This page has not been fully proofread.

राजभवनम् ]
 
पूर्वभागः ।
 
२०१
 
मृदुकाव्यमिवा-
19
 
नारदीयमिव वर्ण्यमानराजधर्मम् यत्रमिव विविधशब्दरसलब्धास्वादम्,
न्यचिन्तितस्वभावाभिप्रायै । वेदकम्, महानदीप्रवाहमिव सर्वदुरितापहरम्, धनमिव न कस्य-
चित्राकाङ्क्षणीयम्, संध्यासमयमिव दृश्यमान चन्द्रापीडोदयम्, नारायणवक्षस्थलमिव
श्रीरत्नप्रभाभासित दिगन्तम्, बलभद्रमिव कादम्बरी रस विशेषवर्णना कुलमैतिम्, ब्राह्मणमिव
पद्मासनोपदेशदर्शितभूमण्डलम्, स्कन्दमिव शिखिक्रीडारम्भचञ्चलम् कुलाङ्गनाप्रचारमिव
सर्वदोपजातशङ्कम्, वेश्याज नमिवोपचारचतुरम्, दुर्जनमिवापगतपरलोकभयम्, अन्त्यजज-
नमिवागम्य विषयाभिलाषम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तकभटगणमिव
 
.9
 
-
 
दण्डादिना मोचनम्, कलाभागा विज्ञानैकदेशाः तेषु निपुणा यस्मिन् । पक्षे अर्केन्द्रो: ग्रहो मोक्षश्च, कला
षोडशो भागः, तासां भागा विभागास्तेषु निपुणम् । एतज्ज्ञापऋमित्यर्थः । नारदीयं पुराणं तद्वदिवासमन्ताद्व•
र्ण्यमानः स्तूयमानो राजधर्मो यस्मिन्नित्यभङ्गश्लेषः । यन्त्रं वीणा तद्वदिव विविधाः शब्दा मनोज्ञशब्दाः, रसाः
शृङ्गारादयः तेषां लब्ध आस्वादश्चर्वणं येन तत् । पक्षे विविधशब्दर सैर्नानाविधरागरसैलब्धास्वादा जना
यस्मात् । मृदु सुकुमारं यत्काव्यं कविकर्म तद्वदिवान्यचिन्तितानि स्वभावाः प्रकृतयः, अध्यवसाया मनोगताभि-
प्रायाः, तेषामावेदकं कथकम् । पक्षेऽन्येन कविना चिन्तितो विचारितो यः स्वभावाभिप्रायः सहजोऽभिप्रायः ।
तात्पर्यविषयीभूतोऽर्थ इति यावत् । तस्यावेदकं ज्ञापकम् । महानया बृहत्तटिन्याः प्रवाह ओघस्तमिव सर्व यहु-
रितं दुश्चरितं तस्यापहरम् । पक्षे सर्व दुरितं पापम् । धनं द्रव्यं तद्वदिव न कस्यचिदपि नाकाङ्क्षणीयं नाभिलष-
णीयम् । अपि तु सर्वस्यापि स्पहणीयमित्यर्थः । इत्यभङ्गश्लेषः । संध्यायाः सायंकालस्य समयः क्षुणस्तमिब
दृश्यमानः प्रेक्ष्यमाणश्चन्द्रापीडस्य सुतस्योदयोऽभ्युन्नतिर्यस्मिन् । पक्षे चन्द्रापीड ईश्वरः । सर्वदा संध्यायां
नृत्यविधानादिति भावः । नारायणो विष्णुस्तस्य वक्षस्थलं भुजान्तरं तद्वदिव श्रीः शोभा तया युक्तानि रत्नानि
तेषां प्रभाः कान्तयस्ताभिर्भसितं प्रकाशितं दिगन्तं यस्मिन् । पक्षे श्रीलक्ष्मीः रत्नं कौस्तुभम् । शेषं पूर्व-
वत् । बलभद्रो रामस्तमिव कादम्बरी वक्ष्यमाणी स्त्री तस्या रसविशेषवर्णन आकुला मतिर्यस्मिन् । पक्षे काद-
म्बरी कापिशायनम् । ब्राह्मणमिव द्विजमिव पद्मासनोपदेशेन दर्शितं भूमण्डलं यस्मिन् । पक्षे पद्मासनो ब्रह्मा
तस्योपदेशो वेदस्तेन दर्शितमन्येभ्यः प्रकाशितं भूमण्डलं येन स तम् । स्कन्दः खामी तमिव शिखी मयूरस्तस्य
यः क्रीडारम्भस्तेन चञ्चलं चटुलमित्यभङ्गश्लेषः । कुलाङ्गनायाः कुलवध्वाः प्रचारः संचरणं तमिव सर्व
ददातीति सर्वदः परमेश्वरस्तस्मादुपजाता शङ्का भयं यस्मिन् । पक्षे सर्वदा सर्वकालम् । वेश्याजनो वाराङ्गना-
जनस्तमिवोपचारः सेवा तत्र चतुरमित्यभङ्गश्लेषः । दुर्जनः खलस्तमिवापगतं परे लोकाः शत्रवस्तेभ्यो भयं
यस्मिन् । पक्षे परलोको भवान्तरम् । अन्त्यजजनो दिवाकीर्तिजनस्तमिवागम्यः परैरग्राह्य एवंविधो विषयो
देशस्तमिवोर्पंचारो यस्मिन् । पक्षेऽगम्यानां विषयाभिलाषो यस्मिन्निति बहुव्रीहि । अगम्यविषयासक्तमपि
 
२६ का०
 
टिप्प० – 1 अन्यैः (वक्तर्भिन्नैः ) चिन्तितः श्रवणमात्रेणाऽवगतः स्वभावः ( स्वोऽर्थः ) अभिप्रायः
कवेराशयश्च तयोरावेदकम् । प्रसादगुगविशिष्टं काव्यमन्ये श्रवणमात्रेण आशयतोऽवबुध्यन्त इत्यर्थः ।
2 कादम्बर्या सांप्रतं परिचयाभावान्नोचितोयमर्थः । उभयत्रापि मद्यमेवार्थ: । राजकुलपक्षे 'आकुलमति'
इति लिङ्गव्यत्ययः कार्यः । 3 पद्मायाः आसनाथ ( स्थितये ) य उपदेशो ( गुरुभिदत्तः ) तेन दर्शितं
भूमण्डलं ( भूमण्डलव्यवहारः ) यस्मिन् । 4 सर्वदा उपजाता शङ्का यस्मात्, साधारणजना राजभव
नादू बिभ्यति । 5 टीका भ्रष्टाक्षरेवाऽऽभाति । परैः अगम्यः अज्ञेयः विषयाणां देशानामभिलाषो यस्मिन्,
कदा कीडशो देश: आक्रम्य ग्रहीष्यते इति गुप्तमन्नस्वाद् न शामते इत्यर्थो योग्यः ।
 
पाठा०-१ अनन्य. २ वेदकम् ३ दुरिततापहरम्. ४ काङ्क्षणीयम्; काहणीयं फलन्, १ मति, ६ ब्रह्माणम्.
 
● अन्यजन.
 
.