2023-12-31 05:53:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राजभवनम् [^१]
 
पूर्वभागः ।
 
संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव [^२]भयान्तः- प्रविष्टसपक्ष [^३]भूभृत्सहस्रसंकुलम्,
उषानिरुद्धसमागममिव [^४]चित्रलेखादर्शित विचित्रस कलत्रिभुवनाकारम्, बलियज्ञमिव पुराण-
पुरुषवामनाधिष्ठिताभ्यन्तरम्, शुक्लपक्षप्रदोषमिव विततश-
शिकिरणकलापर्धे [^५]धवलाम्बरविता-
नम्, नँ[^६]नरवाहनदन्तकथे- वान्तःसंवर्धित प्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थ- मि
सद्योऽनेक पुरुषप्राप्ताभिषेकफलम्, प्राग्वंशमिव नागानासवपा-
त्रसंकुलम्, निशासमयमिवानेक-
19
 
१९९
 
>
 
>
 

 
[ टि ]--
भावः । पक्षे शूरी नाम विष्णोः पितामहः, भीमो नाम कश्चित्- त्, पुरुषोत्तमो विष्णुः, बलो बलदेवः
एभिः परिपालितं लालितम् । जरासिन्धोरिति शेषः । व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आद्यः,
अयं
मध्यमोऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेक आदेशकारकाः
आज्ञाका- रकास्तै राख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदानक्रिया तस्यां यो व्ययस्तस्य प्रपञ्चो विस्तार-
स्तत्र सुस्थितम् । सुखेनावस्थि- मित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना
प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशा- स्तिसृचतसृप्रभृतयः, कारकाणि कर्त्रादी न्याख्यातानि
नव दश वा, संप्रदानं चतुर्थीकारकम् क्रिया भ्वादिः, अव्ययान्युच्चैरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो
यस्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तः प्रविष्टं मध्ये समागतं यत्सपक्षाणां परि [^1]च्छदोपे- तानां भूभृतां
राज्ञां सहस्रं तेन संकुलम् । पक्षे सपक्षाः पक्षयुक्ता भूभृतः पर्वताः । शेषं पूर्ववत् । उषेति । उषा बाणासुरपुनीत्री,
अनि- रुद्धः प्रद्युम्नतनयः, तयोः समागमः संबन्धस्तदिव । तस्याः सखी- भूता चित्रलेखा तयानिरुद्धोत्कण्ठितामुषां
प्रज्ञानाय चित्रे त्रिभुवन- मालिख्य दर्शित मिति पौराणिकी कथा । तामधिकृयाह – चित्रेलि
ति
चित्रलेखाभिरालेख्यपङ्क्तिभिर्दर्शितः प्रकाशितो विचित्रो नाना- विधः सकलः समप्ग्रस्त्रिभुवनस्य त्रिविष्टपस्याकार
आकृतिर्येन तत् । पक्षे चित्रलेखा सखी । शेषं पूर्ववत् । बलिर्नृपस्तेन कृतो यज्ञो याग- स्तमिव पुराणपुरुषे
र्वृद्धपुरुषैर्वामनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्य- भागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनाव-
तारः । शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । विततो विस्तीर्णो यः शशि-
किरणकलापस्तद्वद्धवलं यद- म्बरं वस्त्रं तस्य वितानमुल्लोचो यस्मिन् । पक्षे शशिकिरणकलापेन धवलाम्बरमेव वितानं
यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तः संवर्धिता अन्तःपुरे वृद्धि प्राप्ता
धिं प्राप्ता
याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः । स्वार्थे कः । 'काम्यच्च' इति पूर्वस्येकारः
ताभिर्गन्धर्वाणां देवगायकानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तः संवर्धिता प्रियदर्शनानाम्नी राजदारि- का नरवाहै-
[^2]हनपुत्री गन्धर्वदत्तश्च तस्या गान्धर्वशिक्षकोपाध्याय- स्तयोश्चिरविरहितयोः समागमोत्कण्ठा यस्मिन् । महातीर्थं
वाराण- स्यादि तद्वदिव सद्यस्तत्कालमनेकैः पुरुषैः प्राप्तं लब्धमभिषेकेण फलं शरीरशै [^3]शुद्धिलक्षणं यस्मिन् ।
पक्षेऽनेकपुरुषैः प्राप्तमभि- षेकात्स्नानात्स्वर्गादिपदबन्धफलं यस्मात् । प्रागिति । प्राग्वंशो हवि- र्गृहात्प्राग्गृहम् ।
यज्ञगृहमित्यर्थः । तमिव नानाविधो य [^4]आसवः सोमवल्ल्यासवस्तेषां पात्राणि भाजनानि तैः संकुलं व्याप्तम् ।
 
KADA
 
टिप्प० -

 
 
[^
1]F. भयेन शत्रुभयेन अन्तः प्रविष्टानां स्वपक्षीयजनसहितानां भूभृतां राज्ञां सहस्रेण संकु-
लमिति राजभवनपक्षेऽर्थः ।
[^
2]F. इदमप्यज्ञानम्, अन्तःसंवर्धिता प्रियदर्शना ( परमसुन्दरी ) गन्धर्व-
दत्ताख्याया (सागरदत्तस्य कन्या ) तस्या उत्कण्ठा ( नरवाहन- दत्तस्य कृते ) यस्याम् इत्यर्थः । तथाहि कथा-
सरित्सागर: - 'राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः । तस्य गन्धर्वदत्ताख्या सुता- स्ति न्यक्कृता
प्सराः ॥' सा हि बन्दिमुखान्नरवाहनदत्तस्य गुणान् श्रुत्वा तस्मिनुष्कत्कुण्ठिता बभूव । पाठोsपि - 'नरवाहन-
दत्तकथेव' इत्येवोचितः ।
[^
3]F. अनेक पुरुषैर्नानादेशीयैः राजपुरुषैः प्राप्तम्, अभिषेक (राज्याभिषेक ) रूपं
फलं यस्मात् । अर्थात् यस्माद्राजभवनात् बहुभिः राजभिः राजत्वं प्राप्तम् ।
[^
4]F. नानाविधैः सवस्य यज्ञस्य
पात्रैः स्रुक्स्रुवादिभिः संकुलमित्यर्थो वाच्यः ।
 
पाठा०
-
 
[^१]G
.
 
•१
संप्रदानापादान.
[^
]G. भयात्प्रविष्ट .
[^
]G. भूमिभृत् .
[^
]G. विचित्रलेखा .
[^
]G. धवलित .
[^
]G. नरवाहनदत्तचरितमिव
 
.