कादम्बरी /23
This page has been fully proofread twice.
॥ श्रीः ॥
कादम्बरीसारः ।
विद्वत्कृपासनाथेन मञ्जुनाथेन निर्मितः ।
सोयं कादम्बरीसारो हृदि हारोऽस्तु धीमताम् ॥ १ ॥
[ पूर्वकादम्बरी ]
विदिशेतिख्यातनाम्न्यां राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलंकुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिचाण्डालदारिकाया आगमनमावेदयामास । अथ
कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सममागत्य राजानं प्रणाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय, तद्गुणावलीं चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य-
'स्तनयुगमनुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ '
इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तःपुरे प्रवेशयितुमाज्ञाप्य सभास्थानादुदतिष्ठत् । कृताह्निककृत्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन
मन्त्रिवरेण सह सुखोपविष्टः शुकमेनमानाय्य समयं तद्वृत्तान्तमा- वेदयितुमाज्ञापयामास । शुकोऽप्येवं कथयामास – "विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ न्यवास्ताम् । मां प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिद्वृद्धशबरः शाल्मलीवृक्षमेनमारुह्य स्नेहवशात्पक्षपुटेन मामाच्छादयन्तं जनकं मे व्यापाद्य, मामपि वृक्षादधः शुष्कपल्लवपुञ्जोपरि न्यपातयत् । भाग्यवशाज्जीवितोऽहं जलान्वेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण
निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन्, कौतुकादन्यैर्मुनिभिः पृष्टो मद्वृत्तान्तमेवं निशि निजगाद
[ इति कथामुखम् ]
"अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत्, यस्य महिषी विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंतानतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राज्ञ्या मुखे प्रविशन्तं चन्द्रं ददर्श स्वप्ने राजा । शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्ड-
रीकमेकमालोकयामास स्वप्ने । ततश्च विलासवत्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः सुतोऽभवत् । मिथः सौहार्दमापनौ द्वावप्येतौ कुमारौ राज्ञा सकलविद्यासु पारगामितामुपनीतौ ।
ततो विद्यास्नातकोसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधना-