2023-12-31 13:50:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

नक्षत्रमालालंकृतम्, प्रभातसमयमिव पूर्वदिग्भागरागानुमेयमित्रो- दयम्, [^१]गन्धिकभवनमिवस्नानधूपविले [^२]पवर्णकोज्ज्वलम्, ताम्बूलिकभवनमिव कृतलवलील [^३]विङ्गैल कङ्कोलपत्रसंचयम्, [^४]प्रथ-
मवेश्यासमागममिवाविदितहृदयाभिप्रायचेष्टाविकारम्, कामुकजनमिव बहुचाटुसंलाप-
२००
 
सुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशतसहस्रालंकरणकृतलेख्य-
पत्रसंच- यम्, धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमिव [^५]श्वा- पदद्विजोपघुष्टम्, रामा-
यणमिव कै[^६]कपिकथासमाकुलम्, माद्री- कुलमिव नकुलालंकृतम्, संगीतभवनमिवानेकस्थानांव-
नावस्थापित- मृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्, ज्यौतिषमिव ग्रहमोक्षकलाभागनिपुणम्,
 

 

 
पे
[ टि ]-- पक्ष आसवपात्राणि मद्यपात्राणि । 'मध्वासवो माधवको मैरेये सीधुरासवः' इति कोशः । निशा रात्रिस्तस्याः
समयः कालस्तमित्र- स्तमिव सप्तविंशप्तिभिर्मुक्ताफलैः रचिता नक्षत्रमालास्ताभिरने-
काभिरलंकृतं विभूषितम् । पक्षे-
s
नेका नक्षत्रमाला ग्रहश्रेणिर्यस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीत्या भागेनैक-
देशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उद- योऽभ्युन्नतिर्यस्मिन् । स्तोकसंबन्धेन समागतानामपि
सुहृदामति- गौरवम् का कथा बहुसंबन्धेनागतानामिति भावः । पक्षे पूर्वदिग्भागे प्राच्येकदेशे यो रागस्ते -
नानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक [^1]औषधादिविकृत्तस्य भवनं गृहं तद्वदिव
स्नानानन्तरं केशानां धूपः, विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्ज्वलं निर्मलमित्यभङ्गश्लेषः । ताम्बूलि
कानां नागवल्लीदल- विक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवल्ली विशेषः लविङ्गं देवकुसुमम्,
एला चन्द्रवाला, कङ्कोलः कोशफलम् पैंत्र[^2]पत्रं जातिफलपत्रम्, एतेषां संचयः संनिधिर्यस्मिन्नित्यभङ्गश्लेषः
प्रथम आद्यो यो वेश्ययां वारयोषिता समागमस्तमिव । अतिगाम्भीर्यादवि- दितोऽज्ञातो हृदयाभिप्रायश्चित्ता:
यो यस्यैवंविधस्य । अर्थाद्राज्ञः । चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतिर्यस्मिन्नित्य- भङ्गश्लेषः ।
कामुकः कामयिता यो जनस्तमित्र बहूनि चाहूटूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परस्परालापाः सुभाषितानां
सूक्तानां रसास्वादास्तेषु दत्तारत स्तालशब्दा अभीष्टावबोधनेन परस्परकरतालाहतयो यस्मिन् । पक्षे यैरिति तृती-
याबहुव्रीहिः
धूर्तीतो द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशत-
सहस्रालंकरणमलंकृतिस्तत्र कृतो
लेख्यपत्रसंचयो यस्मिन् अवरोधजनस्वः मध्ये यदलंकारादिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीक्रियत
इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति । धूर्तैरपि सर्व[^3]सर्वं पत्रलेख्यपूर्वकं गृह्यत इति तदुपमानम् ।
धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनकमित्यभङ्गश्लेषः
महच्च तद्वनं च महावनं तदिव श्वापदा वने व्याघ्रादयो गृहे मृगयार्थं संरक्षिताश्च द्विजाः पक्षिणो ब्राह्मणाश्च
तैरुपघुष्टं शब्दितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षितानां कपीनां वानराणां कथा वार्तास्ताभिः
समाकुलम् । पक्षे कपिकथा हनूमत्कथा । माद्रीकुलं माद्री पाण्डु- पत्नी तस्याः कुलं तद्वदिव नकुलः सर्पहा तेना-
लंकृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः । संगीत- प्रेक्षणार्थं प्रयुक्तस्य
गीतनृत्यवाद्यत्रयस्य भवनमिवानेकस्थानेष्वव- स्थापितं न्यस्तं मृदां मृत्तिकानामङ्गं यस्मिन् । पक्षे मृदङ्गानि
मुर- जानि । रघुकुलं दशरथकुलं तद्वदिव । भरतः शैलुलूषस्तस्य गुणेन कलाकौशलेनानन्दितम् । पक्षे भरतस्य
दाशरथेर्गुणो व्रतपालन- लक्षणः । ज्यौतिषमिव ज्योतिः शास्त्रमिव ग्रह उद्धतनृपाणां ग्रहणं, मोक्षस्तेषामेव
 
"
 
टिप्प० -
[^1]F. गन्धद्रव्याणि विक्रीणीते स गान्धिकः ( गन्धी 'सुगन्धी' इति ख्यातः ) ।
[^
2]F. पर्णम्
( नागवल्लीदलम् ) इत्यर्थः ।
[^
3]F. दीयमानाय ( दातव्याय: ) मणिशतसहस्राय अलंकरणाय च कृतः लेख्य
पत्रसंचय: 'एतावत्काले दास्यामि' इति ऋणलेख्यपत्र- समूहो यस्मिन्नित्यर्थः ।
 
[^१]G. गान्धिक.
[^२]G. लेपन.
[^
लव]G. लवङ्गैलाकङ्कोलि; लवङ्गैलाकक्कोल.
[^४]G. प्रधान.
[^५]G. विविधश्वापद.
[^६]G. कविकथा.
[^७]G.कु
ल.
 
४ प्रधान. ५ विविधश्वापद.
 
पाठा०-१ गान्धिक. २ लेपम.
६ कबिकथा.कुल,