कादम्बरी /222
This page has been fully proofread once and needs a second look.
पूर्वभागः ।
A
इव
रत्न
भुजलताविगलितधवलवल
यनिकॅ
समीपमाससाद ।
क्रमेण च यामावस्थिताभिरनवरत
-
.
[ टि ]-- धारणे निर्वहणे क्षमः समर्थो गर्भेण गर्भत्वेन व्यूढो वर्धितः । कः कयेव । ककुभा दिशा गर्भेण मध्यभागेन
दिग्गज इव व्यूढो धृतः । सोऽपि समग्रमहीभारधारणक्षमः । उपसंहरन्नाह - इत्येव मिति । इति समाप्तौ
एवंविधानि पूर्वोकस्वरूपाण्यन्यानि चैभ्योऽनुक्तानि वचनानि च वदन्तीनां जल्पन्तीनां तासां स्त्रीणां लोचनपुदै●
रापीयमान इव । अत्यादरेण वीक्षणं पानमुच्यते । भूषणरवैराभरणध्वनिभिराहूयमान इव निमन्त्र्यमाण इव ।
हृदयश्चित्तैरनुगम्यमान इवानुयायमान इव । आभरणरत्नानां रश्मयः किरणास्त एव रज्जवस्ताभिरनुबध्य-
मान इव । नवयौवनान्येव बलयस्तैरुपहियमाणः पूज्यमान इव । शिथिलाः लथा या भुजलता बाहुलताखाभ्यो
विगलितानि च्युतानि धवलवलयनिकरः श्वेतकटकसमूहो यस्मिन्नेवंविधे' पदे पदे प्रतिपदं विवाहानल इवोद्वा-
हवहिरिव कुसुम मिश्रैः पुष्पसंपृक्तैर्लाजान लिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप
क्रमेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्वादवततारोत्तीर्णः । अथ राजद्वारं विशिनष्टि-
यामेति । यामावस्थिताभिः सेवावसरस्थिताभिः । अनवरतं निरन्तरं करटस्थलागण्डस्थलाद्गलितो यो मदो
दानं स एव मषीनामाम्बुकर्दमस्तं कुर्वन्तीति कार्यस्ताभिः । अञ्जनगिरीणां या माला पङ्क्तिस्तद्वन्मलिनाभिर्मली-
मसाभिः कुञ्जरघटाभिर्हस्ति संहति भिरन्धकारितानि यानि दिङ्मुखानि तेषां भावस्तत्ता तथा जलभरदिवसाय-
मानं मेघ दिन मिवाचरमाणमुद्दण्डं प्रचण्डं यद्धवलातपत्राणां श्वेतच्छत्राणां सहस्रं तेन संकटं संकुलम् । अनेके
द्वीपान्तराद्देशान्तरादागता ये दूताः संदेशहारकास्तेषां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्तः ।
च पुनरर्थे । अवतीर्याश्वादुत्तीर्य करतलेन हस्ततलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमबलम्ब्यावलमी-
कृत्य पुरोऽग्रे सविनयं विनयसहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाह केनोपदिश्यमानो निवेद्यमानों
टिप्प० - 1 'गर्भेण ययाऽयमूढः' । इत्येव पाठः । अयम् ऊढो धारितः । 2 निकरैरित्येव पाठः । वास-
नोद्रेकात् शिथिलाभ्यो भुजलताभ्यो विगलितो धवलवलय (हीरकादिकङ्कण ) समूहो येषु तादृशैः
• कुसुम मिश्रैर्लाजाञ्जलिभिर्विवाहानल इवाऽवकीर्यमाणः । पाणिग्रहणसमयेपि अनेरुपरि लाजाक्षेपः, राजा •
गमनेपि लाजाक्षेप इति द्वयोः साम्यम् । तथा च कालिदासोपि- 'अवाकिरन् बाललताः प्रसूनैराचार
लाजैरिव पौरकन्याः' । 3 मदमसीपङ्ककरीभिः । इत्येव पाठः । मदा एव मसीपकाः तेषां करीभिः
कारिणीभिः
पाठा० - १ गर्भेणायमूढ:. २ यया च. ३ निबध्यमानः ४ शिथिलित ५ निकरैः ६ मिश्र, ७ विगलित
८ मषीपकरीभिः; मषीपट्टधराभिः. समाकुलम् १० बाणधारिमि: ११ सिताङ्गरागैः
0