This page has not been fully proofread.

१९०
 
कादम्बरी ।
 
सितवेषपरिग्रहतया श्वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमाणैर्दिवानिशमा लिखितैरिवो-
त्कीर्णैरिव तोरणस्तम्भ निषण्णैर्द्वार पालैरनुज्झितद्वारदेशम्, अनेकसंयवनचन्द्रशाला विटङ्कवेदि-
कासंकटशिखरैरभ्रंकषैरैपहसितसित कैलासशोभैरमलसुधावदातैः सप्रालेयशैलमिव महाप्रा-
सादैरनेकवातायन विवर विनिर्गत युवति किरणसहस्रतया कनक शृङ्खलाजालकेनेव
विराजमानम्, अन्तर्गतायुधनिवहाभिराशीविषकुलसंकुलाभिः पातालगुहाभिरिवातिगम्भी-
राभिरायुधशालाभिरुपेतम्, अबलाचरणालक्तकर सरक्तमणिशकलैः शिखर निलीन शिखिकुल-
कृतकेकारवकलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठित कनकपर्याणाभिः
प्रलम्बचा मरकलापचुम्बितचलकर्णपल्लवाभिः कुलयुवतिभिरिवोपारूढशिक्षाविनँयनिभृता-
[ कथायाम् -
 
mpp
 
-.
 
मार्गः पन्था यस्यैवंभूतो राजकुलं विवेशेति दूरेणान्वयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुबेरे चैव
कुण्डले' इत्यनेकार्थः । पुञ्जीभूतमित्र राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता
वेत्रयष्टिर्यैः । सितः शु॒क्रो वारबाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः
श्वेत उष्णीषो मूर्धदेष्टनं येषां तैः । सितो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । श्वेत-
द्वीपसंभवैरिव । श्वेताभिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः । कृतयुगपुरुषैरिव कृतयुगः सत्ययु
मस्तत्रोत्पन्नैः पुरुषैर्नरैरिव । महाप्रमाणैरत्युच्चैर्दिवानिशमहर्निश मालिखितैरिव चित्रितरिव । उत्कीर्णैरिवोत्कीर्य
कर्षितैरिव । तोरणं प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्तदवष्टम्भेनावस्थितैरेवंभूतैर्द्वारपालैदर्दोवा-
रिकैरनुज्झितोऽपरित्यक्तो द्वारदेशो यश तत् । पुनः कीदृशम् । विराजमानं शोभमानम् । कैः कैः । प्रासादै -
वभूपानां गृहैः । कीदृशैः । अनेकेति । अनेकानि संयवनानि, चतुःशालानि, चन्द्रशालाः शिरोगृहाणि
विटकः कपोतपालिका र चोनतप्रदेशः, वेदिकाः प्रसिद्धाः, ताभिः संकटानि संकीर्णानि शिखराणि गृह-
प्रान्ताप्राणि येषां तैरअंकषैनव्या पिभिरपहसितापहासास्पदीकृता सितकैलासस्य शोभा दीप्तिर्यैः । अमला
निर्मला या सुधा तयावदातेः शुभैरेवंभूतैर्महाप्रासादैर्देवभूपानां गृहैः सप्रालेयशैलमिव हिमोपर्युक्तगिरिमिव
सुधाधवलितत्वनोच्चत्वेन च द्वारदेशस्य शैलसाम्यम् । अनेके ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि
तेषु विनिर्गतं यद्युवतीनां स्त्रीणां किरणसहस्रं तस्य भावस्तत्ता तया । कनक शृङ्खलाजाल के नेवोपरिधिस्तीर्णेन
विस्तृतेन विराजमानमित्यर्थः । पुनः कीदृशम् । अतिगम्भीराभिरलब्धमध्याभिरायुधशालाभिः शस्त्रशाला-
भिरुपेतं सहितम् । कीदृशीभिः । अन्तर्गतो मध्यगत आयुध निवहः शस्त्रसमूहो यासु ताभिः । काभिरिव ।
लाशीविषाः सर्पास्तेषां कुलानि तैः संकुलाभिर्व्याप्ताभिः पातालगुहाभिरिव बलिवेश्मकन्दराभिरिव । पुनः
प्रकारान्तरेण तदेव विशेषयन्नाह
-- अबलेति । अबलाचरणानां वनितापादानां योऽलक्तकरसो यावकरसस्तेन
रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः शिखर निलीनैः सानुमध्यवर्तिभिः शिखिकुलैर्मयूरसमूहैः कृतस्य
विहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतैः क्रीडापर्वतकैः क्रीडाचलैरुपशोभितम् । उज्व-
लेति । उज्वलवर्णो यः कम्बलो रहकस्तेनावगुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यासु ताभिः
प्रलम्बानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिताश्चलाः कर्णपलवा यासां ताभिः ।
' टिप्प० -1 'संजवन' इत्येव पाठ: 'संजवनं त्विदम् । चतुःशालम्' इत्यमरः । 2 हिमशैलैः सहित-
13 भूषणानां यस्किरणसहस्त्रमिति बोध्यम् । न किल युवतयो रवयः । 4 अयमपि भ्रमः । विनि-
र्गतं युवतिभूपणकिरणसहस्रं यस्मिन् तत् तत्तया, इति बहुव्रीयुत्तरं तल्प्रत्यय उचितः । राजभवनस्य
गवाक्षविवरेभ्यो भूषणकिरणा निर्गच्छन्ति, ते च कनकशृङ्खलावत्प्रतीयन्त इत्युत्प्रेक्षाशयः ।
 
G
 
t
 
9
 
पाठा
 
•१ संयमन; संजवन. २ शालिका. ३ अपहसित कैलास शैलशोभैः, उपहसित
कैलासशिखरशोभैः.
४ शैलमिद. ५ शुवतिभूषणकिरण ६ वितानेन; विततेन; वितानेन. ७ मचल; लम्ब.
उपगूढ. १० विनयेन निभूताभिः.
 
८ कलापचल. ९ उपरूद;