2023-12-28 11:11:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

रसर [^१]सलुलितलाज [^२]कवलैर्भूपालवल्लभैर्मन्दुरागतैस्तु-
रङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैश्चार्यवेषैरत्युच्चवेत्रासनो- पविष्टैर्धर्मभयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम्, अधिगत- सकल [^3]ग्रामनगरनामभिरेकभवनमिव जगदखिलमालोकय-
द्भिरालिखित सकलभुवनव्यापारतया धर्मराजनगरव्यतिकरमिव दर्शयद्भिरै [^४]रधिकरणलेखकैरालिख्य मानशासन सहस्रम्, अभ्यन्तराव
- न्तरावस्थितनरपति निर्ग [^५]मप्रतीक्षण [^६]परेण च स्थानस्थानेषु द्धमण्डलेन कनकमयार्ध [^७]चन्द्रतारागणश-
बलचर्मफलकैर्नि- शासमयमिव दर्शयता स्फुरित निशितकरवालकरप्ररोहकरालिता- तपेनैकश्रवण-
[^८]पुर्दंघटितधवलन्तपत्रेणोर्ध्व बद्धमौलिकलापेन धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धा-
9

J
 

 
[ टि ]-- मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णा यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृताः स्थापिता मधुरा मिष्टाः
सरसा रे[^1]रसोपे- ता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्र- तण्डुलाः' इति कोशः । तेषां
कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानस्तेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशाला- प्राप्तैरेवं-
विधैस्तुरङ्गमैरश्वैरुद्भासितं शोभितम् । अधीति । अधि- क्रियते जनोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः
प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युच्चं यद्वेत्रासनं तत्रोपविष्टैः स्थितैर्धर्म- मयैरिव धर्मनिष्पन्नैरिव धर्माधिकारि-
भिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् । यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखका- स्तैरालि
ख्यमानं लिपीक्रियमाणं शासनसहस्रमाज्ञापत्राणां दशशतं यस्मिन् । अथ लेखकान्विशिष्टि - अधीति ।
अधिगतं ज्ञातं सकल- ग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमि- वाखिलं समयं जगद्विष्ट-
पमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो
व्यवहारस्तस्य भावस्तत्ता तथा । धर्मराजो यमस्तस्य नगरं संयमि- नीति ख्यातं तस्माव्यतिकरमति [^2]शयं दर्श-
यद्भिः । एतेन चित्रगुप्त- लिखितोत्कृष्टलिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचि- तमिति भावः । पुनः
कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिना- धिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्य
न्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं
प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थान0 स्थानानीति कर्मधारयस्तेषु बद्धं
मण्डलं येन स तेन । कनकेति । कनकमयः सुवर्णनिष्पन्नो योऽर्धचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च श्वेतबिन्दु -
चित्रं ताभ्यां शबलानि कर्बुराणि चर्मफलकानि तैः । चन्द्र- तारका निमित्तवत्त्वादाह — निशेति । निशासमय-
मिव रात्रिकाल- मिव दर्शयतान्येभ्यो ज्ञापयता । स्फुरितेति । स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं
खङ्गं तस्य ये कराः किरणास्तेषां प्ररोहा अङ्कुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा
तेन । एकश्रवणपुट एककर्णपुटे घटितं संयोजितं धवलं दन्त- पत्रं येन स तथा तेन । देशाचारोऽयं यदेककर्णे
दु
न्तपत्रपरिधानम् । ऊर्ध्वं बद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन । धवलेति । धवलं यच्च-
न्दनं तस्य स्थासका आभरण [^3]विशेषास्तैः खचिता नद्धा भुजोरुदण्डा बाहुदण्डा यस्य स तेन । बद्धासीति ।
 
टिप्प० - [^1]F. गुडेन आर्द्रीकृताः इत्यर्थो बोध्यः । गुडमिश्रिता लाजग्रासा: चाञ्चल्यवशान्मा निपातय-
नित्व
न्त्विति सेवकैर्मुखे प्ध्रियन्त इति तुरगस्व-
भावः ।
[^
2]F. आलिखितसकलभुवनव्यापारत्वरूपं द्वयोः समान-
धर्मत्व- मेवेति नातिशयः । तस्मात् धर्मराजनगरस्य व्यतिकरं व्यापारं संबन्धं वेत्यर्थः । यमनगरलेखकैः
सह अधिकरण ( कचहरी ) लेखकानां साम्येन एतेषां क्रूरतोपहासश्चातुर्येण ध्वनितो ग्रन्थकृता ।
[^
3]F. इद-
सध्
मप्यज्ञानं टीकाकृतः । चन्दनलिप्तहस्तस्य प्रतिच्छन्दः स्थासकः । 'थापा' इति भाषा ।
 
पाढा० - [^]G. लवलुलित; लवविलुलित .
[^
]G. जम्बाल .
[^
]G. ग्रामखर्वटनगर; नगरखेटखर्वट; खेटखर्वट.
[^
]G. अधिकार.
[^]G. निर्गमन.
[^
]G. परेण स्थाने स्थाने.
[^
]G. तारागणशतशबलै: .
[^
]G. घटितानेकदन्त.

का० २५.