2023-12-29 07:47:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राजभवनम् ]
 
पूर्वभागः ।
 
'
कृतकूजितरुताभिर्भवन [^१]हंस मालिकाभि [^२]र्धवैलिताङ्गणेन धृतधौतवलदुकूलोत्तरीयैः कलधौतद-
ण्डावलम्बिभिः पै[^३]पलित- पाण्डुरमौलि [^४]भिराधारमयैरिव मै[^५]मर्यादामयैरिव मङ्गलम-
यैरिव गम्भीरा -
कृतिभिः स्वभावधीरैरुष्णीषिभिर्वयः परिणामेऽपि [^६]जरत्सि सिंहै रिवापरित्यक्तसत्त्वावष्टम्भैः, कञ्च-
चुकिभिरधिष्ठितेन समुपेताभ्यन्तरम्, [^७]जलधरसनाथमिव कृष्णागुरुधूमपटलैः, सनीहारमिव
यामकुञ्जरघटाकरसीकरैः, सनिशामिव तमालवीथि- कान्धकारैः सवा, सबालातपमिव रक्ताशोकैः,
सतारागणमिव मुक्ता- कलापैः, सवर्षासमयमिव धारागृहै:, सतडिल्लतमिव हेममयी भि- र्मयूरय-
ष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितद्ण्डपाणिप्रतीहारग-
णम्, उत्कृष्टर् [^८]कविगद्यमिव विविधवर्णश्रेणि [^९]प्रतिपाद्यमा [^१०]नाभिनवार्थसंचयम्, अप्स- रोगणमिव
 
,
 
,
 
,
 
*
 

 
[ टि ]--
स.तेन । धृतेति । धृतं धारितं धौतं क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौ-
तस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः । अतिवृद्धत्वाद्दण्डमव- लम्ब्य स्थायिभिरित्यर्थः
पलितेति । पलितं पाण्डुराः कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयैरिव
तद्वि- कारैरिव, मर्यादा स्थितिस्तन्मयैरिव, मङ्गलं श्रेयस्तन्मयैरिव गम्भी- राऽलब्धमध्याकृतिराकारो येषां तैः ।
अत एव स्वभावेनानुपाधिकेन धीरा धैर्यन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुष्णीषिभिः । वयः परि-
णामेऽप्यतिवृद्धत्वेऽपि जरत्सिसिंहैरिव वृद्धहर्यक्षैरिवापरित्य- क्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं
तस्यावष्टम्भ आधारो यैरेवंविधैः कञ्चुकिभिः सौविदह्रैल्लैरधिष्ठितेनानि । अङ्गण[^1]विशे- षेणम् । एवंविधेनान्तः-
पुरेण समुपेतं सहितमभ्यन्तरं मध्यभागो यस्येति गृहविशेषणमिति भावः । प्रकारान्तरेण गृहं वर्णयन्नाह --

जलेति । जलधरसनाथमिव मेघ [^2]सदृशमिव । कैः । कृष्णा- गुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः ।
सनीति । नीहारेण हिमेन सह वर्तमानसिमिव यामकुञ्जराश्चतुष्किकांका [^3]गत- हस्तिनस्तेषां घटाः समूहास्तेषां
कराः शुण्डास्तेषां शीकराः पृषता- स्तैः सनीति । निशा रात्रिस्तया सह वर्तमानमिव तमालानां तापिच्छानां
वीथिका पङ्किक्तिस्तस्या अन्धकारैस्तिमिरैः । सेति । सह बालातपेन तरुणालोकेन वर्तमानमिव रक्ता येऽशोकाः
फे

कङ्के
ल्लयस्तैः । सेति । सह तारागणेन नक्षत्रसमूहेन वर्तमानमिव । कैः । मुक्ताकलापैर्मुक्ताप्रालम्बैः । सवर्षेति ।
सह वर्षासमयेन प्रावृट्समयेन वर्तमानमिव । कैः । धारागृहैर्यन्त्रगृहैः । सेति । सह तडिल्लितया विद्युल्लतया
वर्तमानमिव । काभिः । हेममयीभिः सुवर्णनिर्मितैर्मयूरयष्टिभिः कलापिसमूहोपवेशनदण्डैः । सेति । सह गृह-
दैवतेन वर्तमानमिव । काभिः । शालभञ्जिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येश्वरस्य भवनं गृहं तद्व-
दिव द्वारावस्थिता दण्डपा- णयः प्रतीहारगणा यस्मिन् । ईश्वरपक्षे कूष्माण्डका [^4]दयो गणाः । उत्कृष्टमलंकारा-
द्युपेतं यत्कविगद्यम [^5]च्छन्दं तद्वदिव । उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ये वर्णा ब्राह्मणा-

दयः, एकमुख्यसजातीयसमूहश्रेणिः, ताभिः प्रतिपाद्यमान [^6]उत्पाद्यमानोऽभिनवः प्रत्यप्ग्रोऽर्थसंचयो द्रव्यसमूहो
यस्मिन् । पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपङ्किक्तिभिः प्रतिपाद्यमानः कथ्य- मानोऽभिनवोऽश्रुतपूर्वोऽर्थसंचयोऽभि
धेयसमूहो यस्मिन् । अप्सर- सां तिलोत्तमादीनां गणः समुदायस्तमिव । प्रकटः स्पष्टो मनसो [^7]रमाणां सुन्दराणा-
टिप्प० -

 
[^
1]F. अयमपि प्रलापः । न किञ्चिदेतत् । अधिष्ठितेन अन्तःपुरेण समुपेताभ्यन्तरमित्यन्वयो
बोध्यः ।
[^
2]F. मेघसहितमिति बोध्यम् ।
[^
3]F. अयमप्यस्पष्टोऽर्थः । प्रतिप्रहरं यामिकरूपेण परिवर्तनीयाः

कुञ्जरा यामकुञ्जरा इत्यर्थः ।
[^
4]F. द्वारावस्थिता दण्डपाणिः ( भैरवः ) गणाः प्रमथांश्च यस्य तत् इति
शिवभवनपक्षेऽर्थः ।
[^
5]F. छन्दोरहितं गद्यकाव्यमिवेत्यर्थीथो वाच्यः ।
[^
6]F. उपहाररूपेण दीयमान इत्यर्थ
उचितः ।
[^
7]F. प्रलापोयम्, प्रकटः ( सर्वविदितः ) मनोरमः आरम्भः कार्यो- पक्रमो यस्मिन् तदित्यर्थः ।
 

 
पाठा- -

 
[^
]G. कलहंसमालाभिः .
[^
]G. धवलीकृताजिरेण धौत .
[^
]G. पलितपाकपाण्डुर; पलितपाण्डु.
[^
]G. आचारमयैः
.
[^
]G. विनयमयैरिव मर्यादा.
[^
]G. जरीजरत् .
[^
]G. सजलजलधर .
[^
]G. कविकाव्यम्.
[^
]G. श्रेणी, .
[^
१०]G. अनेकाभिनव.