2023-09-05 07:15:38 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
कादम्बरीसारः ।
 

 
विद्वत्कृपासनाथेन मञ्जुनाथेन निर्मितः ।

सोयं कादम्बरीसारो हृदि हारोऽस्तु धीमताम् ॥ १ ॥

[ पूर्वकादम्बरी ]
 

 
विदिशेतिख्यातनाम्न्यां
 
राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलं-
कुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिचाण्डालदारिकाया आगमनमा वेदयामास । अथ

कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सम-
मागत्य राजानं प्रणाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय,
तद्गुणावलीं चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य-

 
'स्तन युगमनुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
 

चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ '
 
MOR
 

 
इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तः पुरे प्रवेशयितु -
माज्ञाप्य सभास्थानादुदतिष्ठत् । कृताहिह्निककृत्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन

मन्त्रिवरेण सह सुखोपविष्टः शुकमेनमानाय्य समयं तद्वृत्तान्तमा- वेदयितुमाज्ञापयामास ।
शुकोऽप्येवं कथयामास – "विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ
न्यवास्ताम् । मां प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा
मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिद्वृद्धशबरः शाल्मलीवृक्षमेनमारुह्य
स्नेहवशात्पक्षपुढेटेन मामाच्छादयन्तं जनकं मे व्यापाद्य, मामपि वृक्षादधः शुष्कपल्लवपुञ्जोपरि
न्यपातयत् । भाग्यवशाज्जीवितोहं जलान्वेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण

निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन्, कौतुकादन्यैर्मुनिभिः पृष्टो मट्ट-
द्वृत्तान्तमेवं निशि निजगाद
-

[ इति कथामुखम् ]
 

 
"अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत्, यस्य महिषी
विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंता-
नतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राश्ज्ञ्या मुखे
प्रविशन्तं चन्द्रं ददर्श स्वप्ने राजा । शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्ड-

रीकमेकमा लोकयामास स्वप्ने । ततश्च विलासवल्त्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः
सुतोऽभवत् । मिथः सौहार्दमापनीनौ द्वावप्येतौ कुमारौ राज्ञा सकलविद्यासु पारगामितामुपनीतौ ।

ततो विद्यास्नातकोसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधना-
61