2023-12-31 06:25:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

S
 
कादम्बरी ।
 
[ कथायाम्-
नक्षत्रमालालंकृतम्, प्रभातसमयमिव पूर्वदिग्भागरागानुमेय मित्रो- दयम्, [^१]गन्धिकभवनमिव
स्नानधूप विलेपै [^२]पवर्ण कोजनज्ज्वलम्, ताम्बूलिकभवनमिव कृतलवली लविङ्गैल कङ्कोलपत्रसंचयम्,
प्रथ-
मवेश्यासमागममिवाविदितहृदयाभिप्रायचेष्टाविकारम्, कामुकजनमिव बहुचाटुसंलाप-

२००
 

 
सुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशतसहस्रालंकरणकृतलेख्य-

पत्रसंचयम्, धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमिव श्वापदद्विजोपघुष्टम्, रामा-

यणमिव कैपिकथासमाकुलम्, माद्रीकुलमिव नकुलालंकृतम्, संगीतभवनमिवानेकस्थानांव-

स्थापितमृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्, ज्यौतिषमिव ग्रहमोक्षकलाभागनिपुणम्,
 

 

 

 

 

 
पेक्ष आसवपात्राणि मद्यपात्राणि । 'मध्वासवो माधवको मैरेये सीधुरासवः' इति कोशः । निशा रात्रिस्तस्याः

समयः कालस्तमित्र सप्तविंशप्तिभिर्मुक्ताफलैः रचिता नक्षत्रमालास्ताभिरनेकाभिरलंकृतं विभूषितम् । पक्षे-

sनेका नक्षत्रमाला ग्रहश्रेणिर्यस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीत्या भागेनैक-

देशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उदयोऽभ्युन्नतिर्यस्मिन् । स्तोकसंबन्धेन समागतानामपि

सुहृदामतिगौरवम् का कथा बहुसंबन्धेनागतानामिति भावः । पक्षे पूर्वदिग्भागे प्राच्येकदेशे यो रागस्ते -

नानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक औषधादिविकृत्तस्य भवनं गृहं तद्वदिव

स्नानानन्तरं केशानां धूपः, विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्वलं निर्मलमियभङ्गश्लेषः । ताम्बूलि

कानां नागवल्लीदलविक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवल्ली विशेषः लविङ्गं देवकुसुमम्,

एला चन्द्रवाला, कङ्कोलः कोशफलम् पैंत्र जातिफलपत्रम्, एतेषां संचयः संनिधिर्यस्मिन्नित्यभङ्गश्लेषः ।

प्रथम आद्यो यो वेश्ययां वारयोषिता समागमस्तमिव । अतिगाम्भीर्यादविदितोऽज्ञातो हृदयाभिप्रायश्चित्ता:

यो यस्यैवविधस्य । अर्थाद्राज्ञः । चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतिर्यस्मिन्नित्यभङ्गश्लेषः ।

कामुकः कामयिता यो जनस्तमित्र बहूनि चाहूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परस्परालापाः सुभाषितानां

सूक्तानां रसास्वादास्तेषु दत्तारत लशब्दा अभीष्टावबोधनेन परस्परकरतालाहतयो यस्मिन् । पक्षे यैरिति तृती-

याबहुव्रीहिः । धूर्ती द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशतसहस्रालंकरणमलंकृतिस्तत्र कृतो

लेख्यपत्रसंचयो यस्मिन् अवरोधजनस्वः मध्ये यदलंकारादिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीक्रियत

इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति । धूर्तैरपि सर्व पत्रलेख्यपूर्वकं गृह्यत इति तदुपमानम् ।

धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनकमित्यभङ्गश्लेषः ।

महच्च तद्वनं च महावनं तदिव श्वापदा वने व्याघ्रादयो गृहे मृगयार्थं संरक्षिताश्च द्विजाः पक्षिणो ब्राह्मणाश्च

तैरुपघुष्टं शदितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षितानां कपीनां वानराणां कथा वार्तास्ताभिः

समाकुलम् । पक्षे कपिकथा हनूमत्कथा । माद्रीकुलं माद्री पाण्डुपत्नी तस्याः कुलं तद्वदिव नकुलः सर्पहा तेना-

लंकृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः । संगीत प्रेक्षणार्थं प्रयुक्तस्य

गीतनृत्यवाद्यत्रयस्य भवनमिवानेकस्थानेष्ववस्थापितं न्यस्तं मृदां मृत्तिकानामङ्गं यस्मिन् । पक्षे मृदङ्गानि

मुरजानि । रघुकुलं दशरथकुलं तद्वदिव । भरतः शैलुषस्तस्य गुणेन कलाकौशलेनानन्दितम् । पक्षे भरतस्य

दाशरथेर्गुणो व्रतपालनलक्षणः । ज्यौतिषमिव ज्योतिः शास्त्रमिव ग्रह उद्धतनृपाणां ग्रहणं, मोक्षस्तेषामेव
 

 
"
 

 
टिप्प० - 1 गन्धद्रव्याणि विक्रीणीते स गान्धिकः ( गन्धी 'सुगन्धी' इति ख्यातः ) । 2 पर्णम्

( नागवल्लीदलम् ) इत्यर्थः । 3 दीयमानाय ( दातव्याय:) मणिशतसहस्राय अलंकरणाय च कृतः लेख्य

पत्रसंचय: 'एतावत्काले दास्यामि' इति ऋणलेख्यपत्रसमूहो यस्मिन्नित्यर्थः ।
 

 
३ लवलाककोलि; लवङ्गैलाककोल.
 

 
४ प्रधान. ५ विविधश्वापद.
 

 
पाठा०-१ गान्धिक. २ लेपम.

६ कबिकथा.कुल,