2023-12-30 15:57:15 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

S
 
कादम्बरी ।
 
प्रकटमनो [ कथायाम्-
प्रकटमनो
^१]रमारम्भम्, दिवसकरोदय मिवोल्लसत्पद्माकरकम- लामोदम्, उष्ण किरणमित्र निज-
लक्ष्मीकृत कमलोपकारम्, नाटकमिव - मिव [^२]पताकाङ्कशोभितम्, शोणितपुरमिव बाणयोग्यावासोपे-
पे
तम्, पुराणमिव [^३]विभागा [^४]वस्थापित सकलभुवनकोशम्, [^५]संपूर्णचन्द्रोदयमिव मृदुकरसहस्रसं-
वर्धितरत्नालयम्, दिग्गज- मिवाविच्छिन्नमहादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकव्यव-

हारकारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमिव महाभोगिमण्डल- सह [^६]स्राधिष्ठित प्रकोष्ठम्,
महाभारतमिवानन्तगीताकर्णनानन्दि- तनरम्, यदुवंशमिव कुलक्रमागतशूभीमपुरुषोत्तमबल [^७]परि-
बलपॅरि

पालितम्, व्याकरणमिव प्रथममध्यमोत्तमपुरुषविभक्तिस्थितानेका देशकारकाख्यात-
."
 

 
[ टि ]--
मारम्भः प्रारम्भो यस्मिन्, पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्य सूर्यस्योदय
उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेषामा- मोदः परिमलो यस्मिन्नित्य-
"
भङ्गश्लेषः । यद्वोह्रल्लसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेषास्तेषामामोदः परिमलो यस्मिन् । उष्ण-
किरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कमलव [^1]लवज्जलजवत्कमलैर्वोपकार उपकृतिः पूजा
वा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशरूपो येन तम् ।
नाटकं ताण्डवं तंद्वदिव पताका वैजयन्ती तस्या अङ्को मध्यं तेन शोभितम् । पक्षे पताका हस्तविन्यासः, अको

नाटकैकदेशः ताभ्यां शोभितं विराजितम् । शोणितपुरं बाणनाम्नो दैत्यस्य नगरं तच्च 'देवीकोट' इति प्रसिद्धं
तद्वदिव वाबाणाः शरास्ते- षां योग्यो य आवासस्तेनोपेतं सहितम् । पक्षे बाणो दैत्यस्तदावासो- पेतमित्यर्थः । पुरा-
जे
णेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्न- तयावस्थापितो रक्षितः सकलभुवनस्य समग्र विष्टपस्य कोशो
द्रव्य- समूहो यस्मिन् । पक्षे विभागेनावस्थापितो ज्ञापितः सकलभुवन- कोशः समप्रभुवनमण्डलं येन । संपूर्णेति ।
संपूर्ण: समग्रो यश्चन्द्र- स्तस्योदयस्तद्वदिव मृदवः स्वल्पा ये करा राजदेयद्रव्याणि तेषां सहस्रं तेन संवर्धितानि
वृद्धिधिं प्राप्तानि यानि [^2]रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहस्रं तेन संव-
वि
र्धितो वेलां ग्राहितो रत्नालयः समुद्रो येन स तम् । दिगिति । दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्न-
मत्रुटितं महादानस्य महँ[^3]महद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतानं मदसंततिः । शेषं पूर्ववत् ।
ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समग्र विष्टपस्य व्यवहारो व्यवहरणं तस्य कारणं निदानं
तदर्थमुत्पन्नं यद्धिरण्यं सुवर्णं तदेव गर्नेभे मध्ये यस्य तत् । पक्षे हिरण्यगर्भो विश्वरेताः । शेषं पूर्ववत् । ईशा-
नेति । ईशान ईश्वरस्तस्य बाहुवनं भुजवनम् । सरलत्वाद्वाबाहुत्वाच्च नृत्यारम्भ उर्वीकृतत्वेन च वनोपमानम् ।
तद्वदिव । महेति । महाभोगिनां नृणां मण्डलसहस्रैरधिष्ठित आश्रितः प्रकोष्ठो गृहैकदेशे यस्मिन् (स्य ) । पक्षे
महाभोगिनां महासर्पाणां मण्डलसहस्रैरधिष्ठितः प्रकोष्ठः कलाचिका यस्मिन् (स्य ) । महानाभोगो विद्यते येषा-
मेव॑वंविधानां मण्डलानां खड्गानां सहस्रं तेनाधिष्ठितौ प्रकोष्ठौ यस्येति वा । महेति । महाभारतं शास्त्रं
तदिवानन्तान्य संख्यानि गीतानि गानानि तेषा- माकर्णनं श्रवणं तेनानन्दिता हर्षिता नरा मानवा यस्मिन् । पक्षे

ऽनन्तः परमेश्वरस्तस्य '[^4]गीतं स्तुतिस्तदा कर्णनेनानन्दितो नरो- ऽर्जुनो यस्मिन् । यदुवंशमिव यदुर्नृपतिस्तस्य वंशः
संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरु
षेषु मुख्याः, तेषां बलेन सैन्येन परि- पालितं रक्षितम् । रजन्यां चतुष्किका प्रदानेन तद्रक्षां कुर्वन्तीति
 
·
 
टिप्प० -

 
[^
1]F. हन्त धिक् । निजलक्ष्म्या निजशोभया कृतः कमलाया:
( राजलक्ष्म्याः ) वृद्धिरूपः
शोभारूपो वा उपकारो येन तत् । ईदृ- शेन राजभवनेन राजलक्ष्म्याः शोभा भवतीति भवनेनोपकारकृतः ।

[^
2]F. करसहस्रैः संवर्धिताः रखात्नालयाः धनागाराणि यस्मिन्निति स्पष्टोऽर्थः
[^
3]F. महावितरणस्येत्युचितम् ।

[^
4]F. अनन्तस्य कृष्णस्य या गीता (अष्टादशाध्यायात्मिका ) तथा आनन्दित इत्यर्थो वक्तव्यः ।
 
@
 
पाठा० –

 
[^
]G. रम्भाभोगम्.
[^
]G. प्रकटपताका .
[^
]G. यथाविभाग .
[^
]G. अवस्थित .
[^
]G. पूर्ण .
[^
]G. अध्यासित प्रकोष्ठमिव.

[^
]G. पालितम्.