This page has not been fully proofread.

राजभवनम् ]
 
पूर्वभागः ।
 
संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव भयान्तः प्रविष्टसपक्षभूभृत्सहस्रसंकुलम्,
उषानिरुद्धसमागममिव चित्रलेखादर्शित विचित्रस कलत्रिभुवनाकारम् बलियज्ञमिव पुराण-
पुरुषवामनाधिष्ठिताभ्यन्तरम् शुक्लपक्षप्रदोषमिव विततशशिकिरणकलापर्धेवलाम्बरविता-
नम्, नँरवाहनदन्तकथेवान्तःसंवर्धित प्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थमिक
सद्योऽनेक पुरुषप्राप्ताभिषेकफलम्, प्राग्वंशमिव नागासवपात्रसंकुलम्, निशासमयमिवानेक-
19
 
१९९
 
>
 
>
 
भावः । पक्षे शूरी नाम विष्णोः पितामहः, भीमो नाम कश्चित् पुरुषोत्तमो विष्णुः, बलो बलदेवः
एभिः परिपालितं लालितम् । जरासिन्धोरिति शेषः । व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आद्यः,
अयं
मध्यमोऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेक आदेशकारकाः
आज्ञाकारकास्तै राख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदानक्रिया तस्यां यो व्ययस्तस्य प्रपञ्चो विस्तार-
स्तत्र सुस्थितम् । सुखेनावस्थितमित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना
प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशास्तिसृचतसृप्रभृतयः, कारकाणि कर्त्रादी न्याख्यातानि
नव दश वा, संप्रदानं चतुर्थीकारकम् क्रिया भ्वादिः, अव्ययान्युच्चैरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो
यस्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तः प्रविष्टं मध्ये समागतं यत्सपक्षाणां परिच्छदोपेतानां भूभृतां
राज्ञां सहस्रं तेन संकुलम् । पक्षे सपक्षाः पक्षयुक्ता भूभृतः पर्वताः । शेषं पूर्ववत् । उषेति । उषा बाणासुरपुनी,
अनिरुद्धः प्रद्युम्नतनयः, तयोः समागमः संबन्धस्तदिव । तस्याः सखीभूता चित्रलेखा तयानिरुद्धोत्कण्ठितामुषां
प्रज्ञानाय चित्रे त्रिभुवनमालिख्य दर्शित मिति पौराणिकी कथा । तामधिकृयाह – चित्रेलि
चित्रलेखाभिरालेख्यपङ्क्तिभिर्दर्शितः प्रकाशितो विचित्रो नानाविधः सकलः समप्रस्त्रिभुवनस्य त्रिविष्टपस्याकार
आकृतिर्येन तत् । पक्षे चित्रलेखा सखी । शेषं पूर्ववत् । बलिर्नृपस्तेन कृतो यज्ञो यागस्तमिव पुराणपुरुषे
र्वृद्धपुरुषैर्वामनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्यभागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनाव-
तारः । शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । विततो विस्तीर्णो यः शशि-
किरणकलापस्तद्वद्धवलं यदम्बरं वस्त्रं तस्य वितानमुलोचो यस्मिन् । पक्षे शशिकिरणकलापेन धवलाम्बरमेव वितानं
यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तः संवर्धिता अन्तःपुरे वृद्धि प्राप्ता
याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः । स्वार्थे कः । 'काम्यच्च' इति पूर्वस्येकारः ।
ताभिर्गन्धर्वाणां देवगायकानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तः संवर्धिता प्रियदर्शनानाम्नी राजदारिका नरवाहै-
नपुत्री गन्धर्वदत्तश्च तस्या गान्धर्वशिक्षकोपाध्यायस्तयोश्चिरविरहितयोः समागमोत्कण्ठा यस्मिन् । महातीर्थं
वाराणस्यादि तद्वदिव सद्यस्तत्कालमनेकैः पुरुषैः प्राप्तं लब्धमभिषेकेण फलं शरीरशैद्धिलक्षणं यस्मिन् ।
पक्षेऽनेकपुरुषैः प्राप्तमभिषेकात्स्नानात्स्वर्गादिपदबन्धफलं यस्मात् । प्रागिति । प्राग्वंशो हविगृहात्प्राग्गृहम् ।
यज्ञगृहमित्यर्थः । तमिव नानाविधो य आसवः सोमवल्यासवस्तेषां पात्राणि भाजनानि तैः संकुलं व्याप्तम् ।
 
KADA
 
टिप्प० - 1 भयेन शत्रुभयेन अन्तः प्रविष्टानां स्वपक्षीयजनसहितानां भूभृतां राज्ञां सहस्रेण संकु-
लमिति राजभवनपक्षेऽर्थः । 2 इदमप्यज्ञानम्, अन्तःसंवर्धिता प्रियदर्शना ( परमसुन्दरी ) गन्धर्व-
दत्ताख्याया (सागरदत्तस्य कन्या ) तस्या उत्कण्ठा ( नरवाहनदत्तस्य कृते ) यस्याम् इत्यर्थः । तथाहि कथा-
सरित्सागर: - 'राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः । तस्य गन्धर्वदत्ताख्या सुतास्ति न्यकृता
प्सराः ॥' सा हि बन्दिमुखान्नरवाहनदत्तस्य गुणान् श्रुत्वा तस्मिनुष्कण्ठिता बभूव । पाठोsपि - 'नरवाहन-
दत्तकथेव' इत्येवोचितः । 3 अनेक पुरुषैर्नानादेशीयैः राजपुरुषैः प्राप्तम्, अभिषेक (राज्याभिषेक ) रूपं
फलं यस्मात् । अर्थात् यस्माद्राजभवनात् बहुभिः राजभिः राजत्वं प्राप्तम् । 4 नानाविधैः सवस्य यज्ञस्य
पात्रैः स्रुक्स्रुवादिभिः संकुलमित्यर्थो वाच्यः ।
 
पाठा०.
 
•१ संप्रदानापादान. २ भयात्प्रविष्ट ३ भूमिभृत् ४ विचित्रलेखा ५ धवलित ६ नरवाहनदत्तचरितमिव