2023-12-26 12:29:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राजभवनम् ]
 
पूर्वभागः ।
 
[^१]भिर्याम करेणुकाभिरशून्यकक्षान्तरम्, आलानस्तम्भनिषण्णेन च नवर् [^२]जलधरघोषगम्भीरम-
नु [^३]गतवीणावेणुरवरम्यमा- स्फालितघर्रिका घर्घरमै [^४]मनवरतसंगी [^५]तकमृदङ्ग- [^६]ध्वनिमामीलितलोचन-
त्रिभागेण वामदशनकोटिनिषण्णहस्तेन निश्चलकर्णतालेनाकर्णयता सलीलमुभय [^७]पार्श्वावलम्बि-
वर्ण- कम्बलतया विन्ध्य गिरिणेवाविष्कृतधातुवि चित्रिं [^८]त्रितपक्षसंपुढेटे- नाधोरणगीतानन्दकृतमन्द्रक-
ण्ठगर्जितेन मदजलशबलशङ्ख- शोभितश्रवणपुटेन रजनिकर बिम्ब [^९]चुम्बिसंवर्तकाम्बुँ [^१०]म्बु- वृन्दविड-
म्बकेन कै[^११]कर्णावलम्बिना काञ्चनमयेन कृतकर्णपूर- मिवाङ्कुशेन मुखमुद्हता मदजलमलिनेव
द्वितीयेनेव कर्णचामरे- ण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदप्ग्रतया पूर्व-
."
 

 
[ टि ]--
उपारूढी प्राप्तौ यौ शिक्षाविनयौ ताभ्यां निभृताभिर्भूताभिः तत्र शिक्षा संज्ञादि [^1]ज्ञानम्, विनयो नम्रता । अते
एव कुलयुव- तिभिरिव ता अपि शिक्षाविनयाभ्यां निभृताः स्युः । एवंविधाभिर्याम- करेणुकाभिश्चतुषिकष्कि [^२]का हस्ति-
नीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति । आलानस्तम्भो गजबन्धनस्तम्भस्तत्र निष- ण्णेन
स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दूरेणान्वयः । अथ गजं विशेषयन्नाह -
नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् । अनुगतः सहितो यो वीणावेणुरवस्तेन
रम्यं मनोहरम् । आस्फालिता वादिता या घर्घ- रिका वाद्यविशेषस्तस्या घर्घरम् । घर्घरशब्दमिश्रमित्यर्थः
अनवतं निरन्तरम् । गीतनृत्यवाद्यत्रयं प्रेक्षणार्थे प्रयुक्तं संगीतकमुच्यते । तस्य यो मृदङ्गध्वनिर्मुरजरव स्तं
सलीलं यथा स्यात्तथाकर्णयता शृण्वतात एवामीलितो निमीलितो लोचन त्रिभागो नेत्रत्रिभागो येन स तथा तेन
यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति । वाम- दशनकोटावपसव्यदन्ताग्रे निषण्णः स्थितो हस्तो
येन ( यस्य ) तथा । अयमपि गजस्य स्वभावः । निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन, केवलमेतद्गीतश्रव-
णमाहात्म्यम् । उभयेति । उभयपार्श्वेऽवल- म्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावस्तत्ता तया

विन्ध्यगिरिणेव जलबालकेनेव । आविष्कृतेति । आविष्कृतो यो धातुर्गैरिकं तेन विचित्रितं पक्षसंपुटं यस्य ।
गजस्यापि कुथेनाच्छा- दितत्वेन तस्योपमानम् । विचित्रितपक्षसंपुटत्वादिति भावः । आधो- रणेति । आधो-
रणा हस्तिपकास्तेषां गीतं गानं तस्माद्य आनन्दः प्रमोदस्तेन कृतं विहितं मन्द्रं मधुरं कण्ठगर्जितं येन स तथा
तेन । मदेति । मदजलं दानजलं तेन शबलः कर्बुरो यः शङ्खो भालभ्रुवोरन्तरं तेन शोभितं विराजितं श्रव-
णपुटं कर्णसंपुढंटं यस्य स तथा तेन । 'शङ्खो निधौ ललाटास्थिथ्नि कम्बौ' इत्यमरः । रजनीति । रजनि कर करबिम्बं
चन्द्रबिम्बं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेघास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुक-

रोति यः स तथा तेन । 'शेषाद्विभाषा' इति कप्प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्र सादृश्
यं हस्तिनो जलधर-साम्यं च स्पष्टीकृतम् । कर्णेति । कर्णावलम्बिना काञ्चनमयेन स्वर्ण निष्पन्नेनाङ्कुशेन सृणिना
कृतकर्णपूरमिव विहितश्रोत्राभरण- मिव मुखमाननमुद्वहता धारयता । पुनः कीदृशेन । मधुकरकुलेन भ्रमरस-
मूहेन कृत्वालंक्रियमाणेन । विभूष्यमाणेन । भ्रमरकुलं विशिष्टि- कपोलेति । कपोलतलं गल्लात्परो भाग
स्तत्र दोलाय- मानेने तस्ततो भ्रममाणेन । चञ्चलत्वसाम्यादुपमानान्तरमाह- कर्णेति । द्वितीयेनापरेण कर्णचाम-
रेणेव । शुक्लत्वशङ्कां निराकर्तुमाह - मदेति । मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्यु- पमा
नस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह - पूर्वेति । अत्युदप्ग्रतयात्युच्चतया पूर्वकायस्
टिप्प० -

 
[^
1]F. कुलयुवतीनां पक्षे शिक्षा गार्हस्थ्य परिचालनचातुर्यानुकूला बोध्या ।
[^
2]F. प्रतिप्रहरं
रक्षाप्राहरिकरूपेण बन्धनीयाः करेणुका यामक- रेणुकाः ।
 
-
 
पाठा०-
-

 
[^
]G. यामक.
[^
]G. जलघरगर्जितघोष.
[^
]G. अतनु
[^
]G. अनवरतमृदुमृदङ्गध्वनिमामीलित; अनवरत संगीतमृदुमृद्-
-
ङ्गध्वनिमतिमनोहरं किञ्चिदामीलित .
[^
]G. संगीत.
[^
]G. ध्वानम्
[^
]G. पार्श्वप्रलम्बित .
[^
]G. विचित्र, .
[^
]G. चुम्बितावर्तक; चुम्बिना-
वर्तक; चुम्बितसंवर्तक.
[^
१०]G. अम्बुदविडम्बकेन.
[^
११]G. कर्णान्तलम्बिना.