2023-12-31 15:21:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२०२
 
कादम्बरी ।
 
कृताकृतसुकृतविचारनिपुणम्,सुकृतमिवादिमध्यावसानकल्याण- करम्,
 
,
 
***
 
वासरारम्भमिव [ कथायाम्-
कृताकृतसुकृतविचारनिपुणम्,
 
वासरारम्भमिव
^१]पद्म-
रागारुणी क्रियमाणनिशान्तम्, दिव्यमुनिगणमिव के[^२]कलापिसनाथश्वेतकेतुशो [6३]भितम्, भारतस-
मरमिव कृतवर्म [^४]बाणचक्रसंभारभीषणम्, पातालमिव महाकबु [^५]ञ्चुक्यध्यासितम्, वर्ष पर्वतसमू-
हमिवान्तः [^६]स्थिता- परिमित [^७]शृङ्गिहेमकूटम् महाद्वारमपि दुष्प्रवेशम्; अवन्ति विषयगत
मपि मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नन्ग्नलोकं राज- कुलं विवेश
 
,
 
,
 

 
ससंभ्रमोपगतैश्च कृतप्रणामै : प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च
 
GUEST
 

 
[ टि ]--
प्रशंसनीयमिति विरोधः तत्परिहारस्त्वगम्यः पुरैरमाग्राह्यो विषयो देशस्तदासक्तमित्यर्थात् । अन्तको यमस्तस्य
भटगणः सुभसमूहस्तमिव कृताकृतं यत्सुकृतं शोभनं कृत्यं तस्य यो विचारस्तत्र निपुणं चतुरम् पे[^1]पक्षे....
"
...सुकृतं पुण्यं तद्वदिवादि-
मध्यावसानेषु कल्याणकरं शुभकारकमित्यभङ्गश्लेषः । वासरस्य दिवसस्यारम्भ-
स्तमिव पद्मरागै रक्तमणिभिररुणीक्रियमाणं रक्ती- क्रियमाणं निशान्तं गृहं यत्र तत् । 'धामागारं निशान्तम्'
इति कोशः । पक्षे पद्मानां रागैररुणीक्रियमाणो निशान्तो रात्रिप्रान्तो यस्मिन् दिव्यो मुनिगणो वसिष्ठा-
दिस्तमिव कलापिनो मयूरास्तैः सनाथाः सहिता ये श्वेतकेतवः सितध्वजास्तैः शोभितम् । पक्षे कलापी.
सनाथः श्वेतकेतुश्च त्रयोऽप्येते देवर्षयस्तैः शोभितं विराजितम् । भारतशा- स्त्रोक्तसमरमिव कृतो विहितो वर्म
कवचम्, बाणाः शराः, चक्र ।राणि प्रसिद्धानि, एतेषां संभार: समूहस्तेन भीषणं भयजनकम् । पक्षे कृतवर्मा.
हृदीकपुत्रः, बाणा: शिलीमुखाः, तेषां चक्रेषु परदलेषु संभारस्तेन भीषणम् । पातालं वडवामुखं तदिव महाक-
झु
ञ्चुकिनः सौविदल्लास्तैरध्यासितमाश्रितम् । पक्षे महाकञ्चुकिन: सर्पाः । वर्षपर्वताः क्षेत्रसीमाकारिणोऽचलाः
सप्तैव । तदुक्तम् – 'हिमवान् हेमकूटश्च निषधो मेरुरेव च । श्वेतः कृष्णश्च शृङ्गी च सप्तैते वर्षपर्व- ताः' ।.
तेषां समूहमिवान्तःस्थितानि मध्यस्थितान्यपरिमितान्य संख्ये- यानि शृङ्गीहेमानि । 'अलंकाराय यत्स्वर्
गं तच्छृङ्गीकनकं विदुः' । तेषां कूटानि यस्मिंस्तत्संबन्धस्तैर परिमितत्वे [^2]न शृङ्गं प्राधान्यं येषामेवंभूतानि
हेमकूठाटानि सुवर्णसमूहा यस्मिन् । 'प्राधान्यसान्वोश्च' इत्यनेकार्थः । पक्षेऽपरिमित शृङ्गी हेमकूटाचलो
यस्मिन् । महाद्वार- मपि दुःप्रवेशमित्यति [^3]शयोक्तिः । अवन्तिविषयो मालवदेश- स्तत्र गतमपि प्राप्तमपि भामागधजनै-
र्जरासन्धदेशोद्भवजनैरधिष्ठित- मिति विरोधः । तत्परिहारस्तु मागधा युद्धान्निवर्तिनो गायनास्तैर- धिष्ठितमित्य-
र्थात् । स्फीतमपि ऋद्धिमदपि भ्रमन्तो नशाग्ना लोका यस्मिन्निति विरोधः । तत्परिहारस्तु भ्रमन्तो देशान्तरा
दागता नग्न- लोकाः स्तुतिव्रता नग्नाचार्याश्च यस्मिन्नियर्थात् ।
 
99
 

 
ससंत्भ्रमं सवेगमुपगतैः प्राप्तैः कृतः प्रणामो येनैवंभूतैः प्रतीहार- मण्डलैर्द्वारपालसमूहरुपदिश्यमान उपदार्थ..
दर्श्यमानो मार्गः पन्था यस्य स तथा । बहुभिर्वषैर्विद्याभ्यासं विधाय गृहागतत्वेन तादृशगृहज्ञाना- भावाद्वारपालैर्मार्गः
प्रदशर्यत इति भावः । यद्वा पितुराह्वानजनित- प्रमोदातिरेकेण विस्मृतान्यव्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति भावः

राजगृह प्रवेशानन्तरं स चन्द्रापीडो भुवनान्तराणीव सप्तकक्षान्तर- राण्यतिक्रम्य पितरं तारापीडमपश्यदित्यन्वयः ।
पुनः कीदृशः । राजलोकेन प्रणम्यमानो नमस्क्रियमाणः । अथ राजलोकं विशिष्टि - सर्वत इति । सर्वतः
 
टिप्प० -

 
[^
1]F. प्रजाभिः कृतस्य अकृतस्य सुन्दररूपेण कृतस्य च ( कार्य- स्य ) विचारे इति राजकुल-
पक्षे । कृतयोः कृत (पाप) सुकृत
( पुण्य ) योर्विचारे इति यमभटपक्षे ।
[^
2]F. अस्पष्टमिदम् । अन्तःस्थितः
अपरिमितानां शृङ्गिणां (गवादीनाम् ) हेम्नां च कूटो ( समूहः ) यस्मिन्निति राजकुलम् । अन्तःस्थितौ
अपरिमितौ (महान्तौ ) शृङ्ग-हेमकूटी तामको पत्रेन्नामकौ पर्व- तौ यस्य इति वर्षपर्वतसमूह इत्यर्थः ।
[^
3]F. अज्ञा-
नमिदम्, विरोधालंकारोऽत्र । महाद्वारत्वे दुःप्रवेशत्वं विरुद्धम् । राज्ञः प्रतापात् साधारणैः दुःप्रवेशत्व-
मिति तत्परिहारः ।
 
पाठ-
-

 
[^
]G. परिस्फुरत्पन्न.
[^२]G.
चित्रकलापि.
[^
]G. उपशोमितन् भितन्.
[^
]G. शिलीमुख, - .
[^
]G. कबुञ्चुकिसहस्राध्यासितम्.
[^६]G
.
परिमाण, .
[^
]G. शृङ्ग; निश्रुङ्गि.