2023-12-27 15:00:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
यस्य [ कथायाम्-
कायस्य
^१]वामनतया च जघनभागस्य [^२]पातालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धच-
न्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपदीविलासेन

स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन प्रसाधितेने वालो [^३]ल- कर्णपल्लवाहतमुखेन गन्धमादन-
नाम्राना गन्धहस्तिना सनाथी कृतै- कदेशम्, उज्ज्वल पट्टकम्बलपट [^४]प्रावारित पृष्ठैश्च रसितमधुरघ-

ण्टिकारमुखरकण्ठैर्मञ्जिष्ठालोहित स्कन्ध केसर
[^५]बालैर्वनगज- रुधिरपाटलसटैरिव केसरिभिः पु-
रोनिहितयव सराशिशिख रोपविष्ट- मन्दुरापालैरासन्नमङ्गलगीतध्वनिवृत्त कर्णैरन्तः कपोलधृतमधु-
-
 
ww
 

 
[ टि ]--
पुरोभागस्य घनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया ह्रस्वतया जघनभागस्य
पश्चाद्धांभागस्य । एत-
न्निमित्तादेवोत्प्रेक्षामाह- पातालेति । पातालाद्सातलाद्वडवामुखादु- त्तिष्ठता प्रादुर्भवता ।
निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमीचन्द्रस्तदाकृतिनां मध्य-
मणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मैिमि [^1]न्स तेन ।पक्षे सार्धचन्द्रा नक्षत्रमाला तारापङ्किर्यस्मिन्निति-
विग्रहः । पुनस्तमेव विशिनष्टि-- प्रकटितेति । प्रकटितमाविष्कृतमरुणं रक्तमत एव चारु मनोहरं पुष्करं
शुण्डामंग्रं येन स तथा तेन । केनेव । शरदारम्भेणेव । घनात्य- यप्रारम्भेणेव तत्पक्षे पुष्कराणि कमलानि ।
'राजीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह -वासनेति । वामनरूपेणेव वामना-
वै
तारेणेव । उभयसाम्यमाह - त्रिपदीति । कृतो विहित एकं पादमुत्क्षिप्य पादत्रयेऽज्ञावस्थानं [^2]त्रिपैदी तस्या
विलासो विभ्रमोंमो येन स तथा तेन । पक्षे त्रिपक्षीति स्वर्गमृत्यु- पाताल [^3]लक्षणा तस्यां विलासो विलसनं येनेतिभावः ।
स्फटि- केति । स्फटिकगिरिः स्फटिकाचलस्तस्य तटेनेव वप्रेणेव । उभयं विशिष्टि - लग्नेति ]। लग्ना सिंह-
मुखा प्रतिमा गजस्य दन्त[^4]- न्धो यस्य स तेर्न । 'प्रतिमा प्रतिरूपके । गंजस्य दन्तबन्धे च' इत्यनेकार्थः ।
पक्षे लग्ना प्रतिबिम्बिता सिंहमुखस्य प्रतिमा प्रति- रूपकं यस्मिन्स तेन । [^5]अत एव प्रसाधितेने स्वीकृतभूषणं.
ण-
परिग्रहेणेव । लोलीलौ चपलौ यौ कपिर्णपल्लवौ ताभ्यामाहतं मुखं येन
( यस्य ) स तेन । पक्षे कर्णपल्लवः । शेषं पूर्व-
वत् । अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाह - उज्ज्वलेति । उज्ज्वलाः श्वेता ये पट्टकम्बलाः
पट्टसूत्र निर्मिताः । 'षट् ' (?) इति प्रसिद्धा वा । तेषां पटास्तैः प्रावरितान्याच्छादितानि पृष्ठानि येषां तैः । रसि
तेति । रसितानां रणितानां मधुरः श्रोत्रसुखदो यो घण्टिकानां लघुकिङ्किणीनां रवः स्वरस्तेन मुखरो वाचालः
कण्ठो येषां तैः । मञ्जिष्ठेति । मञ्जिष्ठया प्रसिद्धया लोहिता रक्तीकृताः स्कन्धकेस- राणां बाला येषां तैः ।
रक्तबालसाम्यादाह-वनेति । वनगजाना- मरण्यहस्तिनां रुधिरेण पाटलाः श्वेतरक्ताः सटा येषामेवंभूतैः केस-

रिभिरिव हर्यक्षैरिव । पुरो निहितोऽग्रे न्यस्तो यो यवसराशिस्तृण- समूहस्तस्य शिखरममंग्रं तत्रोपविष्टा मन्दुरापाला
वाजिशालारक्षका येषां तैः । 'वाजिशाला तु मन्दुरा' इति कोषः । आसन्नेति । आसन्नः समीपवर्ती यो
 

 
टिप्प० -

 
[^
1]F. अयमपि भ्रममार्गः । परिस्फुरन्ती शोभमाना सार्धचन्द्रा
( अर्धचन्द्राकारललाटभू-
र्
षणसहिता ) नक्षत्रमाला सप्तविंशतिमहा- मौक्तिकमाला यस्य तेन, ( इति गजपक्षे ) स्पष्टोऽर्थः । 'सैव
मै
क्षत्र- माला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः ।
[^
2]F. वस्तुतस्तु 'त्रिपदी पादबन्धनम्' । 'त्रिपदीच्छेदि-
मा
नामपि' इति कालिदासः । तथा च कृतः त्रिपद्या (पादबन्धनशुङ्खलथाया ) विलासः क्रीडा येन इत्यर्थः ।

[^
3]F. लेखनप्रकारोऽनुचितः । तात्पर्यं ग्राह्यम् ।
[^
4]F. लग्ना सिंहस्येव मुखम् अग्रभागो यस्याः ईदृशी प्रतिमा
कुन्तव

दन्तब
न्धनश्शृङ्खला यस्य तेनेति बोध्यम् ।
[^
5]F. भ्रामकमिदम् । प्रसाधितः कृतशृङ्गारो हि प्रसाधनार्थं धृता-

भ्याम् मालोलान्यां कर्णस्थपल्लवाभ्यां आहतं (वायुवशात् ) मुखं यस्य, ईडशो भवति । अयं तु आहतं
गजस्वभावात् अभरापसारणनिमित्तं वा
आलोलाभ्यां कर्णस्थपल्लवाभ्यां आहतं (वायुवशात् ) मुखं यस्य, ईदृशो भवति । अयं तु-- आहतं गजस्वभावात् भ्रमरापसा- रणनिमित्तं वा आलोलाभ्यां दीर्घकर्णाभ्यां मुखं येन स इत्यर्थः ।
[^
6]F. रसिता-
भागम
नामिति विशेषणं यदा घंटिकानां तदा मध्ये मधुर इति स्वरस्य कथं विशेषणं स्यात् । अतः - रसितानां
शब्दायमाना- नां मधुर ( मनोहर ) घंटिकानां यो रव इति समासो विधेयः ।
 
पाठा०

 
[^
]G. अतिवामनतया .
[^
]G. पातालतलादिव .
[^
]G. लोध्र.
[^
]G. प्रावृतः प्रावरित .
[^
]G. वालपल्लवैर्निहतगज.