कादम्बरी /229
This page has been fully proofread once and needs a second look.
उद्दामकेकारवानुमीयमानमरकतकुट्टिमस्थितशिखण्डिमण्डलम्, अतिशिशिरचन्दनविटपिच्छायानिषण्णनिद्रायमाणगृहसारसम्, अन्तःपुरेण च बालिकाजनप्रस्तुतकन्दुकपञ्चालिकाक्रीडे [^१]नान- वरतसं [^२]वाह्यमानदोलाशिखरक्वणितघण्टाटङ्कारपूरिताशामुखे- न भुजंगनिर्मोकशङ्कितमयूरह्रियमाणहारेण सौधशिखरावतीर्णप्रच- लितपारावतकुलतया स्थलोत्पलिनी [^३]वनेनेवान्तःपुरिकाजन- प्रस्तुतनरपतिचरितविडम्बनक्रीडेनाश्वमन्दुरापरिभ्रष्टागतैरवलुप्त- भवनदाडिमीफलैराखण्डिताङ्गणसहकारपल्लवैरभिभूतकुब्जवा- मनकिरातकरतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभि [^४]रा- कुलीभूतेन शुकसारिकाप्रकाशितसुरतविश्रम्भालापलज्जितावरोध- जनेन प्रासादसोपानसमारोहणचलितैरबलानां चरणावसक्तैर्मणि- [^५]मयैः पदे पदे रणद्भिस्तुलाकोटिवलयैर्द्विगुणी-
[ टि ]-- स्तारकाः कनीनिका येषां तैर्भ्रमद्भिरितस्ततः पर्यटद्भिः । उद्दामेति । उद्दाम उद्धतो यः केकारवस्तेनानुमीयमानमनुमान- विषयीक्रियमाणं मरकतकुहिमस्थितमामगर्भबद्धभूमिस्थितमुपविष्टं शिखण्डिमण्डलं मयूरसमूहो
यस्मिन् । अतीति । अतिशिशिरोऽति- शीतलो यश्चन्दन विटपिर्मलयजतरुस्तस्य छाया आतपाभावस्तत्र निष-
ण्णा उपविष्टा निद्रायमाणाः प्रमीलां कुर्वन्तो गृहसारसा यस्मिन् । अथ चान्तः पुरेण शुकेल् [^1]त्यारभ्यावरोधज-
नेन भवनेत्यारभ्य गणेनाधिष्ठितेन समुपेतं सहितमभ्यन्तरं मध्यं यस्येति दूरेणान्वयः । कक्रमेण कीदृशेत्यादि ।
• बालिकेति । बालिकाजनेन कन्याजनेन प्रस्तुता प्रारब्धा कन्दुकस्य गेन्दुकस्य पाञ्चालिका, पञ्चभिर्मृदादि- मयीभिः
स्वल्प [^2]गुलिकाभिर्द्यूतं पञ्चालिकोच्यते । तस्याः क्रीडा येन स तेन । अनवरतेति । अनवरतं निरन्तरं
संवाह्यमानारुह्यमाणा या दोला प्रेङ्खा तस्याः शिखरमग्रं तस्मिन्कणिता या घण्टास्तासां टङ्कारस्तेन पूरितं
भृतमाशामुखं येन । भुजगेति । भुजंगस्य सर्पस्य यो निर्मोकः कञ्चुकस्तेन शङ्कितः शङ्कां प्राप्तो यो मयूरः
केकी तेन ह्रियमाणो गृह्यमाणो हारो मुक्ताकलापो यस्य स तेन । सौधेति । सौधशिखरादवतीर्णं प्रचलितं
यत्पारावतकुलं रक्तलोचनकुलं तस्य भावस्तत्ता तया । स्थलेति । स्थलस्य या उत्पलिन्यः कमलिन्यस्तासां
वनेनेव काननेनेव । पारावतानां नीलत्वसाम्यात्तदुत्प्रेक्षा । अन्तःपुरेति । अन्तः पुरिकाजनेन प्रस्तुता
प्रारब्धान्यनरपतिचरितानां विडम्बनक्रीडा यस्मिन्स तेन । पुनः किंविशिष्टेन । कपिभिर्वानरैराकुलीभूतेन ।
अश्वानां दृष्टिदोषबाधनार्थमश्वशालायां कपयः स्थाप्यन्त इति राज्ञामाचारः । अत उक्तम् । अश्वमन्दु-
रातः परिभ्रष्टा बन्धनाद्विमुक्ता अत एवागतास्तैः । अवेति । अवलुप्तानि मर्दितानि भवनदाडिमीफलानि
यैः । आखण्डितेति । आखण्डिताः शकलीकृता अङ्गणं गृहाङ्गणं तस्य सहकारपल्लवाश्चतकिसलया यैः ।
अभीति । अभिभूताः पराभूता ये कुब्जवामन किरातास्तेषां करतलाद्धस्ततलादाच्छिन्नानि बलाद्गृहीतानि भूषणानि
विकिरद्भिर्विक्षिपद्भिरेवंभूतैः कपिभिर्वानरैराकुलीभूतेन व्याकुलीभूतेन । शुकेति । शुकः कीरः, सारिका पीत-
पादा, ताभिः प्रकाशितः प्रकटीकृतो यः सुरते मैथुने विश्रम्भालापो विश्वासालापस्तेन लज्जितस्त्रपितोऽवरोध-
जनो यस्मिन्स तेन । प्रासादेति । प्रासादस्य गृहस्य यानि सोपानान्यारोहणानि तत्र यत्समारोहणमुपरिष्टा-
गमनं तेन चलितैः कम्पितैरबलानां स्त्रीणां चरणावसक्तैः पादावलमैर्मणिमयै रत्नविकारैः पदे पदे । प्रतिर
विन्यासमित्यर्थः । रणद्भिः शब्दं कुर्वद्भिस्तुलाकोटिवलयैः पादाङ्गदवलयैर्द्विगुणीकृतं द्विगुणतामापादितं कूजितः
लक्षणं रुतं शब्दितं यासां ताभिरेवंभूताभिहंसमालिकाभिः कलहंसपर्धिवलितं शुश्रीकृतमङ्गणं चत्वरं यस्य
टिप्प० – 1 इदमपि प्रलापमात्रम् । 'ईडशेन अन्तःपुरेण समुपेताभ्यन्तरम्' इति दूरेणान्वय इति
वक्तव्यम् । 2 पुनः प्रलापोऽयम् । कन्दुकैः पाञ्चालिकाभिः वस्त्रनिर्मितपुत्तलिकाभिश्च क्रीडा यस्मिन्नि
त्यर्थः । 'पञ्चालिका स्त्रियां वस्त्रपुत्रिका गीतिभेदयोः' इति मेदिनी ।
पाठा० १ - १ अविरत, २ वाह्यमानतोली ३ वनशोभितेनेव. ४ आकुलीकृतेन. ५ मणिमयैर्विभूषणैः पदे पदे
a
[ टि ]-- स्तारकाः कनीनिका येषां तैर्भ्रमद्भिरितस्ततः पर्यटद्भिः । उद्दामेति । उद्दाम उद्धतो यः केकारवस्तेनानुमीयमानमनुमान- विषयीक्रियमाणं मरकतकुहिमस्थितमामगर्भबद्धभूमिस्थितमुपविष्टं शिखण्डिमण्डलं मयूरसमूहो
•