2023-12-26 11:02:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

इव [^१]गर्भेण [^२]यथा व्यूढः । इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवै:, अनुगम्यमान इव हृदयै:, अनुबध्यमान इवाभरणरत्न- रश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनबलिभिः,[^४]शिथिल-
भुजलताविगलितधवलवलय [^५]निकरे पदे पदे विवाहानल इव कुसुममिश्रै [^६]र्लाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुल-
समीपमाससाद ।
 
क्रमेण च यामावस्थिताभिरनवरतकरटस्थल [^७]गलित [^८]म- दमषीकरीभिरञ्जनगिरिमालामलिनाभिः कुञ्जरघटाभिरन्धकारित- दिङ्मुखतया जलघरदिवसायमानमुद्दण्डधवलातपत्रसहस्रसंकट- मनेकद्वीपान्तरागतदूतशत [^९]संकुलं राजद्वारमासाद्य तुरङ्गमा- दवततार । अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन बलाहकेनोपदिश्यमानमार्गस्त्रिभुवनमिव पुञ्जी- भूतम्, आगृहीतकनकवेत्रलतैः सितवार [^१०]बाणैः सितकुसुम- शेखरैः सितो [^११]ष्णीषैः
 
[ टि ]-- धारणे निर्वहणे क्षमः समर्थो गर्भेण गर्भत्वेन [^1]व्यूढो वर्धितः । कः कयेव । ककुभा दिशा गर्भेण मध्यभागेन
दिग्गज इव व्यूढो धृतः । सोऽपि समग्रमहीभारधारणक्षमः । उपसंहरन्नाह - इत्येव मिति । इति समाप्तौ
एवंविधानि पूर्वोक्तस्वरूपाण्यन्यानि चैभ्योऽनुक्तानि वचनानि च वदन्तीनां जल्पन्तीनां तासां स्त्रीणां लोचनपुदै●
टैरापीयमान इव । अत्यादरेण वीक्षणं पानमुच्यते । भूषण- रवैराभरणध्वनिभिराहूयमान इव निमन्त्र्यमाण इव ।
हृदयश्चित्तैरनु- गम्यमान इवानुयायमान इव । आभरणरत्नानां रश्मयः किरणास्त एव रज्जवस्ताभिरनुबध्य-
मान इव । नवयौवनान्येव बलयस्तैरुपहिह्रि- यमाणः पूज्यमान इव । शिथिलाः लथा या भुजलता बाहुलताखास्ताभ्यो
विगलितानि च्युतानि धवलवलयनिकरः श्वेतकटकसमूहो यस्मिन्ने- वं [^2]विधे' पदे पदे प्रतिपदं विवाहानल इवोद्वा-
हवहिह्निरिव कुसुम- मिश्रैः पुष्पसंपृक्तैर्लाजाञ्जलिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप
 
क्रमेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्वादवततारो- त्तीर्णः । अथ राजद्वारं विशिनष्टि-
यामेति । यामावस्थिताभिः सेवा- वसरस्थिताभिः । अनवरतं निरन्तरं करटस्थलागण्डस्थलाद्गलितो यो मदो
दानं स एव मषी [^3]नामाम्बुकर्दमस्तं कुर्वन्तीति कार्य- स्ताभिः । अञ्जनगिरीणां या माला पङ्क्तिस्तद्वन्मलिनाभिर्मली-
मसाभिः कुञ्जरघटाभिर्हस्ति संहति भिरन्धकारितानि यानि दिङ्मु- खानि तेषां भावस्तत्ता तथा जलभरदिवसाय-
मानं मेघ दिन मिवाचर- माणमुद्दण्डं प्रचण्डं यद्धवलातपत्राणां श्वेतच्छत्राणां सहस्रं तेन संकटं संकुलम् । अनेके
द्वीपान्तराद्देशान्तरादागता ये दूताः संदेश- हारकास्तेषां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्तः ।
च पुनरर्थे । अवतीर्याश्वादुत्तीर्य करतलेन हस्ततलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमलम्ब्यावलमी-
नीकृत्य पुरोऽग्रे सविनयं विनय- सहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाकेनोपदिश्यमानो निवेद्यमानों
 
टिप्प० -
नो
 
[^
1]F. 'गर्भेण ययाऽयमूढः' । इत्येव पाठः । अयम् ऊढो धारितः
[^
2]F. निकरैरित्येव पाठः । वास-
नोद्रेकात् शिथिलाभ्यो भुजलता- भ्यो विगलितो धवलवलय (हीरकादिकङ्कण ) समूहो येषु तादृशैः
कुसुम मिश्रैर्लाजाञ्जलिभिर्विवाहानल इवाऽवकीर्यमाणः । पाणिग्रह-
णसमयेपि अग्नेरुपरि लाजाक्षेपः, राजा
गमनेपि लाजाक्षेप इति द्वयोः साम्यम् । तथा च कालिदासोपि- 'अवाकिरन् बाललताः प्रसूनैरा- चार
लाजैरिव पौरकन्याः' ।
[^
3]F. मदमसीपङ्ककरीभिः । इत्येव पाठः । मदा एव मसीपङ्काः तेषां करीभिः
कारिणीभिः
 
पाठा० - [^]G. गर्भेणायमूढ:.
[^
]G. यया च.
[^
]G. निबध्यमानः .
[^
]G. शिथिलित .
[^
]G. निकरैः .
[^
]G. मिश्र, .
[^
]G. विगलित
.
[^
]G. मषीपङ्ककरीभिः; मषीपट्टधराभिः.
[^९]G.
समाकुलम् .
[^
१०]G. बाणधारिमि: .
[^
११]G. सिताङ्गरागैः
 
0
 
.