This page has not been fully proofread.

१९४
 
कादम्बरी ।
 
[ कथायाम्-
सिधेनुकेनान्धद्र विडसिंहलप्रायेण सेवकजनेनास्थानमण्डपगतेन च यथोचितासनोप-
विष्टेन प्रसारयता दुरोदरक्रीडामभ्यस्यताष्टापदव्यापारमास्फालयता परिवादिनीमालिखता
चित्रफलके भूमिपालप्रतिबिम्बमाबघ्नता काव्यगोष्ठीमातन्वता परिहासकथां विन्दता. बिन्दु -
मत चिन्तयता प्रहेलिकां भावयता नरपतिकृतकाव्यसुभाषितानि पठता द्विपैदीं गृह्णता
कविगुणानुत्किरता पत्रभङ्गानालपता वारविलासिनीजनमाकर्णयता वैतालिकगीतमनेक सह-
स्रसंख्येन धवलोष्णीषपटालिष्ट विकट किरीट संकटशिरसा सनिर्झरशिखरैलग्नत्रालातपमण्ड-
लेनेव कुलपर्वतचक्रबालेन मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम् आस्थानोत्थितभूमिपा-
लसंवर्तितानां च कुथानां रत्नासनानां च राशिभिरनेकवर्णैरिन्द्रायुधपुखैरिव विराजितसभा-
बद्धा । कव्यामिति शेषः । असिधेनुका क्षुरिका येन । नानादेशपरिग्रहादाह — आन्ध्रेति । आन्ध्रस्त्रिलिङ्गः,
द्रविडो द्राविडदेशः, सिंहल: सिंहलद्वीपम्, तत्प्रायेण तत्सदृशेन । एतद्देशोद्भवाः प्रायो बाहुल्येन सन्ति यस्मिन्निति
वा । स तेन सेवकजनेन । सेवकसेवकेनेत्यर्थः । इतः परं सामन्तविशेषणानि – आस्थानमण्डपो मध्यमण्डप-
स्तत्र गतेन प्राप्तेन यथोचितानि यथायोग्यानि यान्यासनानि विष्टराः तेषूपविष्टेनासेदुषा । किं कुर्वता । दुरोदर-
क्रीडां द्यूतक्रीडां प्रसारयता विस्तारतया ! अष्टापदमभ्यस्यताभ्यासं कुर्वता । अष्टापेदं शारिफलम् । नयपिटकमि-
त्यन्ये । तस्य व्यापारम् । आस्फालयता वादयता परिवादिनीं वीणाम् । चित्रफलक आलेख्यपट्टके भूमिपालो
राजा तस्य प्रतिबिम्बं प्रतिरूपमा लिखता लिपीकुर्वता । काव्येति । काव्यगोष्ठीमाबनता । काव्यश्रवणार्थं
स्वस्योपवेशनेन जनबन्धं कुर्वतेत्यर्थः । परिहासकथामुपहासकारिवचनरचनामातन्वता विस्तारयता । बिन्दुमतीं
विचित्रां 'लिपिं विन्दता प्राप्नुवता । प्रहेलिकां पूर्वोक्तां चिन्तयता ध्यायता । नरपतिना राज्ञा कृतानि विर-
चितानि यानि काव्यसुभाषितानि काव्यसूक्तानि तानि भावयता चेतसि भावनां कुर्वता । द्विपदीं पदद्वयात्मिकां
पठता पाठं कुर्वता । कविगुणान्नवीन काव्यकर्तॄणां गुणांस्तत्कालकाव्यकरणादिरूपान्गृह्णता ग्रहणं कुर्वता ।
पत्राणि केतकीसंबन्धीनि तेषां भङ्गान्रचनाविशेषानुत्किरतोत्कीर्ण कुर्वता । वारविलासिनीजनं वारयोषि-
जनमालापयता संभाषयता । वैतालिका बोधिजनाः सुभाषितपाठका बन्दिनो वा तेषां गीतं गानमाकर्ण-
यता शृण्वता । अनेकेति । अनेकानि सहस्राणि संख्या परिमाणं यस्य स तेन । धवलेति । धवलः श्वेतो य
उष्णीषपटो मूर्धवेष्टनपटस्तेनाश्लिष्टान्यालिङ्गितानि विकटानि विपुलानि किरीटानि कोटीराणि तैः संकटं
संकीर्ण शिरो यस्य स तेन । उष्णीषस्य श्वेतत्वात्किरीटस्य मणिप्रभया रक्तत्वाच श्वेतरक्तत्वसाम्यादुत्प्रे-
क्षामाह - सेति । सनिर्झरं निर्झरैः सहवर्तमानं यच्छिखरं शृङ्गं तत्र लग्नं बालातपस्य मण्डलं यस्मिन्नेवं-
भूतेन कुलपर्वतचक्रवा लेनेवेदृशेन मूर्धाभिषेकेण कृतपट्टाभिषेकेण सामन्तलोकेन स्वदेशसमीपवर्तिराजसमू-
हेनाधिष्ठितमिति प्रागुक्तमेव । आस्थानेति । आस्थानादुपवेशनस्थलादुत्थितो यो भूमिपालो नृपतिस्तस्मा-
त्संवर्तितानां समूहैरिवेन्द्रायुधपुञ्जेरिवेन्द्रधनुः समूहैरिव विराजितः शोभितः सभापर्यन्तः संसत्प्रान्तो यस्य तत् ।
पुनः कीदृशम् । अनवरतं निरन्तरं वारविलासिनीनां जनेनागच्छता निर्गच्छता चाकुलितं व्याकुलीभूतम् । अथ
 
.
 
टिप्प० – 1 'चौपड' इति भाषा । 2 पद्यवर्णसंख्यया बिन्दवो लिख्यन्ते तैः पथस्य परिज्ञानं बिन्दु-
मती । यथा -०००००००: (वार्थाविव संपृक्तौ ) । 3 पदद्वयात्मिकां गाथाम्, इति वाच्यम् ।
4 अग्रसंबन्धेन - चारविलासिनीनां कपोलादिषु चन्दनादिना पत्ररचनां कुर्वतेत्यर्थो वा । 5 इदमपि भ्राम-
कम् । आस्थानादुत्थितेषु भूमिपालेषु ( सामन्तेषु ) संवर्तितानां भृत्यैः संकोचितानाम् ('तह' 'घडी' किये
हिन्दी) कुथानां रत्नासनानां च समूहः, अनेकवर्णैः इन्द्रधनुः समूहैरिव शोभितः सभापर्यन्तो यस्य तत् ।
 
पाठा० -१ द्विपदी:. २ उत्कीर्यता. ३ गीतिम्. ४ आलन.