कादम्बरी /228
This page has not been fully proofread.
राजभवनम्]
पूर्वभागः ।
१९५
,
पर्यन्तम्, अमलभूमिसंक्रान्तमुखनिवह प्रतिबिम्बतया विकचकमलपुष्पप्रकरमिव संपादयता
गतिवशरणित नूपुरपारिहार्यरशनाखनमुखरेण स्कन्धावसक्तक नकदण्डचामरेण निर्गच्छता
प्रविशता चानवरतं वारविलासिनीजनेनाकुलितम्, एक देशनिषण्णचामीकरशृङ्खलासंयतश्व-
गणम्, इतस्ततः प्रचलित परिचित मितकस्तूरिका कुरङ्ग परिमल वासितदिङ्मुखम् अनेककु
ब्जकिरातवर्षवरबधिरवामनमूकसंकुलम्, उपाहृत किंनरमिथुनम् आनीतवनमानुषम्, आ-
बद्धमेषकुक्कुटकुररकपिञ्जललाव कवर्तिकायुद्धम, उत्कूजितचकोरकादम्बहारीत कोकिलम्,
लप्यमानशुकसारिकम् इभपैतिपरिमलामर्षजृम्भितैश्च निःकूजद्भिः शिखरिणां जीवितैरिव
गिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्धास्यमानम्, उन्त्रास्यमानैः काञ्चनभवनप्रभा-
जनितदावानलशङ्कर्लोलतारकैर्भ्रमद्भिर्भवनहरिणकदम्बकैर्लोचनप्रभया शबलीकृत दिगन्तरम्,
आ
१
"
च वारविलासिनीजनं विशेषयन्नाह – अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य
प्रतिबिम्बस्तस्य भावस्तत्ता तया । तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते - विकचेति । विकचो विकस्वरः
कमललक्षणपुष्पाणां प्रकरः समूहो यस्मिन्नेवंभूतमिव संपादयता कुर्वता । गतिवशेन गमनवशेन रणितानि
शब्दितानि नूपुराणि पादकटकानि पारिहार्याणि कङ्कणानि रशनाच कटिमेखलास्तासां स्वनः शब्दस्तेन
मुखरेण वाचालेन । स्कन्धेऽवसक्तं स्थापितं कनकदण्डयुक्तं चामरं येन स तथा तेन एकस्मिन्देशे निषण्ण
आसीनश्चामीकरस्य सुवर्णस्य शृङ्खलान्दुकस्तया संयतो नद्धः शुनां गणो यस्मिन् । इतस्तत इति । इत
स्ततः समन्तात्प्रचलिताः परिचिता विश्वस्ता अमिता अनेके ये कस्तूरिकाकुरङ्गाः कस्तूरिकामृगास्तेषां
परिमल आमोदस्तेन वासितं सुरभीकृतं दिड्मुखं यस्य तत् । अनेकेति । प्रत्येकमभिसंबन्धः । कुब्जाः
पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवराः षण्ढाः, बधिराः प्रसिद्धाः, वामनाः पूर्वव्यावर्णितस्वरूपाः,
मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहतेति । उपाहृतमानीतं किंनरमिथुनं यस्मिं
स्तत् । आनीतं वनमानुषमेरण्यमनुष्यरूपवनचरं यस्मिन् । आबद्धेति । आबद्धाः संयता ये मेषा हुडाः,
कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिञ्जला गणेशाः, लावकाः प्रसिद्धाः, वर्तिकाः पक्षिविशेषाः,
युद्धं यस्मिन् । उदिति । उत्प्राबल्येन कूजितं येषामेवंविधाश्चकोरा विषसूचकाः, कादम्बाः कलहंसाः,
ताः पक्षिविशेषाः, कोकिलाः पिकाः यस्मिन् । आलप्येति । आलप्यमानाः संभाष्यमाणाः शुकसारिका
यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जर प्राप्तहर्यक्षैरुद्भास्यमानमुत्प्राबल्येन शोभमानम् । अथ केसरिणं ( णो)
विशेषयन्नाह - इभपतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्माद्योऽमर्षः क्रोधसंभवस्तेन जृम्भितैर्धू-
र्णितैरत एव निःक्रूजद्भिर्नितरां गुजद्भिर्गुजारवं कुर्वद्भिः । शिखरिणां पर्वतानां केसरिसारवत्त्वादाह - जीवि
तैरिति । जीवितैरिव प्राणितैरिव । गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिर्गृहीतैर्बलाद्वनानीतै-
रित्यर्थः । पुनः प्रकारान्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्बकैर्गृहमृगसमूहैर्लोचनप्रभया नेत्र-
दीप्त्या शबलीकृतं कर्बुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः । काञ्चनभवनं सुवर्णगृहं तस्य प्रभा कान्तिस्तया जनि-
तोत्पादिता दावानलशङ्का वनवहिद्वापरो येषां तैः अत एवोत्रास्यमा नैरुत्प्रावल्येन त्रासं प्राप्यमाणैः । लोला-
तेषां
हारी-
टिप्प० - 1 आनीताः वनमानुषा यस्मिन्निति समासो बोध्यः । 2 इदमप्यज्ञानम् - आबद्धं संघटितं
मेषादीनां युद्धं यस्मिन्नित्यर्थ: । 3 सिंहा न गृहीता मन्ये पर्वतानां जीवा एवं गृहीताः, इति भावार्थः ।
अत्र सिंहविषये निष्कूजद्भिरित्यसमञ्जसमेव, 'गर्जद्भिः' इति स्यात् ।
पाठा० - १ अमलमणिभूमि २ परिहार्य ३ रव ४ स्कन्धसक्त ५ वारविलासिनीनां जनेन. ६ संयताश्वगणम्.
G
७ अपरिमितसितिकस्तूरिक ८ वर्षधर; बर्बरवर्षवर, ९ वामनक. १० लालप्यमान ११ पतिमद.