधातलेन राजलोकेन
प्रत्येकशः प्रतीहारनिवेद्यमानेन सादरं प्रणम्यमानः, पढ़े पढ़े चाभ्यन्तरविनिर्गताभिराचार -
कुशला मिरम्तः पुरवृद्धाभिः क्रियमाणावतरणमङ्गलः, भुवनान्तराणीव विविधप्राणिसहस्रसं-
कुलानि सप्तकक्षान्तराण्यतिक्रम्याभ्यन्सराव स्थितम्, अनवरतशेखग्रहणश्यामिकालीढकरतलैः
करचरणलोचेनवर्जमसितलोहजालेका वृतहारीरैरालानस्तम्भैरिव गजमदपरिमल लोमनिरन्तर-
'निलीन मधुकर पटलजटिलैः कुलक्रमागत रुदात्तान्वयैरनुरक्तैर्महाप्राणतयाति कर्कशतया च दा-
नवैरिवाशयाकारसंभाव्यमानपराक्रमैः सर्वतः शरीररक्षाधिकारनियुक्तैः पुरुषैः परिवृतम्,
'उभयतो वारविलासिनीभिश्चानवरतमुद्द्यमान धवलचामरम्, अमलपुलिन तलशोभिनि सुर-
कुञ्जरमिव मन्दाकिनीवारिणि हसँघवलशयनतले निषण्णं पितरमपश्यत् । आलोकयेति च
प्रतीहारबचनानन्तरमतिदूरावनतेन चलितचूडामणिना शिरसा कृतप्रणाममेह्येही त्यै भिधानो
दूरादेव प्रसारितभुजयुगलः शयनतलादीषच्वसितमूर्तिरानन्दजलपूर्यमाणलोचन:
 
समुद्रत-

 
समन्तात् प्रचलितेनोत्थितेन कुमाराग मनप्रतीक्षया पूर्व कृतं विहितमवस्थानमनस्थितिर्येन । दूरादेव पर्यस्ता नम्रा
ये मौलयः शिरांसि मुकुटानि वा तेभ्यः शिथिलिताः ऋषीभूता ये चूडामणयस्तेषां मरीचिभिक्षुम्बितमाश्लिष्टुं
वसुधातलं येन । प्रत्येकशः प्रत्येकं प्रतीहारो द्वारपालस्तेन निवेद्यमानेन निवेदनां क्रियमाणेन सादरं यथा स्यात्तथेति
क्रियाविशेषणम् । पदे पदे प्रतिपदमभ्यन्तरान्मध्यप्रदेशाद्विनिर्गताभिर्बहिर्निःसृताभिराचारे राजस्थितौ कुशलाभि
र्निपुणाभिरन्तः पुरवृद्धाभिर्महत्तरिकाभिः क्रियमाणमवतरणमङ्गलं यस्य सः । अथं राजानं विशेषयन्नाह - अभ्य
[न्तरेति । अभ्यन्तरे मध्यगृहेऽवस्थितं कृतावस्थानम् । पुनः कीदृशम् । पुरुषैः परिवृतं आवृतम् । पुरुषान्वि
शेषयन्नाह – अनवरतेति । अनवरतं निरन्तरं यच्छस्त्रग्रहणं तेन या श्यामिका तयालीढमाश्लिष्टं करतलं
हस्ततलं येषां तैः । कुरचरणलोचनवर्जम् । एतान्विहायेत्यर्थः । तेषामप्यावरणे शस्त्रग्रहणगतिप्रेक्षणाना मेवाभावः
स्यादित्यर्थः । असितं यल्लोहजालकं तेनावृतमाच्छादितं शरीरं येषां तैः । कैरिव । आलानस्तम्भैरिव गजबन्धन-
स्तम्भैरिव । असितत्वसाम्यादाह - गजेति । गजस्य हस्तिनो यो मदो दानं तस्य यः परिमलस्तस्य लोभेन
निरन्तरं निलीना ये मधुकरा भ्रमरास्तेषां पटलानि तैर्जटिलैर्व्याप्तैः । कुलकमागतैः परम्परायातैः । उदात्तो
महानन्वयो वंशो येषां तैः । अनुरक्तैः प्रीतिमद्भिः । महाप्राणतया महापराक्रमतयातिकर्कशतयातिनिष्ठुरतया च
दानवैरिव दनुजैरिवाशयश्चित्ताभिप्रायः आकार आकृतिः, ताभ्यां संभाव्यमानः पराक्रमः साहसं येषु तैरेवंभूतैः
सर्वतश्चतुर्दिक्षु शरीररक्षाधिकारनियुक्तैरात्मरक्षकैः पुरुषैः परिवृतं परिवेष्टितम् । उभयतः पार्श्वद्वये वारविला-
सिनीभिर्वारयोषिद्भिरनवरतमुद्द्यमानं वीज्यमानं धवलचामरं यस्य स तम् । पुनः कीदृशम् । हंसवद्धबलं यच्छ-
यनतलं शय्यातलं तत्र निषण्णं स्थितम् । कमिव । मन्दाकिनी गङ्गा तस्या वारिणि जले सुरकुञ्जरमिवैरावणमिव ।
शयनं विशिनष्टि – अमलेति । अमलं निर्मलं यत्पुलिनं सैकतं तस्य तलं तद्वच्छोभिनि विराजिनि ।
अन्वयस्तु प्रागेवोक्तः । आलोकय विलोकयेति प्रतीहारवचनानन्तरं द्वारपालोक्तेः पश्चादतिदूरादतिदविष्ठदेशा-
दवनतेन नम्रेण चलितः कम्पितश्चूडामणिः शिरोमणिर्यस्यैवंभूतेन शिरसा सस्तकेन कृतः प्रणामो येन तम् ।
एयेहि । वीप्सायां द्वित्वम् । आगच्छागच्छेत्यभिदधान इति ब्रुवाण: दूरादेव प्रसारितं विस्तारितं भुजयुगलं
बाहुयुग्मं येन सः । शयन तलादीषत्किंचिदुच्छ्वसितोवभूता मूर्तिः शरीरं यस्य सः । आनन्दजलेन प्रमोदबाष्पेण
पूर्यमाणे श्रियमाणे लोचने नेत्रे यस्य सः । आनन्दरूपम भिव्यञ्जयन्नाह - समुद्रतेति । समुद्रतः प्रादुर्भूतो यः
 
2
 
पाठा० -१ चलित. २ निवेथमाननाम्ना ३ अवतारण; अवतरणक. ४ शस्त्रग्रह. ५ विलोचन. ६ जालावृत.
.७ लोभनिलीन. ८ महाप्रमाणतया ९ अतिशयाकारम् आशंयाकारम्; अतिशयाकारैः; अतिशयाकार. १० हंसध-
वले. ११ आदरेणामिदधानः १२ उल्लसित १३ आपूर्यमाण.