This page has not been fully proofread.

॥ श्रीः ॥
 
कादम्बरीसारः ।
 
विद्वत्कृपासनाथेन मञ्जुनाथेन निर्मितः ।
सोयं कादम्बरीसारो हृदि हारोऽस्तु धीमताम् ॥ १ ॥
[ पूर्वकादम्बरी ]
 
विदिशेतिख्यातनाम्न्यां
 
राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलं-
कुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिचाण्डालदारिकाया आगमनमा वेदयामास । अथ
कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सम-
मागत्य राजानं प्रणाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय,
तद्गुणावलीं चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य-
'स्तन युगमनुस्नातं समीपतरवर्ति हृदयशोकानेः ।
 
चरति विमुक्ताहारं व्रतमिव भवतो रिपुत्रीणाम् ॥ '
 
MOR
 
इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तः पुरे प्रवेशयितु -
माज्ञाप्य सभास्थानादुदतिष्ठत् । कृताहिककृत्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन
मन्त्रिवरेण सह सुखोपविष्टः शुकमेनमानाय्य समयं तद्वृत्तान्तमा वेदयितुमाज्ञापयामास ।
शुकोऽप्येवं कथयामास – "विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ
न्यवास्ताम् । मां प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा
मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिद्वृद्धशबरः शाल्मलीवृक्षमेनमारुह्य
स्नेहवशात्पक्षपुढेन मामाच्छादयन्तं जनकं मे व्यापाय, मामपि वृक्षादधः शुष्कपल्लवपुञ्जोपरि
न्यपातयत् । भाग्यवशाज्जीवितोहं जलान्वेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण
निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन्, कौतुकादन्यैर्मुनिभिः पृष्टो मट्ट-
त्तान्तमेवं निशि निजगाद
-
[ इति कथामुखम् ]
 
"अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत्, यस्य महिषी
विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंता-
नतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राश्या मुखे
प्रविशन्तं चन्द्रं ददर्श खप्ने राजा । शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्ड-
रीकमेकमा लोकयामास खप्ने । ततश्च विलासवल्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः
सुतोऽभवत् । मिथः सौहार्दमापनी द्वावप्येतौ कुमारौ राज्ञा सकलविद्यासु पारगामितामुपनीतौ ।
ततो विद्यास्नातकोसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधना-
61