कादम्बरी /226
This page has been fully proofread once and needs a second look.
रसर [^१९३
रा]सलुलितलाजभवन [^२]कवलैर्भूपालवल्लभैर्मन्दुरागतैस्तु-
रङ्गमैरुद्भासितम् ]
पूर्वभागः ।
, अधिकरणमण्डपगतैश्चा-
रसरसंलुलितलाज केवलैर्भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्,
र्यवेषैरत्युच्च वेत्रासनो- पविष्टैर्धर्मभयैरिव धर्माधिकारिभिर्महापुरुपैर षैरधिष्ठितम्, अधिगत- सकल-
[^3]ग्रामनगरनाम भिरेकभवनमिरेकभवनमिव जगदुदखिलमालोकय-
द्भिरालिखित सकलभुवनव्यापारतया धर्म-
राजनगरव्यतिकरमिव दर्शयद्भिरैधिकरणलेखकै। लिख्य मानशासन सहस्रम् अभ्यन्तराव
स्थितनरपति निर्गम प्रतीक्षणपरेण च स्थानस्थानेषु वद्धमण्डलेन कनकमयार्धचन्द्रतारागणश-
बलचर्मफलकैर्निशासमयमिव दर्शयता फुरित निशितकरवालकरप्ररोहकरालितातपेनैकश्रवण-
पुर्दंघटितधवलइन्तपत्रेणोर्ध्व बद्धमौलिकलापेन धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धा-
9
J
।
।
मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णा यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृताः स्थापिता मधुरा मिष्टाः
सरसा रेसोपेता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्रतण्डुलाः' इति कोशः । तेषां
कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानस्तेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशालाप्राप्तैरेवं-
विधैस्तुरङ्गमैरश्वैरुद्भासितं शोभितम् । अधीति । अधिक्रियते जनोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः
प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युच्चं यद्वेत्रासनं तत्रोपविष्टैः स्थितैर्धर्ममयैरिव धर्मनिष्पन्नैरिव धर्माधिकारि-
भिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् । यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखकास्तैरालि
ख्यमानं लिपीक्रियमाणं शासनसहस्रमाज्ञापत्राणां दशशतं यस्मिन् । अथ लेखकान्विशिष्टि - अधीति ।
अधिगतं ज्ञातं सकलग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमिवाखिलं समयं जगद्विष्ट-
पमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो
व्यवहारस्तस्य भावस्तत्ता तथा । धर्मराजो यमस्तस्य नगरं संयमिनीति ख्यातं तस्माव्यतिकरमतिशयं दर्श-
यद्भिः । एतेन चित्रगुप्तलिखितोत्कृष्टलिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचितमिति भावः । पुनः
कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिनाधिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्य
न्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं
प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थानस्थानानीति कर्मधारयस्तेषु बद्धं
मण्डलं येन स तेन । कनकेति । कनकमयः सुवर्णनिष्पन्नो योऽर्धचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च श्वेतबिन्दु -
चित्रं ताभ्यां शबलानि कर्बुराणि चर्मफलकानि तैः । चन्द्रतारका निमित्तवत्त्वादाह — निशेति । निशासमय-
मिव रात्रिकालमिव दर्शयतान्येभ्यो ज्ञापयता । स्फुरितेति । स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं
खङ्गं तस्य ये कराः किरणास्तेषां प्ररोहा अङ्कुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा
तेन । एकश्रवणपुट एककर्णपुटे घटितं संयोजितं धवलं दन्तपत्रं येन स तथा तेन । देशाचारोऽयं यदेककर्णे
दुन्तपत्रपरिधानम् । ऊर्ध्वं बद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन । धवलेति । धवलं यच्च-
न्दनं तस्य स्थासका आभरणविशेषास्तैः खचिता नद्धा भुजोरुदण्डा बाहुदण्डा यस्य स तेन । बद्धासीति ।
टिप्प० - 1 गुडेन आकृताः इत्यर्थो बोध्यः । गुडमिश्रिता लाजग्रासा: चाञ्चल्यवशान्मा निपातय-
नित्वति सेवकैर्मुखे प्रियन्त इति तुरगस्वभावः । 2 आलिखितसकलभुवनव्यापारत्वरूपं द्वयोः समान-
धर्मत्वमेवेति नातिशयः । तस्मात् धर्मराजनगरस्य व्यतिकरं व्यापारं संबन्धं वेत्यर्थः । यमनगरलेखकैः
सह अधिकरण ( कचहरी ) लेखकानां साम्येन एतेषां क्रूरतोपहासश्चातुर्येण ध्वनितो ग्रन्थकृता । 3 इद-
सध्यज्ञानं टीकाकृतः । चन्दनलिप्तहस्तस्य प्रतिच्छन्दः स्थासकः । 'थापा' इति भाषा ।
पाढा० - १ लवलुलित; लवविलुलित २ जम्बाल ३ ग्रामखर्वटनगर; नगरखेटखर्वट; खेटखट. ४ अधिकार.
५ निर्गमन. ६ परेण स्थाने स्थाने. ७ तारागणशतशबलै: ८ घटितानेकदन्त.
का० २५.
रा
रङ्गमैरुद्भासितम्
पूर्वभागः ।
रसरसंलुलितलाज केवलैर्भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्,
द्भिरालिखित सकलभुवनव्यापारतया धर्म