This page has not been fully proofread.

राजभवनम् ]
 
पूर्वभागः ।
 
भिर्याम करेणुकाभिरशून्यकक्षान्तरम् आलानस्तम्भनिषण्णेन च नवर्जलधरघोषगम्भीरम-
नुगतवीणावेणुरवरम्यमास्फालितघर्धरिका घर्घरमैनवरतसंगीतकमृदङ्गध्वनिमामीलितलोचन-
त्रिभागेण वामदशनकोटिनिषण्णहस्तेन निश्चलकर्णतालेनाकर्णयता सलीलमुभयपार्श्वावलम्बि-
वर्णकम्बलतया विन्ध्य गिरिणेवाविष्कृतधातुवि चित्रिंतपक्षसंपुढेनाधोरणगीतानन्दकृतमन्द्रक-
ण्ठगर्जितेन मदजलशबलशङ्खशोभितश्रवणपुटेन रजनिकर बिम्ब चुम्बिसंवर्तकाम्बुँदवृन्दविड-
म्बकेन कैर्णावलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाकुशेन मुखमुद्हता मदजलमलिनेव
द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदप्रतया पूर्व-
."
 
उपारूढी प्राप्तौ यौ शिक्षाविनयौ ताभ्यां निभृताभिर्भूताभिः तत्र शिक्षा संज्ञादिज्ञानम्, विनयो नम्रता । अते
एव कुलयुवतिभिरिव ता अपि शिक्षाविनयाभ्यां निभृताः स्युः । एवंविधाभिर्यामक रेणुकाभिश्चतुषिकका हस्ति-
नीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति । आलानस्तम्भो गजबन्धनस्तम्भस्तत्र निषण्णेन
स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दूरेणान्वयः । अथ गजं विशेषयन्नाह -
नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् । अनुगतः सहितो यो वीणावेणुरवस्तेन
रम्यं मनोहरम् । आस्फालिता वादिता या घर्घरिका वाद्यविशेषस्तस्या घर्घरम् । घर्घरशब्दमिश्रमित्यर्थः ।
अनवरतं निरन्तरम् । गीतनृत्यवाद्यत्रयं प्रेक्षणार्थे प्रयुक्तं संगीतकमुच्यते । तस्य यो मृदङ्गध्वनिर्मुरजरव स्तं
सलीलं यथा स्यात्तथाकर्णयता शृण्वतात एवामीलितो निमीलितो लोचन त्रिभागो नेत्रत्रिभागो येन स तथा तेन ।
यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति । वामदशनकोटावपसव्यदन्ताग्रे निषण्णः स्थितो हस्तो
येन ( यस्य ) तथा । अयमपि गजस्य स्वभावः । निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन, केवलमेतद्गीतश्रव-
णमाहात्म्यम् । उभयेति । उभयपार्श्वेऽवलम्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावस्तत्ता तया
विन्ध्यगिरिणेव जलबालकेनेव । आविष्कृतेति । आविष्कृतो यो धातुर्गैरिकं तेन विचित्रितं पक्षसंपुटं यस्य ।
गजस्यापि कुथेनाच्छादितत्वेन तस्योपमानम् । विचित्रितपक्षसंपुटत्वादिति भावः । आधोरणेति । आधो-
रणा हस्तिपकास्तेषां गीतं गानं तस्माद्य आनन्दः प्रमोदस्तेन कृतं विहितं मन्द्रं मधुरं कण्ठगर्जितं येन स तथा
तेन । मदेति । मदजलं दानजलं तेन शबलः कर्बुरो यः शङ्खो भालभ्रुवोरन्तरं तेन शोभितं विराजितं श्रव-
णपुटं कर्णसंपुढं यस्य स तथा तेन । 'शङ्खो निधौ ललाटास्थि कम्बौ' इत्यमरः । रजनीति । रजनि कर बिम्बं
चन्द्रबिम्बं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेघास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुक-
रोति यः स तथा तेन । 'शेषाद्विभाषा' इति कप्प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्र सादृश्य
हस्तिनो जलधरसाम्यं च स्पष्टीकृतम् । कर्णेति । कर्णावलम्बिना काञ्चनमयेन स्वर्ण निष्पन्नेनाङ्कुशेन सृणिना
कृतकर्णपूरमिव विहितश्रोत्राभरणमिव मुखमाननमुद्वहता धारयता । पुनः कीदृशेन । मधुकरकुलेन भ्रमरस-
मूहेन कृत्वालंक्रियमाणेन । विभूष्यमाणेन । भ्रमरकुलं विशिष्टि- कपोलेति । कपोलतलं गल्लात्परो भाग
स्तत्र दोलायमानेने तस्ततो भ्रममाणेन । चञ्चलत्वसाम्यादुपमानान्तरमाह- कर्णेति । द्वितीयेनापरेण कर्णचाम-
रेणेव । शुक्लत्वशङ्कां निराकर्तुमाह - मदेति । मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्युपमा
नस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह - पूर्वेति । अत्युदप्रतयात्युच्चतया पूर्वकायस्थ
टिप्प० - 1 कुलयुवतीनां पक्षे शिक्षा गार्हस्थ्य परिचालनचातुर्यानुकूला बोध्या । 2 प्रतिप्रहरं
रक्षाप्राहरिकरूपेण बन्धनीयाः करेणुका यामक रेणुकाः ।
 
-
 
पाठा०-
-१ यामक. २ जलघरगर्जितघोष. ३ अतनु ४ अनवरतमृदुमृदङ्गध्वनिमामीलित; अनवरत संगीतमृदुमृद्-
ङ्गध्वनिमतिमनोहरं किञ्चिदामीलित ५ संगीत. ६ ध्वानम् ७ पार्श्वप्रलम्बित ८ विचित्र, ९ चुम्बितावर्तक; चुम्बिना-
वर्तक; चुम्बितसंवर्तक. १० अम्बुदविडम्बकेन. ११ कर्णान्तलम्बिना.