2023-12-26 11:51:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१९०
 
कादम्बरी ।
 
सितवेषपरिग्रहतया श्वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमा-
णैर्दिवानिशमा लिखितैरिवो-
त्कीर्णैरिव तोरणस्तम्भ निषण्णै र्द्वार पालै- रनुज्झितद्वारदेशम्, अनेकसं [^१]यवनचन्द्र [^२]शाला विटङ्कवे- दि-
कासंकटशिखरैरभ्रंकषैरै [^३]रपहसितसित कैलासशोभैरमल- सुधावदातैः सप्राले [^४]यशैलमिव महाप्रा-
सादैरनेकवातायन विव-
विनि [^५]र्गत युवति किरणसहस्रतया कनक [^६]शृङ्खलाजा-
लकेने
वोपरि विस्तीर्णेन विराजमानम्, अन्तर्गतायुधनिवहाभिराशी- विषकुलसंकुलाभिः पातालगुहाभिरिवातिगम्भी-
राभिरायुधशालाभि- रुपेतम्, अबलाचरणालक्तकर सरक्तमणिशकलैः शिखर निलीन- शिखिकुल-
कृतकेकारवकलकलैः क्रीडापर्वतकैरुपशोभितम्,
उज्ज्वलवर्णकम्बलावगुण्ठित कनकपर्याणाभिः
[^७]प्रलम्बचा मर- [^८]कलापचुम्बितचलकर्णपल्लवाभिः कुलयुवतिभिरिवो [^९]पा- रूढशिक्षाविनँ [^१०]नयनिभृता-
[ कथायाम् -
 
mpp
 
-.
 

 
[ टि ]--
मार्गः पन्था यस्यैवंभूतो राजकुलं विवेशेति दूरेणान्वयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुबेरे चैव
कुण्डले' इत्य- नेकार्थः । पुञ्जीभूतमित्र राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता
वेत्रयष्टिर्यैः । सितः शु॒शुक्रो वारबाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः
श्वेत उष्णीषो मूर्धदेवेष्टनं येषां तैः । सितो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । श्वेत-
द्वीपसंभवैरिव । श्वेता- भिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः । कृतयुगपुरुषै- रिव कृतयुगः सत्ययु
स्तत्रोत्पन्नैः पुरुषैर्नरैरिव । महाप्रमाणैरत्युच्चै- र्दिवानिशमहर्निशं मालिखितैरिव चित्रितरिव । उत्कीर्णैरिवोत्कीर्य

कर्षितैरिव । तोरणं प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्त-
दवष्टम्भेनावस्थितैरेवंभूतैर्द्वारपालैदर्दोर्दौवा-
रिकैरनुज्झितोऽपरित्यक्तो द्वारदेशो यस्य तत् । पुनः कीदृशम् । विराजमानं शोभमानम् । कैः कैः । प्रासादै -
र्दैवभूपानां गृहैः । कीदृशैः । अनेकेति । अनेकानि संय- [^1]वनानि, चतुःशालानि, चन्द्रशालाः शिरोगृहाणि
विटकः कपो-
तपालिका चोन्नतप्रदेशः, वेदिकाः प्रसिद्धाः, ताभिः संकटानि संकीर्णानि शिखराणि गृह-
प्रान्ताप्राणि येषां तैरअंभ्रंकषैव्या मव्यापि- भिरपहसितापहासास्पदीकृता सितकैलासस्य शोभा दीप्तिर्यैः । अमला
निर्मला या सुधा तयावदातेः शुभैरेवंभूतैर्महाप्रासादैर्देव- भूपानां गृहैः सप्रालेयशैलमिव हिमोपर् [^2]युक्तगिरिमिव
सुधा- धवलितत्वनोच्चत्वेन च द्वारदेशस्य शैलसाम्यम् । अनेके ये वाता- यना गवाक्षास्तेषां विवराणि रन्ध्राणि
तेषु विनिर्गतं यद्युवतीनां [^3]स्त्रीणां किरणसहस्रं तस्य भावस्तत्ता तया । कनक शृङ्खला- जाल के नेवोपरिधिस्तीर्णेन
विस्तृतेन विराजमानमित्यर्थः । पुनः कीदृ- शम् । अतिगम्भीराभिरलब्धमध्याभिरायुधशालाभिः शस्त्रशाला-
भि- रुपेतं सहितम् । कीदृशीभिः । अन्तर्गतो मध्यगत आयुध निवहः शस्त्रसमूहो यासु ताभिः । काभिरिव ।
ला
शीविषाः सर्पास्तेषां कुलानि तैः संकुलाभिर्व्याप्ताभिः पातालगुहाभिरिव बलिवेश्म- कन्दराभिरिव । पुनः
प्रकारान्तरेण तदेव विशेषयन्नाह
-- अबलेति । अबलाचरणानां वनितापादानां योऽलक्तकरसो यावकरसस्तेन

रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः शिखर निलीनैः सानु- मध्यवर्तिभिः शिखिकुलैर्मयूरसमूहैः कृतस्य
विहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतैः क्रीडापर्वतकैः क्रीडाचलैरुप- शोभितम् । उज्व-
ज्वलेति । उज्ज्वलवर्णो यः कम्बलो रहकस्तेनाव- गुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यासु ताभिः
प्रल- म्बानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिता- श्चलाः कर्णपल्लवा यासां ताभिः ।
' टिप्प० -

 
[^
1]F. 'संजवन' इत्येव पाठ: 'संजवनं त्विदम् । चतुःशालम्' इत्यमरः ।
[^
2]F. हिमशैलैः सहित-
1
मिव।
[^
3]F. भूषणानां यस्किरणसहस्त्रमिति बोध्यम् । न किल युवतयो रवयः
[^
4]F. अयमपि भ्रमः । विनि-
र्गतं युवतिभूणकिरणसहस्रं यस्मिन् तत्, तत्तया, इति बहुव्रीह्युत्तरं तल्प्रत्यय उचितः । राजभवनस्य

गवाक्षविवरेभ्यो भूषणकिरणा निर्गच्छन्ति, ते च कनकशृङ्खला- वत्प्रतीयन्त इत्युत्प्रेक्षाशयः ।
 
G
 
t
 
9
 
पाठा
 

 
[^
]F. संयमन; संजवन.
[^
]F. शालिका.
[^
]F. अपहसित कैलास शैलशोभैः, उपहसित
कैलासशिखरशोभैः.

[^
]F. शैलमिद. व.
[^
शु]F. युवतिभूषणकिरण .
[^
]F. वितानेन; विततेन; वितानेन.
[^
]F. प्रचल; लम्ब.

[^८]F. कलापचल.
[^९]F.उपरूढ.
उपगूढ.
[^
१०]F. विनयेन निभूभृताभिः.
 
८ कलापचल. ९ उपरूद;