कादम्बरी /230
This page has not been fully proofread.
राजभवनम् ]
पूर्वभागः ।
'कृतकूजितरुताभिर्भवनहंस मालिकाभिर्धवैलिताङ्गणेन धृतधौतथवलदुकूलोत्तरीयैः कलधौतद-
•ण्डावलम्बिभिः पैलितपाण्डुरमौलिभिराधारमयैरिव मैर्यादामयैरिव मङ्गलमयैरिव गम्भीरा -
कृतिभिः स्वभावधीरैरुष्णीषिभिर्वयः परिणामेऽपि जरत्सि है रिवापरित्यक्तसत्त्वावष्टम्भैः कञ्च-
किभिरधिष्ठितेन समुपेताभ्यन्तरम्, जलधरसनाथमिव कृष्णागुरुधूमपटलैः सनीहारमिव
यामकुञ्जरघटाकरसीकरैः सनिशामिव तमालवीथिकान्धकारैः सवालातपमिव रक्ताशोकैः,
सतारागणमिव मुक्ताकलापैः सवर्षासमयमिव धारागृहै, सतडिल्लतमिव हेममयी भिर्मयूरय-
ष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितद्ण्डपाणिप्रतीहारग-
णम्, उत्कृष्टर्कविगद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमानाभिनवार्थसंचयम्, अप्सरोगणमिव
,
,
,
*
स.तेन । धृतेति । धृतं धारितं धौतं क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौ-
तस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः । अतिवृद्धत्वाद्दण्डमवलम्ब्य स्थायिभिरित्यर्थः ।
• पलितेति । पलितं पाण्डुराः कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयैरिव
तद्विकारैरव, मर्यादा स्थितिस्तन्मयैरिव, मङ्गलं श्रेयस्तन्मयैरिव गम्भीराऽलब्धमध्याकृतिराकारो येषां तैः ।
अत एव स्वभावेनानुपाधिकेन धीरा धैर्यनन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुष्णीषिभिः । वयः परि-
णामेऽप्यतिवृद्धत्वेऽपि जरत्सिहैरिव वृद्धहर्यक्षैरिवापरित्यक्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं
तस्यावष्टम्भ आधारो यैरेवंविधैः कञ्चुकिभिः सौविदह्रैरधिष्ठितेनानि । अङ्गणविशेषेणम् । एवंविधेनान्तः-
पुरेण समुपेतं सहितमभ्यन्तरं मध्यभागो यस्येति गृहविशेषणमिति भावः । प्रकारान्तरेण गृहं वर्णयन्नाह --
जलेति । जलधरसनाथमिव मेघसदृशमिव । कैः । कृष्णागुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः ।
सनीति । नीहारेण हिमेन सह वर्तमानसिव यामकुञ्जराश्चतुष्किकांगतहस्तिनस्तेषां घटाः समूहास्तेषां
कराः शुण्डास्तेषां शीकराः पृषतास्तैः सनीति । निशा रात्रिस्तया सह वर्तमानमिव तमालानां तापिच्छानां
वीथिका पङ्किस्तस्या अन्धकारैस्तिमिरैः । सेति । सह बालातपेन तरुणालोकेन वर्तमानमिव रक्ता येऽशोकाः
फेल्लयस्तैः । सेति । सह तारागणेन नक्षत्रसमूहेन वर्तमानमिव । कैः । मुक्ताकलापैर्मुक्ताप्रालम्बैः । सवर्षेति ।
सह वर्षासमयेन प्रावृदसमयेन वर्तमानमिव । कैः । धारागृहैर्यन्त्रगृहैः । सेति । सह तल्लितया विद्युल्लतया
वर्तमानमिव । काभिः । हेममयीभिः सुवर्णनिर्मितैर्मयूरयष्टिभिः कलापिसमूहोपवेशनदण्डैः । सेति । सह गृह-
दैवतेन वर्तमानमिव । काभिः । शालभजिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येश्वरस्य भवनं गृहं तद्व-
दिव द्वारावस्थिता दण्डपाणयः प्रतीहारगणा यस्मिन् । ईश्वरपक्षे कूष्माण्डकादयो गणाः । उत्कृष्टमलंकारा-
द्युपेतं यत्कविगद्यमच्छन्दं तद्वदिव । उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ये वर्णा ब्राह्मणा-
दयः, एकमुख्यसजातीयसमूहश्रेणिः, ताभिः प्रतिपाद्यमान उत्पाद्यमानोऽभिनवः प्रत्यप्रोऽर्थसंचयो द्रव्यसमूहो
यस्मिन् । पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपङ्किभिः प्रतिपाद्यमानः कथ्यमानोऽभिनवोऽश्रुतपूर्वोऽर्थसंचयोऽभि
धेयसमूहो यस्मिन् । अप्सरसां तिलोत्तमादीनां गणः समुदायस्तमिव । प्रकटः स्पष्टो मनसो रमाणां सुन्दराणा-
टिप्प० - 1 अयमपि प्रलापः । न किञ्चिदेतत् । अधिष्ठितेन अन्तःपुरेण समुपेताभ्यन्तरमित्यन्वयो
बोध्यः । 2 मेघसहितमिति बोध्यम् । 3 अयमप्यस्पष्टोऽर्थः । प्रतिप्रहरं यामिकरूपेण परिवर्तनीयाः
कुञ्जरा यामकुञ्जरा इत्यर्थः । 4 द्वारावस्थिता दण्डपाणिः ( भैरवः ) गणाः प्रमथांश्च यस्य तत् इति
शिवभवनपक्षेऽर्थः । 5 छन्दोरहितं गद्यकाव्यमिवेत्यर्थी वाच्यः । 6 उपहाररूपेण दीयमान इत्यर्थ
उचितः । 7 प्रलापोयम्, प्रकटः ( सर्वविदितः ) मनोरमः आरम्भः कार्योपक्रमो यस्मिन् तदित्यर्थः ।
।
पाठा- -१ कलहंसमालाभिः . २ धवलीकृताजिरेण धौत ३ पलितपाकपाण्डुर; पलितपाण्डु. ४ आचारमयैः •
५ विनयमयैरिव मर्यादा. ६ जरीजरत् ७ सजलजलधर ८ कविकाव्यम्. ९ श्रेणी, १० अनेकाभिनव.