कादम्बरी /231
This page has not been fully proofread.
S
कादम्बरी ।
[ कथायाम्-
प्रकटमनोरमारम्भम्, दिवसकरोदय मिवोल्लसत्पद्माकरकमलामोदम्, उष्ण किरणमित्र निज-
लक्ष्मीकृत कमलोपकारम्, नाटकमिव पताकाङ्कशोभितम्, शोणितपुरमिव बाणयोग्यावासो-
पेतम्, पुराणमिव विभागाव स्थापित सकलभुवनकोशम्, संपूर्णचन्द्रोदयमिव मृदुकरसहस्रसं-
वर्धितरत्नालयम्, दिग्गजमिवाविच्छिन्नमहादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकव्यव-
हारकारणोत्पन्नहिरण्यगर्भम् ईशानबाहुवनमिव महाभोगिमण्डलसहस्राधिष्ठित प्रकोष्ठम्,
महाभारतमिवानन्तगीताकर्णनानन्दितनरम्, यदुवंशमिव कुलक्रमागतशूर भीमपुरुषोत्तम-
बलपॅरिपालितम्, व्याकरणमिव प्रथममध्यमोत्तमपुरुषविभक्तिस्थितानेका देशकारकाख्यात-
."
मारम्भः प्रारम्भो यस्मिन्, पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्य सूर्यस्योदय
उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेषामामोदः परिमलो यस्मिन्नित्य-
"भङ्गश्लेषः । यद्वोह्रसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेषास्तेषामामोदः परिमलो यस्मिन् । उष्ण-
किरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कमलवजलजवत्कमलैर्वोपकार उपकृतिः पूजा
वा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशरूपो येन तम् ।
नाटकं ताण्डवं तंद्वदिव पताका वैजयन्ती तस्या अङ्को मध्यं तेन शोभितम् । पक्षे पताका हस्तविन्यासः, अको
नाटकैकदेशः ताभ्यां शोभितं विराजितम् । शोणितपुरं बाणनाम्नो दैत्यस्य नगरं तच्च 'देवीकोट' इति प्रसिद्धं
तद्वदिव वाणाः शरास्तेषां योग्यो य आवासस्तेनोपेतं सहितम् । पक्षे बाणो दैत्यस्तदावासोपेतमित्यर्थः । पुरा-
जेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्नतयावस्थापितो रक्षितः सकलभुवनस्य समग्र विष्टपस्य कोशो
द्रव्यसमूहो यस्मिन् । पक्षे विभागेनावस्थापितो ज्ञापितः सकलभुवनकोशः समप्रभुवनमण्डलं येन । संपूर्णेति ।
संपूर्ण: समग्रो यश्चन्द्रस्तस्योदयस्तद्वदिव मृदवः स्वल्पा ये करा राजदेयद्रव्याणि तेषां सहस्रं तेन संवर्धितानि
वृद्धि प्राप्तानि यानि रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहस्रं तेन संव-
वितो वेलां ग्राहितो रत्नालयः समुद्रो येन स तम् । दिगिति । दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्न-
मत्रुटितं महादानस्य महँद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतानं मदसंततिः । शेषं पूर्ववत् ।
ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समग्र विष्टपस्य व्यवहारो व्यवहरणं तस्य कारणं निदानं
तदर्थमुत्पन्नं यद्धिरण्यं सुवर्णं तदेव गर्ने मध्ये यस्य तत् । पक्षे हिरण्यगर्भो विश्वरेताः । शेषं पूर्ववत् । ईशा-
नेति । ईशान ईश्वरस्तस्य बाहुवनं भुजवनम् । सरलत्वाद्वाहुत्वाच्च नृत्यारम्भ उर्वीकृतत्वेन च वनोपमानम् ।
तद्वदिव । महेति । महाभोगिनां नृणां मण्डलसहस्रैरधिष्ठित आश्रितः प्रकोष्ठो गृहैकदेशे यस्मिन् (स्य ) । पक्षे
महाभोगिनां महासर्पाणां मण्डलसहस्रैरधिष्ठितः प्रकोष्ठः कलाचिका यस्मिन् (स्य ) । महानाभोगो विद्यते येषा-
मेव॑विधानां मण्डलानां खड्गानां सहस्रं तेनाधिष्ठितौ प्रकोष्ठौ यस्येति वा । महेति । महाभारतं शास्त्रं
तदिवानन्तान्य संख्यानि गीतानि गानानि तेषामाकर्णनं श्रवणं तेनानन्दिता हर्षिता नरा मानवा यस्मिन् । पक्षे
ऽनन्तः परमेश्वरस्तस्य 'गीतं स्तुतिस्तदा कर्णनेनानन्दितो नरोऽर्जुनो यस्मिन् । यदुवंशमिव यदुर्नृपतिस्तस्य वंशः
संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरु
षेषु मुख्याः, तेषां बलेन सैन्येन परिपालितं रक्षितम् । रजन्यां चतुष्किका प्रदानेन तद्रक्षां कुर्वन्तीति
·
टिप्प० - 1 हन्त धिक् । निजलक्ष्म्या निजशोभया कृतः कमलाया: ( राजलक्ष्म्याः ) वृद्धिरूपः
शोभारूपो वा उपकारो येन तत् । ईदृशेन राजभवनेन राजलक्ष्म्याः शोभा भवतीति भवनेनोपकारकृतः ।
2 करसहस्रैः संवर्धिताः रखालयाः धनागाराणि यस्मिन्निति स्पष्टोऽर्थः 3 महावितरणस्येत्युचितम् ।
4 अनन्तस्य कृष्णस्य या गीता (अष्टादशाध्यायात्मिका ) तथा आनन्दित इत्यर्थो वक्तव्यः ।
@
पाठा० – १ रम्भाभोगम्. २ प्रकटपताका ३ यथाविभाग ४ अवस्थित ५ पूर्ण ६ अध्यासित प्रकोष्ठमिव.
७ पालितम्.