2023-12-28 11:49:40 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
राजभवनम्]
पूर्वभागः ।
पर्यन्तम्, [^१९५
,
पर्यन्तम्, ]अमलभूमिसंक्रान्तमुखनिवह प्रतिबिम्बतया विकच- कमलपुष्पप्रकरमिव संपादयता
गतिवशरणित नूपुर [^२]पारिहा-
र्यरशनाख [^३]स्वनमुखरेण [^४]स्कन्धावसक्तक नकदण्डचामरेण निर्गच्छता
प्रविशता चानवरतं [^५]वारविलासिनीजनेनाकुलितम्, एक देशनिषण्णचामीकरशृङ्खलासंयत [^६]श्व-
गणम्, इतस्ततः प्रचलित परिचित [^७]तमितकस्तूरिका कुरङ्ग परिमल वासितदिङ्मु- खम्, अनेककु
ब्जकिरात [^८]वर्षवरबधिर [^९]वामनमूकसंकुल- म्, उपाहृत किंनरमिथुनम् आनीतवनमानुषम्, आ-
बद्धमेषकुक्कुट- कुररकपिञ्जललाव कवर्तिकायुद्धमम्, उत्कूजितचकोरकादम्बहारीत -
तकोकिलम्,
[^१०]आलप्यमानशुकसारिकम्, इभपैतिपरिप [^११]तिपरि- मलामर्षजृम्भितैश्च निःकूजद्भिः शिखरिणां जीवितैरिव
गिरिगुहा- निवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्धाभास्यमानम्, उन्त्त्रास्यमानैः काञ्चनभवनप्रभा-
जनितदावानलशङ्कर्लोलतारकैर्भ्रमद्भिर्भवन- हरिणकदम्बकैर्लोचनप्रभया शबलीकृत दिगन्तरम्,
आ
१
"
[ टि ]-- च वारविलासिनीजनं विशेषयन्नाह – अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य
प्रतिबिम्बस्तस्य भावस्तत्ता तया । तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते - विकचेति । विकचो विकस्वरः
कमललक्षणपुष्पाणां प्रकरः समूहो यस्मिन्नेवंभूतमिव संपादयता कुर्वता । गतिवशेन गमनवशेन रणि- तानि
शब्दितानि नूपुराणि पादकटकानि पारिहार्याणि कङ्कणानि रशनाश्च कटिमेखलास्तासां स्वनः शब्दस्तेन
मुखरेण वाचालेन । स्कन्धेऽवसक्तं स्थापितं कनकदण्डयुक्तं चामरं येन स तथा तेन एकस्मिन्देशे निषण्ण
आसीनश्चामीकरस्य सुवर्णस्य शृङ्खलान्दु- कस्तया संयतो नद्धः शुनां गणो यस्मिन् । इतस्तत इति । इत
स्ततः समन्तात्प्रचलिताः परिचिता विश्वस्ता अमिता अनेके ये कस्तूरिका- कुरङ्गाः कस्तूरिकामृगास्तेषां
परिमल आमोदस्तेन वासितं सुरभीकृतं दिड्मुखं यस्य तत् । अनेकेति । प्रत्येकमभिसंबन्धः । कुब्जाः
पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवराः षण्ढाः, बधिराः प्रसिद्धाः, वामनाः पूर्वव्यावर्णितस्वरूपाः,
मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहहृतेति । उपाहृतमा- नीतं किंनरमिथुनं यस्मिं
स्तत् । आनीतं वनमानुषमे [^1]मरण्यमनु- ष्यरूपवनचरं यस्मिन् । आबद्धेति । [^2]आबद्धाः संयता ये मेषा हुडाः,
कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिञ्जला गणे- शाः, लावकाः प्रसिद्धाः, वर्तिकाः पक्षिविशेषाः,
युद्धं यस्मिन् । उदिति । उत्प्राबल्येन कूजितं येषामेवंविधाश्चकोरा विषसूचकाः, कादम्बाः कलहंसाः,
ताः पक्षिविशेषाः, कोकिलाः पिकाः यस्मिन् । आलप्येति । आलप्यमानाः संभाष्यमाणाः शुकसारिका
यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जर प्राप्तहर्यक्षैरुद्भास्यमानमु- त्प्राबल्येन शोभमानम् । अथ केसरिणं ( णो)
विशेषयन्नाह - इभ- पतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्माद्योऽमर्षः क्रोध- संभवस्तेन जृम्भितैर्धू-
घूर्णितैरत एव निःक्रूकूजद्भिर्नितरां गुञ्जद्भिर्गुञ्जारवं कुर्वद्भिः । शिखरिणां पर्वतानां केसरिसारवत्त्वादाह - जीवि
तैरिति । [^3]जीवितैरिव प्राणितैरिव । गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिर्गृहीतैर्बलाद्वनानीतै-
रित्यर्थः । पुनः प्रकारा- न्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्बकैर्गृहमृगसमूहै- र्लोचनप्रभया नेत्र-
दीप्त्या शबलीकृतं कर्बुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः । काञ्चनभवनं सुवर्णगृहं तस्य प्रभा कान्तिस्तया जनि-
तोत्पादिता दावानलशङ्का वनवहिह्निद्वापरो येषां तैः अत एवोत्त्रास्य-
मा नैरुत्प्रावबल्येन त्रासं प्राप्यमाणैः । लोला-
तेषां
हारी-
टिप्प० -
[^1]F. आनीताः वनमानुषा यस्मिन्निति समासो बोध्यः ।
[^2]F. इदमप्यज्ञानम् - आबद्धं संघटितं
मेषादीनां युद्धं यस्मि- न्नित्यर्थ: ।
[^3]F. सिंहा न गृहीता मन्ये पर्वतानां जीवा एवंव गृहीताः, इति भावार्थः ।
अत्र सिंहविषये निष्कूजद्भिरित्यसमञ्जसमेव, 'गर्जद्भिः' इति स्यात् ।
पाठा० -
[^१]G. अमलमणिभूमि .
[^२]G. परिहार्य .
[^३ रव ]G. रव.
[^४]G. स्कन्धसक्त .
[^५]G. वारविलासिनीनां जनेन.
[^६]G. संयताश्वगणम्.
[^७]G
७. अपरिमितसितिकस्तूरिक .
[^८]G. वर्षधर; बर्बरवर्षवर, .
[^९]G. वामनक.
[^१०]G. लालप्यमान .
[^११]G. पतिमद.