कादम्बरी /225
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
कायस्य वामनतया च जघनभागस्य पातालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धच-
न्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपदीविलासेन
स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन प्रसाधितेने वालोलकर्णपल्लवाहतमुखेन गन्धमादन-
नाम्रा गन्धहस्तिना सनाथी कृतैकदेशम्, उज्ज्वल पट्टकम्बलपटवारित पृष्ठैश्च रसितमधुरघ-
ण्टिकारबमुखरकण्ठैर्मञ्जिष्ठालोहित स्कन्ध केसर
बालैर्वनगजरुधिरपाटलसटैरिव केसरिभिः पु-
रोनिहितयव सराशिशिख रोपविष्टमन्दुरापालैश सन्नमङ्गलगीतध्वनिवृत्त कर्णैरन्तः कपोलधृतमधु-
-
ww
पुरोभागस्य अघनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया ह्रस्वतया जघनभागस्य
पश्चाद्धांगस्य । एतन्निमित्तादेवोत्प्रेक्षामाह- पातालेति । पातालाद्वसातलाद्वडवामुखादुत्तिष्ठता प्रादुर्भवता ।
निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमीचन्द्रस्तदाकृतिनां मध्य-
मणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मैिन्स तेन ।पक्षे सार्धचन्द्रा नक्षत्रमाला तारापङ्किर्यस्मिन्निति-
विग्रहः । पुनस्तमेव विशिनष्टि प्रकटितेति । प्रकटितमाविष्कृतमरुणं रक्तमत एव चारु मनोहरं पुष्करं
शुण्डामं येन स तथा तेन । केनेव । शरदारम्भेणेव । घनात्ययप्रारम्भेणेव तत्पक्षे पुष्कराणि कमलानि ।
'राजीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह -वासनेति । वामनरूपेणेव वामना-
वैतारेणेव । उभयसाम्यमाह - त्रिपदीति । कृतो विहित एकं पादमुत्क्षिप्य पादत्रयेऽज्ञावस्थानं त्रिपैदी तस्या
विलासो विभ्रमों येन स तथा तेन । पक्षे त्रिपक्षीति स्वर्गमृत्युपाताललक्षणा तस्यां विलासो विलसनं येनेतिभावः ।
स्फटिकेति । स्फटिकगिरिः स्फटिकाचलखस्य तटेनेव वप्रेणेव । उभयं विशिष्टि - लग्नेति । लग्ना सिंह-
मुखा प्रतिमा गजस्य दन्तबन्धो यस्य स तेर्न । 'प्रतिमा प्रतिरूपके । गंजस्य दन्तबन्धे च' इत्यनेकार्थः ।
पक्षे लग्ना प्रतिबिम्बिता सिंहमुखस्य प्रतिमा प्रतिरूपकं यस्मिन्स तेन । अत एव प्रसाधितेने स्वीकृतभूषणं.
परिग्रहेणेव । लोली चपलौ यौ कपिलवौ ताभ्यामाहतं मुखं येन ( यस्य ) स तेन । पक्षे कर्णपल्लवः । शेषं पूर्व-
वत् । अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाह - उज्वलेति । उज्ज्वलाः श्वेता ये पट्टकम्बलाः
पट्टसूत्र निर्मिताः । 'षट् ' (?) इति प्रसिद्धा वा । तेषां पटास्तैः प्रावरितान्याच्छादितानि पृष्ठानि येषां तैः । रसि
तेति । रसितानां रणितानां मधुरः श्रोत्रसुखदो यो घण्टिकानां लघुकिङ्किणीनां रवः स्वरस्तेन मुखरो वाचालः
कण्ठो येषां तैः । मञ्जिष्ठेति । मञ्जिष्ठया प्रसिद्धया लोहिता रक्तीकृताः स्कन्धकेसराणां बाला येषां तैः ।
रक्तबालसाम्यादाह-वनेति । वनगजानामरण्यहस्तिनां रुधिरेण पाटलाः श्वेतरक्ताः सटा येषामेवंभूतैः केस-
रिभिरिव हर्यक्षैरिव । पुरो निहितोऽग्रे न्यस्तो यो यवसराशिस्तृण समूहस्तस्य शिखरममं तत्रोपविष्टा मन्दुरापाला
वाजिशालारक्षका येषां तैः । 'वाजिशाला तु मन्दुरा' इति कोषः । आसन्नेति । आसन्नः समीपवर्ती यो
।
टिप्प० - 1 अयमपि भ्रममार्गः । परिस्फुरन्ती शोभमाना सार्धचन्द्रा ( अर्धचन्द्राकारललाटभू-
र्षणसहिता ) नक्षत्रमाला सप्तविंशतिमहामौक्तिकमाला यस्य तेन, ( इति गजपक्षे ) स्पष्टोऽर्थः । 'सैव
मैक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । 2 वस्तुतस्तु 'त्रिपदी पादबन्धनम्' । 'त्रिपदीच्छेदि-
मामपि' इति कालिदासः । तथा च कृतः त्रिपद्या (पादबन्धनशुङ्खलथा ) विलासः क्रीडा येन इत्यर्थः ।
3 लेखनप्रकारोऽनुचितः । तात्पर्य ग्राह्यम् । 4 लग्ना सिंहस्येव मुखम् अग्रभागो यस्याः ईदृशी प्रतिमा
कुन्तवन्धनश्शृङ्खला यस्य तेनेति बोध्यम् । 5 भ्रामकमिदम् । प्रसाधितः कृतशृङ्गारो हि प्रसाधनार्थ धृता-
भ्याम् मालोलान्यां कर्णस्थपल्लवाभ्यां आहतं (वायुवशात् ) मुखं यस्य, ईडशो भवति । अयं तु आहतं
गजस्वभावात् अभरापसारणनिमित्तं वा आलोलाभ्यां दीर्घकर्णाभ्यां मुखं येन स इत्यर्थः । 6 रसिता-
भागमति विशेषणं यदा घंटिकानां तदा मध्ये मधुर इति स्वरस्य कथं विशेषणं स्यात् । अतः - रसितानां
शब्दायमानानां मधुर ( मनोहर ) घंटिकानां यो रव इति समासो विधेयः ।
पाठा०१ अतिवामनतया २ पातालतलादिव ३ लोध्र. ४ प्रावृतः प्रावरित ५ वालपल्लवैर्निहतगज.